भाषा

ENहिગુ
ग्रंथ पाठ

फलदीपिका · अध्याय p13

p13.1

कलत्र भव
शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतो
विधोरपि तयोः शुभं त्वितरथान सिद्धिस्तयोः ।
सिताव्द्ययसुखाष्टगैः खरखगैरसन्नध्यगे
सितेऽप्यथ शुभेतरेक्षितयुते च जायावधः

p13.2

दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरो
द्यूने वा निधनेश्श्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम् ।
क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजः
स्त्रीसंगाद्धननाशनं मदगयाः स्वर्भनुभान्वोर्वदेत्

p13.3

शुक्रे दृश्चकगे मदे मृतवधूः कामे वृषस्थे बुधे
स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरुढे तथा ।
जामित्रे भुषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति-
श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सति शोभना

p13.4

अस्ते वास्तपतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगे
नीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम् ।
कमे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ
शुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः

p13.5

भौमार्क्यस्ते भॄगुजशशिनोर्दाहीनोऽसुतो वा
क्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात् ।
द्वन्द्वर्क्षाशे मदपतिसितौ तस्य जायाद्वयं स्यात्
ताम्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु

p13.6

स्त्रीसंख्यां मदगैर्ग्रहैर्मृर्तिमसत्खेटैश्च सब्धिः स्थिती
द्यूनेशे सबले शुभे सति वधुः साध्वी सुपुत्रान्विता ।
पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्चकामस्थिता
हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः

p13.7

भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौ
तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टि विशेषात् ।
एवं पत्न्या अपि सति मदे चाष्मे वास्ति दोषः
सौम्यैर्दृष्टे सति शुभयुते दंपती भाग्यवन्तौ

p13.8

चन्द्रे समन्दे मदगे पुन्रभूः
पतिर्भवेद्वाप्यसुतो विदारः ।
नीचारिभस्थैरशुभैर्मदे स्त्री-
पुंसोर्मृतिः स्यान्निधने धने वा

p13.9

लग्नात्कलत्रभवने समराशिसंज्ञे
भावाधिपेऽपि च तथैव गतेऽसुरेड्ये ।
सूर्याभितप्तरहिते सुतदारनाथे
वीर्यन्विते तु जननं ससुतं कलत्रं

p13.10

कुटुम्बदारव्ययराशिनाथा
जीवेक्षिताः कोणचतुष्टयस्थाः ।
दारेश्चराद्वित्तकलत्रलाभे
सौम्याः कलत्रं ससुतं सुखाढ्यम्

p13.11

लग्नास्तनाथस्थितभांशकोणे
नीचोच्चभे स्त्रीजननं च पत्युः ।
चन्द्राष्टवर्गेधिककिन्दुराशौ
कलत्रजन्मेति तथा धवस्य

p13.12

कामस्थकामाधिप्भार्गवाना
मृक्षं दिशं शंसति तस्य पत्न्याः ।
शुक्रोऽस्तपो वा नतुनाथभांश-
त्रिकोणमायाति तदा विवाहः

p13.13

कलत्रसंस्थस्य कलत्रदृष्टे
दर्शागमेवाथ कलत्रपस्य ।
यदा विलग्नाधिपतिः प्रयाति
कलत्रभं तत्र कलत्रलाभः

p13.14

कलत्रनाथस्थितभांशकेशयोः
सितक्षपानायकयोर्बलीयसः ।
दशागमे द्यूनपयुक्तभांशक-
लत्रिकोणगे देवगुरौ करग्रहः

p13.15

कलत्रनाथे रिपुनीचसंस्थे
मूढेऽथवा पापनिरीक्षिते वा
कलत्रभे पापयुतेऽथ दृष्टे
कलत्रहानी प्रवदन्ति सन्तः

मूल पाठ: phaladīpikā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc