Patna Dharmapada · भाग 120
सिद्धं नमः सर्व्वबुद्धधम्मार्य्यसंघेभ्यः
1 ध्प् 1
मनोपूर्व्वंगमा धम्मा मनोश्रेष्ठा मनोजवा ।
मनसा च प्रदुष्टेन भाषते वा करोति वा ।
ततो नं दुखम् अन्नेति चक्रम् वा वहतो पदं ॥
उव्31:23
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः ।
मनसा हि प्रदुष्टेन भाषते वा करोति वा ।
ततस् तं दुःखम् अन्वेति चक्रं वा वहतो पदम् ॥
2 ध्प्2
म[नोपूर्व्वं]गमा धम्मा मनोश्रेष्ठा मनोजवा ।
मनसा च प्रसन्नेन भाषते वा करोति वा ।
ततो नं सुखम् अन्नेति च्छाया वा अनपायिनी ॥
उव्31:24
मनःपूर्वङ्गमा ध्र्मा मनःश्रेष्ठा मनोजवा ।
मनसा च प्रसन्नेन भाषते वा करोति वा ।
ततस् तं सुखम् अन्वेति च्छाया वा अनुगमिनी ॥
3 ध्प्15
इह शोचति प्रेच्च शोचति पापकम्[मो उभय]त्थ शोचति ।
सो शोचति सो विहंन्यति दृष्टा कम्मकिलेशम् आत्तनो ॥
उव्28:34
इह शोचति प्रेत्य शोचति पापकम्मा हि उभयत्र शोचति ।
स हि शोचति स प्रशोचति दृष्ट्वा कर्म हि क्लिष्टम् आत्मनः ॥
4 ध्प्16
इह नन्दति प्रेच्च नन्दति कतपुंञो उभयत्थ नन्दति ।
सो नन्दति [ ]दति दृष्टा कम्मविशुद्धिम् आत्तनो ॥
उव्28:35
इह नन्दति प्रेत्य नन्दति कृतपुण्यो ह्य् उभयत्र नन्दति ।
स हि नन्दति स प्रमोदते दृष्ट्वा कर्म विशुद्धम् आत्मनः ॥
5 ध्प्3
आक्रोशि मं अवधि मं अजिनि मं अहासि मे ।
ये तानि उपनह्यन्ति वेरं तेसं न शाम्यति ॥
उव्14:9
आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयेत् ।
अत्र ये ह्य् उपनह्यन्ति वैरं तेषां न शाम्यति ॥
6 ध्प्4
आक्रो[षि मं] अवधि मं अजिनि मं अहासि मे ।
ये तानि नोपनह्यन्ति वेरं तेसं उपशम्यति ॥
उव्14:10
आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयेत् ।
अत्र ये नोपनह्यन्ति वैरं तेषां प्रशाम्यति ॥
7 ध्प्7
शुभा ऽनुपश्शिं विहरन्तं इन्द्रियेसु असंवृतं ।
[भोजन]म्हि अमात्तंञू कुशीदं हीनवीरियं ॥
तं वे प्रसहते मारो वातो रुक्खं व दुब्बलं ।
उव्29:15
शुभानुदर्शिनं नित्यम् इद्रियैश् चाप्य् असंवृतं ।
भोजने चाप्य् अमात्रज्ञं हीनं जागरिकासु च ।
तं वै प्रसहते रागो वातो वृक्षम् इवाबलं ।
8 ध्प्8
अशुभानुपश्शिं विहरन्तं इन्द्रियेषु सुसंवृतं ॥
भोजनम्हि च मा[ ]द्धं आरद्धवीरियं ।
तं वे न प्रसहते मारो वातो शेलं व पर्व्वतं ॥
उव्29:16
अशुभानुदर्शिनं नित्यम् इन्द्रियैश् च सुसंवृतं ।
भोजने चापि मात्रज्ञं युक्तं जागरिकासु च ।
तं न प्रसहते रागो वातः शैलम् इव स्थिरं ॥
9 ध्प्328
सचे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं ।
अधिभूय सब्बाणि परिश्रव्[ ] चरेया तेनात्तमनो सतीमा ॥
उव्14:13
स चेल् लभेद् वै निपकं सहायं लोके चरं साधु हि नित्यम् एव ।
अधिभूय सर्वाणि परिस्रवाणि चरेत तेनाप्तमना स्मृतात्मा ॥
10 ध्प्329
न चे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं ।
राजा व राष्टं विजितं प्रहाय एको च्चरे मातंगारन्ने व नागो ॥
उव्14:14
न चेल् लभेत् वै निपकं सहायं लोके च रं साधु हि नित्यम् एव ।
राजेव राष्ट्रं विपुलं प्रहाय एकश् चरेन् न च पापानि कुर्यात् ॥
11 ध्प्330
एकस्स चरितं श्रेयो नास्ति बाले बितीयता ।
एको च्चरे न च पापानि कयिरा अप्पुस्सुको मातंगारन्ने व नागो ॥
उव्14:16
एकस्य चरितं श्रेयो न तु बालः सहायता ।
एकश् चरेन् न च पापानि कुर्याद् अल्पोत्सुको ऽरण्यगतै व नागः ॥
12
छन्ददोषभया मोहा यो धम्मं अतिवत्तति ।
नीहीरते तस्स यशो कालपक्खे व चन्द्रमा ॥
13
छन्ददोषभया मोहा यो धम्मं नातिवत्तति ।
आपूरते तस्स यशो शुक्लपक्खे व चन्दरमा ॥
14 ध्प्21
अप्रमादो अमतपदं प्रमादो मच्चुनो पदं ।
अप्रमत्ता न म्रीयन्ति ये प्रमत्ता यथा मता ॥
उव्4:1
अप्रमादो ह्य् अमृतपदं प्रमादो मत्युनः पदम् ।
अप्रमत्ता न म्रियन्ते ये प्रमत्ताः सदा मृताः ॥
15 ध्प्22
एतं विशेषतं न्यात्ता अप्रमादम्हि पण्डिता ।
अप्रमादे प्रमोदन्ति अयिराणां गोचरे रता ॥
उव्4:2
एतं विशेषतां ज्ञात्वा ह्य् अप्रमादस्य पण्डितः ।
अप्रमादं प्रमुद्येत नित्यम् आर्यः स्वगोचरम् ॥
16 ध्प्23
ते झायिनो साततिका निच्चं दृढपराक्रमा ।
फुसन्ति धीरा निब्बाणं योगच्छेमं अनुत्तरं ॥
उव्4:3
अप्रमत्ताः साततिका निच्चं दृढपराक्रमाः ।
स्पृशन्ति धीरा निर्वाणं योगक्षेमम् अनुत्तरम् ॥
17 ध्प्26
प्रमादं अनुयुञ्जन्ति बाला दुम्मेधिनो जना ।
अप्रमादन् तु मेधावी धनं श्रेष्ठं व रक्खति ॥
उव्4:10
प्रमादम् अनुवर्तन्ते बाला दुर्मेधसो जनाः ।
अप्रमादं तु मेधावी धनं श्रेष्ठीव रक्षति ॥
18 ध्प्29
अप्रमत्तो प्रमत्तेसु सुत्तेसु बहुजागरो ।
अबलाष्षम् व शीघ्राश्शो हेत्ता याति सुमेधसो ॥
उव्19:4
अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः ।
अबलाश्व इव भद्राश्वं हित्वा याति सुमेधसम् ॥
19 ध्प्28
प्रमादम् अप्रमादेन यदा नुदति पण्डितो ।
प्रंञाप्रासादम् आरुह्य अशोको शोकिनिं प्रजां ।
पर्व्वतट्ठो व भोम ऽट्ठे धीरो बाले अवेच्छति ॥
उव्4:4
प्रमादम् अप्रमादेन यदा नुदति पण्डितः ।
प्रज्ञाप्रासादम् आरुह्य त्व् अशोकः शोकिनीं प्रजाम् ।
पर्वतस्थैव भूमिस्थां धीरो बालान् अवेक्षते ॥
20 ध्प्172
पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति ।
सो इमं लोकं प्रभासेति अभ्रमुत्तो व चन्द्रमा ॥
उव्16:5
यस् तु पूर्वं प्रमाद्येह पश्चाद् वै न प्रमाद्यते ।
स इमं भासते लोकम् अभ्रमुक्तैव चन्द्रमाः ॥
21
पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति ।
सो इमां विसत्तिकां लोके सतो समतिवत्तति ॥
उव्16:6
यस् तु पूर्वं प्रमाद्येह पश्चाद् वै न प्रमाद्यते ।
स इमां विषक्तिकां लोके स्मृतः समतिवर्तते ॥
22 ध्प्32
अप्रमादगरु भिक्खू प्रमादे भयदंशिनो ।
अभव्वो परिहाणाय निब्बाणस्सेव सन्तिके ॥
उव्4:32
अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः ।
अभव्यः परिहाणाय निर्वाणस्यैव सो ऽन्तिके ॥
23 ध्प्31
अप्रमादगरु भिक्खू प्रमादे भयदंशिनो
संयोजनम् अणुत्थूलं दहम् अग्गीव गच्छति ।
उव्4:29
अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः ।
संयोजनम् अणुस्थूलं दहन्न् अग्निर् इव गच्छति ।
24 ध्प्327
अप्रमादरता होथ सं चित्तम् अनुरक्खथ ॥
दुग्गा उद्धरथात्तानं पके सन्नो व कुञ्जरो ।
उव्4:36।4:27
अप्रमादरता भवत स्वचित्तम् अनुरक्षत ॥
दुर्गाद् उद्धरते त्मानं पङ्कसन् नैव कुञ्जरः ।
25
प्रमादे प्रमुदिनो निपका शीलसंवृता ॥
ते वे काले प्राच्छन्ति यत्थ प्रात्तो न शोचति ।
26
प्रमादे प्रमोदेथ न कामरतिसन्धवे ॥
एवं विहरन् आतापी शान्तचित्तो ऽनुद्धतो ।
चेतोशमथम् अनुयुत्तो दुक्खस्सन्तकरो सिया ॥
27 ध्प्24
उट्ठेया न प्रमज्जेया धम्मं सुचरितं चरे ।
धम्मचारी [ ] शेति अश्शिं लोके परम्हि च ॥
उव्4:35
उत्तिष्ठेन् न प्रमाद्येत धर्मं सुचरितं चरेत् ।
धर्मचारी सुखं शेते ह्य् अस्मिं लोके परत्र च ॥
28 ध्प्24
उट्ठाणवतो सतीमतो शुचिकम्मस्स निशाम्मकाणो ।
संय्यतस्स च धम्मजीविनो अप्रमत्तस्स यशो ऽस्स वद्धति ॥
उव्4:6
उत्थानवतः स्मृतात्मनः शुभचित्तस्य निशाम्यचारिणः ।
संयतस्य हि धर्मजीविनो ह्य् अप्रमत्तस्य यशो ऽभिवर्धते ॥
29 ध्प्25
उट्ठाणेना ऽप्रमादेन संय्यमेन दमेन च ।
दीपं कयिराथ मेधावी यम् ओघो नाधिपूरति ॥
उव्4:5
उत्थानेनाप्रमादेन संयमेन दमेन च ।
द्वीपं करोति मेधावी तम् ओघो नाभिमर्दति ॥
30 ध्प्280
उट्ठाणकालम्हि अनुट्ठिहानो युवा बली आलसिको उपको ।
संसन्नसंकप्पमनो कुसीदो प्रंञाय माग्गं अलसो न येति ॥
उव्31:32
उत्थानकालेषु निहीनवीर्यो वाचा बली त्व् आलसिको निराशः ।
सदैव संकल्पहतः कुसीदो ज्ञानस्य मार्गं सततं न वेत्ति ॥
31 ध्प्167
हीनं धम्मं न सेवेया प्रमादेन न सम्वसे ।
मिच्छदृष्टिं न सेवेया न सिया लोकवद्धनो ॥
उव्4:8
हीनां धर्मं न सेवेत प्रमादेन न संवसेत् ।
मित्यादृष्टिं न रोचेत न भवेल् लोकवर्धनः ॥
32 ध्प्259
न तावता धम्मधरो यावता बहु भाषति ।
यो तु अप्पम् पि सोत्तान धम्मं कायेन फस्सये ।
स वे धम्मधरो होति यो धम्मे न प्रमज्जति ॥
उव्4:21
न तावता धर्मधरो यावता बहु भाषते ।
यस् त्व् इहाल्पम् अपि श्रुत्वा धर्मं कायेन वै स्पृशेत् ।
स वै धर्मधरो भवति यो धर्मे न प्रमाद्यते ॥
33 ध्प्371
धम्मं विचिनाथ अप्रमत्ता मा वो कामगुणा भ्रमेंसु चित्तं ।
मा लोहगुडे गिलं प्रमत्तो क्रण्डे दुक्खम् इदन् ति दह्यमानो ॥
उव्31:31
आतापि विहर त्वम् अप्रमत्तो मा ते कामगुणो मथेत चित्तम् ।
मा लोहगुडां गिलेः प्रमत्तः क्रन्दं वै नरकेषु पच्यमानः ॥
अप्रमादवग्गः
***** ब्राह्मण *****
34 ध्प्383
छिन्न सूत्रं पराक्राम्म भवं प्रणुद ब्राह्मण ।
संखाराणां खयं ञात्ता अकथसो सि ब्राह्मण ॥
उव्33:60
छिन्धि स्रोतः पराक्रम्य कामां प्रणुद ब्राह्मण ।
संकाराणां क्षयं ज्ञात्वा ह्य् अकृतज्ञो भविष्यसि ॥
35
यम्हि धम्मं विजानेया वृद्धम्हि दहरम्हि ।
सक्कच्च नं नमस्सेया अग्गिहोत्रं व ब्राह्मणो ॥
उव्33:64
यस्य धर्मं विजानीयाद् वृद्धस्य दहरस्य वा ।
सतृअत्यनं नमस्येत ह्य् अग्निहोत्रम् इव द्विजः ॥
36 ध्प्392
यम्हि धम्मं विजानेया सम्मसंबुद्धदेशितं ।
तम् एव अपचायेया अग्गिहोत्रं व ब्राह्मणो ॥
उव्33:66
यस्य धर्मं विजानीयात् सम्यक्संबुद्धदेशितम् ।
सत्कृत्यैनं नमस्येत ह्य् अग्निहोत्रम् इव द्विजः ॥
37
न जटाहि न गोत्रेण न जाच्चा होति ब्राह्मणो ।
यो तु बाहति पापानि अणुत्थूलानि सब्बशो ॥
बाहना एव पापानां ब्राह्मणो ति प्रवुच्चति ।
उव्33:8
न जटाभिर् न गोत्रेण न जात्या ब्राह्मणः स्मृतः ।
यस् तु वाहयते पापान्य् अणुस्थूलानि सर्वशः ।
वाहितत्वात् तु पापानां ब्राह्मणो वै निरुच्यते ॥
38 ध्प्401
वारी पुक्खरपत्ते वा आराग्रे-र्-इव सासवो ॥
यो न लिप्पति कामेसु तम् अहं ब्रूमि ब्राह्मणं ।
उव्33:30
वारी पुष्करपत्रेणेव् आराग्रेणेव सर्षपः ।
न लिप्यते यो हि कामैर् ब्रवीमि ब्राह्मणं हि तम् ॥
39 ध्प्387
उदयं तपति आदिच्चो रात्रिम् आभाति चन्द्रमा ॥
सन्नद्धो खत्तियो तपति झायिं तपति ब्राह्मणो ॥
अथ सब्बे अहोरात्ते बुद्धो तपति तेजसा ॥
उव्33:74
दिवा तपति हादित्यो रात्राव् आभाति चन्द्रमाः ।
संनद्धः क्षत्रियस् तपति ध्यायी तपति ब्राह्मणः ।
अथ नित्यम् अहोरात्रं बुद्धस् तपति तेजसा ॥
40 ध्प्385
यस्स पारम् अपारम् वा पारापारं न विज्जति ।
वीतज्जरं विसंयुत्तं तम् अहं ब्रूमि ब्राह्मणं ॥
41 ध्प्384
यदा दयेसु धम्मेसु पारगू होति ब्राह्मणो ।
अथस्स सब्बे संयोगा अत्थं गच्छन्ति जानतो ॥
उव्33:72
यदा हि स्वेषु धर्मेषु ब्राह्मणः पारगो भवेत् ।
अथास्य सर्वसंयोगा अस्तं गच्छन्ति पश्यतः ॥
42
स खु सो खिणसंयोगो खीणमानपुनब्भवो ।
संघावसेवी धम्मट्ठो संघं न उपेति वेदगू ॥
उव्6:10
स तु विक्षीण संयोगः क्षीणमानो निरौपधिः ।
कायस्य भेदात् सप्रज्ञः संख्यान् नोपैति निर्वृतः ॥
43 ध्प्408
अकक्कशिं विन्नपणिं गिरां सच्चम् उदीरये ।
ताय नाभिषपे कंचि तम् अहं ब्रूमि ब्राह्मणं ॥
उव्33:17
यो ऽकर्कशां विज्ञपनीं गिरं नित्यं प्रभाषते ।
यया नाभिषजेत् कश् चिद् ब्रवीमि ब्राह्मणं हि तम् ॥
44 ध्प्404
असंसट्ठं गृहट्ठेहि अनगारेहि चूभयं ।
अनोकसारिं अप्पिच्छं तम् अहं ब्रूमि ब्राह्मणं ॥
उव्33:20
असंसृष्टं गृहस्थेभिर् अनगारैस् तथोभयं ।
अनोकसारिणं तुष्टं ब्रवीमि ब्राह्मणं हि तं ॥
45 ध्प्391
यस्स कायेन वाचाय मनसा नास्ति दुक्कतं ।
संवृतं त्रिसु ट्ठाएसु तम् अहं ब्रूमि ब्राह्मणं ॥
उव्33:16
यस्य कायेन वाचा च मनसा च न दुष्कृतम् ।
सुसंवृतं तृभिः स्थानैर् ब्रवीमि ब्राह्मणं हि तम् ॥
46 ध्प्389
मा ब्राह्मणस्स प्रहरे नास्स मुच्चेय ब्राह्मणो ।
धि ब्राह्मणस्स हन्तारं य स्स वा सु न मुच्चति ॥
उव्33:63
न ब्राह्मणस्य प्रहरेन् न च मुञ्चेत ब्राह्मणः ।
धिग् ब्राह्मणस्य हन्तारं धिक् तं यष् च प्रमुञ्चति ॥
47 ध्प्294,295
मातरं पठनं हन्ता राजानं दो च खत्तिये ।
राष्टं सानुचरं हन्ता अनिघो चरति ब्राह्मणो ॥
उव्33:61,62
मातरं पितरं हत्वा राजानं द्वौ च श्रोत्रियौ ।
राष्ट्रं सानुचरं हत्वा अनिघो याति ब्राह्मणः ॥
48 ध्प्403
गम्भीरप्रंञं मेधाविं माग्गा ऽमाग्गस्स कोविदं ।
उत्तमात्थम् अनुप्रात्तं तम् अहं ब्रूमि ब्राह्मणं ॥
उव्33:33
गम्भीरबुद्धिं मेधाढ्यं मार्गामार्गेषु कोविदम् ।
उत्तमार्थम् अनुप्राप्तं ब्रवीमि ब्राह्मणं हि तम् ॥
49 ध्प्386
झायिं विरजम् आसीनं कतकिच्चं अनासवं ।
उत्तमात्थम् अनुप्रात्तं तम् अहं ब्रूमि ब्राह्मणं ॥
उव्33:32
ध्यायिनं वीतरजसं कृतकृत्यं अनासवम् ।
क्षीणास्रवं विसंयुक्तं ब्रवीमि ब्राह्मणं हि तम् ॥
ब्राह्मणवर्ग्गः
***** भिक्षु *****
50
सब्बत्थ संवरो साधु साधु सब्बत्थ संवरो ।
सब्बत्थ संवृतो भिक्खू सब्बदुक्खा प्रमुच्चति ॥
51 ध्प्361
कायेन सम्वरो साधु साधु वाचाय संवरो ।
मनसा पि संवरो साधु साधु सब्बत्थ संवरो ।
सब्बत्थ संवृतो भिक्षू सब्बदुक्खा प्रमुच्चति ॥
उव्7:11
कायेन संवरः साधु साधु वाचा च संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः ।
सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥
52 ध्प्362
हस्तसंय्यतो पादसंय्यतो वाचासंय्यतो संवृतेन्द्रियो ॥
अज्झत्तरतो समाहितो एको संतुषितो तम् आहु भिक्खुं ।
उव्32:7
हस्तसंयतः पादसंयतो वाचासंयतः सर्वसंयतः ।
आध्यात्मरतः समाहितो ह्य् एकः संतुषितो हि यः स भिक्षुः ॥
53 ध्प्378
शान्तकायो शान्तचित्तो शान्तवा सुसमाहितो ॥
वान्तलोकामिषो भिक्खू उपशान्तो ति वुच्चति ।
उव्32:24
शान्तकायः (शान्तचित्तः) शान्तवाक् सुसमाहितः ।
वान्तलोकामिषो भिक्षुर् उपशान्तो निरुच्यते ॥
54 ध्प्363
यो मुखे संय्यतो भिक्खू मन्ताभाषी अनुद्धतो ॥
अत्थं धम्मञ् च देशेति मधुरं तस्स भाषितं ।
उव्8:10
मुखेन संयतो भिक्षुर् मन्दाभाषी ह्य् अनुद्धतः ।
अर्थं धर्मं च देशयति मधुरं तस्य भाषितम् ॥
55 ध्प्365
सं लाभं नातिमंञेया ना ऽंञेसं प्रिहयं चरे ॥
अंञेसं प्रिहयं भिक्खू समाधिन् नाधिगच्छति ।
उव्13:8
स्वलाभं नावमन्येत नान्येषां स्पृहको भवेत् ।
अन्येषां स्पृहको भिक्षुः समाधिं नाधिगच्छति ॥
56 ध्प्366
अप्पलाभो पि चे भिक्खू सं लाभं नातिमंञति ॥
तं वे देवा प्रशंसन्ति शुद्धाजीविं अतन्द्रितं ॥
उव्13:12
अल्पज्ञातो ऽपि चेद् भवति शीलेषु सुसमाहितः ।
विद्वांसस् तं प्रशंसन्ति शुद्धाजीविम् अतन्द्रितम् ॥
57 ध्प्369
सिञ्च भिक्खु इमं नावां सित्ता ते लघु हेहिति ।
हेत्ता रागञ् च दोषं च ततो निब्बाणम् एहिसि ॥
उव्26:12
सिञ्च भिक्षोर् इमां नावं सिक्ता लघ्वी भविष्यति ।
हित्वा रागं च दोषं च ततो निर्वाणम् एष्यसि ॥
58
उदाग्ग्रचित्तो सुमनो अधिभूय प्रिया ऽप्रियं ॥
ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे ।
उव्32:23
उदग्रचित्तः सुमना ह्य् अधिभूय प्रियाप्रियम् ॥
प्रामोद्यबहुलो भिक्षुर् दुःखक्षयम् अवाप्नुयात् ।
59 ध्प्368
मेत्ताविहारी भिक्खू प्रसन्नो बुद्धशासने ॥
पटिविज्झि पदं शान्तं संखारोपशमं सुखं ।
दृष्टे व धम्मे निब्बाणं योगच्छेमं अनुत्तरं ॥
उव्32:21
मैत्राविहारी यो भिक्षुः प्रसन्नो बुद्धशासने ।
अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥
(दृष्टे व धम्मे निब्बाणं योगच्छेमं अनुत्तरं ॥)
60 ध्प्373
शुंञ ऽगारं प्रविष्टस्स शान्तचित्तस्स भिक्खुणो ।
अमानुषा रती होति सम्मं धम्मं विपश्शतो ॥
उव्32:9
शुन्यागारं प्रविष्टस्य प्रहितात्मस्य भिक्षुणः ।
अमानुषा रतिर् भवति सम्यग् धर्मां विपश्यतः ॥
61 ध्प्374
यथा यथा सम्मस्सति खन्धानाम् उदयव्ययं ।
लभते चित्तस्स प्रामोज्जं अमता हेतं विजानतो ॥
उव्32:10
यथो यथः संअपृशति स्कन्धानाम् उदयव्ययम् ।
प्रामोद्यं लभते तत्र प्रीया सुखम् अनल्पकम् ।
ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥
62 ध्प्372
नास्ति झानम् अप्रंञस्स प्रंञा नास्ति अझायतो ।
यम्हि झानं च प्रंञा च स वे निब्बाणसन्तिके ॥
उव्32:25
नास्त्य् अप्रज्ञस्य वै ध्यानम् प्रज्ञा नाध्यायतो ऽस्ति च ।
यस्य ध्यानं तथा प्रज्ञा स वै निर्वाणसान्तिके ॥
63 ध्प्375
तत्थायम् आदी भवति इह प्रंञस्स भिक्खुणो ।
इन्द्रियगोत्ती सान्तोष्टी प्रातिमोक्खे च संवरो ॥
उव्32:26च्द्,27अब्
तस्यायम् आदिर् भवति तथा प्रज्ञस्य भिक्षुणः ।
संतुष्टिर् इन्द्रियैर् गुप्तिः प्रातिमोक्षे च संवरः ॥
64 ध्प्375एf,376
मित्ते भजेथ कल्लाणे शुद्धाजीवी अतन्द्रितो ।
पटिसन्धरवट्टि स्स आचरकुशलो सिया ।
ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे ॥
उव्32:6
मात्रं भजेत प्रतिरूपं शुद्धाजीवो भवेत् सदा ।
प्रतिसंस्तारवृत्तिः स्याद् आचारकुशलो भवेत् ।
ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥
65 ध्प्331
अत्थेसु जातेसु सुखा सखाया पुंञं सुखं जीवितसंखयम्हि ।
तोष्टी सुखा या इतरी[ ] सब्बस्स पापस्स सुखं प्रहाणं ॥
उव्30:34
अर्थेषु जातेषु सुखं सहायाः पुण्यं सुखं जीवितसंक्षयेषु ।
तुष्टिः सुखा या त्व् इतरेतरेण सर्वस्य दुःखस्य सुखो निरोधः ॥
66 ध्प्332
सुखा मात्रेता लोके ततो पेत्तेता सुखा ।
शामन्नता सुखा लोके ततो ब्राह्मन्नता सुखा ॥
उव्30:21
सुखं मातृव्यता लोके सुखं चैव पित्तृव्यता ।
सुखं श्रामण्यता लोके तथा ब्राह्मण्यता सुखम् ॥
67 ध्प्333
सुखं यावज् जरा शीलं सुखा श्रद्धा प्रतिष्ठिता ।
सुखा अत्थरसा वाचा अस्सिं मानक्खयो सुखो ॥
उव्30:20
सुखं यावज् जरा शीलं सुखं श्रद्धा प्रतिष्ठिता ।
सुखं चार्थरता वाचा पापस्याकरणं सुखं ॥
68 ध्प्194
सुखो बुद्धान उप्पादो सुखा धम्मस्स देशना ।
सुखा संघस्स सामग्ग्री समग्ग्राणां तपो सुखो ॥
उव्30:22
सुखं बुद्धस्य चोत्पादः सुखं धर्मस्य देशना ।
सुखं संघस्य सामग्री समग्राणां तपः सुखं ॥
69 ध्प्206
सुखं दंशनम् अयिराणां संवासो पि सतां सुखो ।
अद्दंशनेन बालानां निच्चम् एव सुखी सिया ॥
उव्30:25
सुखं दर्शनम् आर्याणां संवासो ऽपि सदा सुखं ।
अदर्शनेन बालानां नित्यम् एव सुखी भवेत् ॥
70 ध्प्207
बालासङ्गतचारी हि द्रीघम् अद्धान शोचति ।
दुक्खो बालेहि संवासो अमित्तेहि-र्-इव सब्बदा ।
धीरा तु सुखसंवासा ञातीनं वा समागमो ॥
उव्30:26
बालासंसर्गचारी हि दीर्घाध्वानं प्रशोचति ।
दुःखो बालैर् हि संवासो ह्य् अमित्रैर् इव सर्वशाः ।
धीरैस् तु सुखसंवासो ज्ञातीनाम् इवा संगमः ॥
71 ध्प्208
तस्सा हि धीरं च बहुश्शुतञ् च धोरेयशीलव्रतमन्तम् अयिरं ।
तं तारिसं सप्पुरुषं सुमेधं सेवेथ नक्खत्तपथे व चन्द्रमा ॥
उव्25:25
धीरं प्राज्ञं निषेवेत शीलवन्तं बहुश्रुतम् ।
धौरेयं जवसंपन्नं चन्द्रं तारागणा इव ॥
72 ध्प्212
प्रियातो जायते दुक्खं प्रिया शोका प्रिया भयं ।
प्रियातो विप्रमुत्तस्स नास्ति शोका कतो भयं ॥
उव्5:1
प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम् ।
प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् ॥
73 ध्प्210
मा प्रियेहि समागंम अप्रियेहि कदाचनं ।
प्रियस्स अद्दंशनं दुक्खं अप्रियस्स च दंशनं ॥
उव्5:5
मा प्रियैः संगमो जातु मा च स्याद् अप्रियैः सदा ।
प्रियाणाम् अदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥
74 ध्प्211
तस्सा प्रियं न कयिराथ प्रियावादो हि पापको ।
ग्ग्रंथा तेसं न विज्जन्ति येसं नास्ति प्रियाप्रियं ॥
उव्5:8
तस्मात् प्रियं न कर्वीत प्रियभावो हि पापकः ।
ग्रन्थास् तेषां न विद्यन्ते येषां नास्ति प्रियाप्रियम् ॥
75 ध्प्213
छुधा परम रोगाणं संखारपरमं दुखं ।
एतं ञात्ता यथाभूतं निब्बाणपरमं सुखं ॥
उव्26:7
क्षुधा परम रोगाणां संस्कारा दुःखम् एव तु ।
एतज् ज्ञात्वा यथाभूतं निर्वाणपरमो भवेत् ॥
76 ध्प्204
आरोग्गपरमा लाभा सांतोष्टीपरमं धनं ।
विश्शासपरमा ञाती निब्बाणपरमं सुखं ॥
उव्26:6
आरोग्यपरमा लाभा सांतुष्टिपरमं धनम् ।
विश्वासपरमं मित्रं निर्वाणपरमं सुखम् ॥
77 ध्प्290
मात्तासुखपरिच्चागा पश्शे चे विपुलं सुखं ।
चजे मात्तासुखं धीरो संपश्शं विपुलं सुखम् ॥
उव्30:30
मात्रासुखपरित्यागाद् यः पश्येद् विपुलं सुखम् ।
त्यजेन् मात्रासुखं धीरः संपश्यं विपुलं सुखम् ॥
78
मनुजस्स सदा सतीमतो मात्तं जानिय लद्धिभोजने ।
तनुका ऽस्स भवन्ति वेदना शनिकं जीरति आयु पालयं ॥
उव्29:14
मनुजस्य सदा स्मृतीमतो लब्ध्वा भोजनमात्रजानतः ।
तनुकास्य भवन्ति वेदनाः शनकैर् जीर्यति आयुः पालयम् ॥
79 ध्प्193
दुल्लभो पुरुषाजंञो न सो सब्बत्थ जायति ।
यत्थ सो जायते वीरो तं कुलं सुखम् एधति ॥
उव्30:27
दुर्लभः पुरुषो जात्यो नासौ सर्वत्र जायति ।
यत्रासौ जायते वीरस् तत् कुलं सुखम् एधते ॥
80 ध्प्83
सब्बत्थ वे सप्पुरुषा भवन्ति न कामकामा लपयन्ति सन्तो ।
सुखेन पुट्ठा उत्तवा दुखेन नोच्चावचं सप्पुरुषा करोन्ति ॥
उव्30:52
सापत्रपाः सत्पुरुषा भवन्ति न कामहेतोर् लपयन्ति सन्तः ।
स्पृष्टा हि दुखेन तथा सुखेन नोच्चावचाः सत्पुरुषा भवन्ति ॥
81 ध्प्201
जयं वेरं प्रसवति दुखं शेति पराजितो ।
उपशान्तो सुखं शेति हेत्ता जयपराजयं ॥
उव्30:1
जयाद् वैरं प्रसवते दुःखं शेते पराजितः ।
उपशान्तः सुखं शेते हित्वा जयपराजयौ ॥
82 ध्प्333च्द्
सुखा नज्जो सूपतित्था सुखो धम्मजितो जनो ।
सुखो श्रद्धपटीलाभो पापस्स अकरणं सुखं ॥
उव्30:24अ-च्,30:20द्
सुखा नदी सूपतीर्था सुखं धर्मजिनो जिनः ।
प्रज्ञालाभः सुखो नित्यम् पापस्याकरणं सुखम् ॥
83
सुखं द्रष्टुं शीलवन्तो सुखं द्रष्टुं बहुश्शुता ।
अरहन्तो पि सुखं द्रष्टुं विप्रमुत्ता निरोपधी ॥
उव्30:23
शीलवन्तः सुखं दृष्टुं सुखं दृष्टुं बहुश्रुताः ।
अरहन्तश् च सुखं दृष्टुं विप्रमुक्तपुनर्भवाः ॥
84
ये केचि शोका परिदेवितं वा दुक्खं व लोकम्हि अनेकरूपं ।
प्रियं पटिच्च प्रभवति एते प्रिये असन्ते न भवन्ति एते ॥
उव्5:3
शोका हि वै परिदेवितं च दुःखं च लोकस्य हि नैकरूपम् ।
प्रियं प्रतीत्येह तद् अस्ति सर्वं प्रिये ऽसति स्यान् न कथं चिद् एतत् ॥
85
तस्सा हि ते सुखि<खि>नो वीतशोका येसं प्रियं नास्ति लिके ।
तस्सा अशोकं विरजं प्रात्थयाना प्रियं न कयिराथ कहिंचि लोके ॥
उव्5:4
तस्माद् धि ते सुखिता वीतशोका येषां प्रियं नास्ति कथं चिद् एव ।
तस्माद् अशोकं पदम् एषमाणः प्रियं न कुर्वीत हि जीवलोके ॥
86 ध्प्90
गतद्धुनो विशोकस्स विप्रमुत्तस्स सब्बहिं ।
सब्बग्ग्रन्तप्रहीणस्स परिदाहा न विज्जति ॥
उव्29:35
गताध्वनो विशोकस्य विप्रमुक्तस्य तायिनः ।
सर्वग्रन्थप्रहीणस्य परिदाघो न विद्यते ॥
87 ध्प्90
येसां सन्निचयो नास्ति ये परिञातभोजना ।
आकाशे व शकुन्तानां पदं तेसां दुरन्नयं ॥
उव्29:25अबेf
येषां संनिचयो नास्ति ये परिज्ञातभोजनाः ।
आकाशैव शकुन्तानां पदं तेषां दुरन्वयम् ॥
88 ध्प्96
शान्तो तस्स मनो होति शान्ता वाचा च कंमु च ।
संमदंञाविमुत्तस्स उपशान्तस्स तायिनो ॥
उव्31:45
शान्तम् अस्य मनो भवति शान्ता वाक् कायकर्म च ।
सम्यगाज्ञाविमुक्तस्य ह्य् उपशान्तस्य भिक्षुणः ॥
89 ध्प्94
यस्सेन्द्रियाणि समतं गतानि अश्शा यथा सारथिना सुदान्ता ।
प्रहीणमानस्स अनासवस्स देवा पि तस्स प्रिहयन्ति तायिनो ॥
उव्19:3
यस्येन्द्रियाणि समतां गतानि अश्वो यथा सारथिना सुदान्तः ।
प्रहीणदोषाय निरास्रवाय देवापि तस्मै स्पृहयन्ति नित्यम् ॥
90 ध्प्321
दान्तं नयन्ति समितिं दान्तं राजाभिरूहति ।
दान्तो श्रेष्ठो मनुष्येसु यो ऽतिवादे तितिक्खति ॥
उव्19:6
दान्तो वै समितिं याति दान्तं राजाधिरोहति ।
दान्तः श्रेष्ठो मनुष्याणां यो ऽतिवाक्यं तितीक्षति ॥
91 ध्प्322
वरम् अस्सतरा दान्ता आजानेया व सेन्धवा ।
कुञ्जरा व महानागा आत्ता दान्तो ततो वरं ॥
उव्19:7
यो ह्य् अश्वं दमयेज् जान्यम् आजानेयं च सैन्धवम् ।
कुञ्जरं वा महानागम् आत्मा दान्तस् ततो वरम् ॥
92 ध्प्323
न हि तेहि जानजातेहि तां भूमिम् अभिसंभवे ।
यथा ऽत्तना सुदान्तेन दान्तो दान्तेन गच्छति ॥
उव्19:8
न हि तेन स यानेन तां भूमिम् अभिसंभवेत् ।
याम् आत्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥
93 ध्प्81
शेलो यथा एकघनो वातेन न समीरति ।
एवं निन्दाप्रशंसासु न समीरन्ति पण्डिता ॥
उव्29:49
शैलो यथाप्य् एकघनो वायुना न प्रकम्प्यते ।
एवं निन्दाप्रशंसाभिर् न कम्प्यन्ते पण्डिताः ॥
94 ध्प्9
अनिक्कषायो काषायं यो वस्तं परिधेहिति ।
अपेतो दमसच्चेन न सो काषायम् अरिहति ॥
उव्29:7
अनिष्कषायः काषायं यो वस्तं परिधास्यति ।
अपेतदमसौरत्यो नासौ काषायम् अर्हति ॥
95 ध्प्10
यो तु वान्तकषायस्स शीलेहि सुसमाहितो ।
उपेतो दमसच्चेन स वे काषायम् अरिहति ॥
उव्29:8
यस् तु वान्तकषायः स्याच् छीलेषु सुसमाहितः ।
उपेतदमसौरत्यः स वै काषायम् अर्हति ॥
शोकवर्ग्गः
***** कल्याणी *****
96 ध्प्116
अभित्तरेथ कल्लाणे पापा चित्तं निवारये ।
धंधं हि करतो पुंञं पापम्हि रमते मनो ॥
उव्28:23
अभित्वरेत कल्याणे पापाच् चित्तं निवारयेत् ।
धन्धं हि कुर्वतः पुण्यं पापेषु रमते मनः ॥
97 ध्प्117
कयिर चे पुरुषो पापं न नं कयिरा पुनप्पुनो ।
न तम्हि छन्द[ं] कयिराथ दुक्खो पापस्स स[ं]चयो ॥
उव्28:21
कर्याच् चेत् पुरुषः पापं नैनं कुर्यात् पुनः पुनः ।
न तत्र च्छन्दं कुर्वीत दुःखं पापस्य संचयः ॥
98 ध्प्118
कयिर चे पुरुषो पु[ं]ञ[ं] कय्[इ]र चेन[ं] पुनप्पुनो ।
तम्ह्[इ] एव छन्द[ं] कयिराथ सुखो पुंञस्स संचयो ॥
उव्28:22
कुर्यात् तु पुरुषः पुण्यं कुर्याच् चैनं पुनः पुनः ।
तत्र च्छन्दं च कुर्वीत सुखं पुण्यस्य संचयः ॥
99
शुद्धस्सेव सदा फग्गू शुद्दस्सो ऽपोषधो सदा ।
शुद्धस्स शुचिकम्मस्स सदा संपज्जते व्रतं ॥
उव्16:15
शुद्धस्य हि सदा फल्गुः शुद्दस्य पोषथः सदा ।
शुद्धस्य शुचिकर्मणः सदा संपद्यते व्रतम् ॥
100 ध्प्314अब्
अकतं दुक्कतं श्रेयो पच्छा तपति दुक्कतं ।
दुक्कतं मे कतं ति शोचति भूयो शोचति दोग्गतिं गतो ॥
उव्29:41
अकृतं कुकृताच् छ्रेयः पश्चात् तपति दुष्कृतं ।
शोचते दुष्कृतं कृत्वा शोचते दुर्गतिं गतः ॥
101 ध्प्314च्द्
कतञ् च सुकतं साधु यं कत्ता नानुतप्पति ।
सुकतं मे कतं ति नन्दति भूयो नन्दति सोग्गतिङ् गतो ॥
उव्29:42
कृतं तु सुकृतं श्रेयो यत् कृत्वा नानुतप्यते ।
नन्दते सुकृतं कृत्वा नन्दते सोगतिं गतः ॥
102 ध्प्119
पापो पि पश्शते भद्रं याव पापं न पच्चति ।
यदा तु पच्चते पापं अथ पापो पापानि पश्शति ॥
उव्28:19
पापो ऽपि पश्यते भद्रं यावत् पापं न पच्यते ।
यदा तु पच्यते पापम् अथ पापानि पश्यति ॥
103 ध्प्120
भद्रो पि पश्शते पापं याव भद्रं न पच्चति ।
यदा तु पच्चते भद्रं अथ भद्रो भद्राणि पश्शति ॥
उव्28:20
भद्रो ऽपि पश्यते पापं यावद् भद्रं न पच्यते ।
यदा तु पच्यते भद्रम् अथ भद्राणि पश्यति ॥
104
पापं पि करतो भद्रं याव पापं न पच्चति ।
अथ पयिरागते काले पापो पापानि पश्शति ॥
105
भद्रं पि करतो पापं याव भद्रं न पच्चति ।
अथ पयिरागते काले भद्रो भद्राणि पश्शति ॥
106 ध्प्124
पाणिम्हि चे व्रणो ना ऽस्स धारेया पाणिना विषं ।
नाव्रणे विषम् अन्नेति नास्ति पापम् अकुर्व्वतो ॥
उव्28:15
पाणौ चास्य व्रणो न स्याद् धारयेत् पाणिना विषम् ।
नाव्रणे क्रामति विषम् नास्ति पापम् अकुर्वतः ॥
107 ध्प्71
न हि पापकं कतं कम्मं सज्जं छीरम् व मुच्छति ।
दहन्तं बालम् अन्नेति भस्सछन्नो व पापको ॥
उव्9:17
न हि पापकृतं कर्म सद्यः क्षीरम् इव मूर्छति ।
दहन्तद् बालम् अन्वेति भस्माछन्न इवानलः ॥
108
न हि पापकं कतं कम्मं सज्जं शस्तम् व कन्तति ।
मरणो ऽपेतो हि जानाति या गती पापकंमुनो ॥
उव्9:18
न हि पापकृतं कर्म सद्यं शस्त्रम् इव कृन्तति ।
साम्पराये तु जानाति या गतिः पापकर्मणाम् ॥
109
अनागतं पटिकयिराथ किच्चं मा वो किच्चं किच्चकाले व्यधेया ।
तं तारिसं पटिकतकिच्चकारिं न नं किच्चं किच्चकाले व्यधेहि ॥
उव्16:1
पूर्वं हि कृत्यं प्रतिजागरेत मा मे कृत्यं कृत्यकाले विहन्यात् ।
तं नित्यकाले प्रतियत्यकारिणं नैव कृत्यं कृत्यकाले विहन्ति ॥
110
पटिकच्चेव तं कयिरा यं ञाय्या हितम् आत्तनो ।
न शाकटिकमन्ति स्स मन्तं धीरो पराक्रमे ॥
उव्4:16
प्रतियत्येव तत् कुर्याद् यज् जान्र्द् धितम् आत्मनः ।
न शाकटिकचिन्ताभिर् मन्दं धीरः पराक्रमेत् ॥
111
यथा शाकटिको माग्गं समं हेत्ता महापथं ।
विषमं माग्गम् आसाज्ज अक्खछिन्नो थ झायति ॥
उव्4:17
यथा शाकटिको मार्गं समं हित्वा महापथम् ।
विषमं मार्गम् आगम्य च्छिन्नाक्षः शोचते भृशम् ॥
112
एवं धम्मा अपक्रांम अधंमम् अनुवत्तिय ।
बालो मच्चुमुखं प्रात्तो अक्खछिन्नो व झायति ॥
उव्4:18
एवं धर्माद् अपक्रम्य ह्य् अधर्मम् अनुवर्त्य च ।
बालो मृत्युवशं प्रातच् छिन्नाक्ष इव शोचते ॥
113 ध्प्307
काषायकंठा बहवो पापधंमा असंय्यता ।
पापा पापेहि कंमेहि निरयं ते उपपज्जथ ॥
उव्11:9
काषायकण्ठा बहवः पापधर्मा ह्य् असंयताः ।
पापा हि कर्मभिः पापैर् इतो गच्छन्ति दुर्गतिम् ॥
114 ध्प्306
अभूतवादी निरयं उपेति यो चापि कत्ता न करोमी ति आह ।
उभो पि ते प्रेच्च समा भवन्ति निहीनकंमा मनुजा परत्र ॥
उव्8:1
अभूतवादी नरकान् उपैति यश् चान्यद् अप्य् आचरतीह कर्म ।
उभौ हि तौ प्रेत्य समौ निरुक्तौ निहीनधर्मौ मनुजौ परत्र ॥
115 ध्प्125
यो अप्रदुष्टस्स नरो प्रदुष्यति शुद्धस्स पोषस्स अनंगनस्स ।
तम् एव बालं प्रच्चेति पापं सुखुमो रजो पटिवातं व खितो ॥
उव्28:9
यो ह्य् अप्रदुष्टस्य नरस्य दुष्यते शुद्धस्य नित्यं विगताङ्गणस्य ।
तम् एव बालं प्रत्याति पापं क्षिप्तं रजः प्रतिवातं यथैव ॥
116 ध्प्123
वाणिजो व भयं व माग्गं अप्पसात्थो महद्धनो ।
विषं जीवितुकामो व पापानि परिवज्जये ॥
उव्28:14
वणिग् वा सभयं मार्गं अल्पशास्त्रो महाधनो ।
विषं जीवितकामो वा पापानि परिवर्जयेत् ॥
117 ध्प्291
परदुक्खोपधानेन यो इच्छे सुखम् आत्तनो ।
वेरसंसग्गसंसट्ठो दुक्खा न परिमुच्चति ॥
उव्30:2
परदुःखोपधानेन य इच्छेत् सुखम् आत्मनः ।
वैरसंसर्गसंसक्तो दुःखान् न परिमुच्यते ॥
118
कुणपस्स पि गंधुच्छिज्जति उ ऽद्धुकितस्स (-छितस्स) पि राति अच्चया ।
पुरुषस्स अधम्मचारिणो अन्नाहं गन्धो न छिज्जति ॥
119
यथ ग्ग्रहपतयो प्रभूतरतना आडित्ते नगरम्हि दह्यमाने ।
मुत्तामणिफटिकरजतहेतो व्यायमन्ति अपि नीहरेम किंचि ॥
120
तथ-र्-इव शमणा प्रभूतप्रंञा अयिरा अयिरपथेसु सिच्छमाना ।
जातिजरामरणभयाद्दित्ता दुक्खाट्टा व्यायमन्ति अपि प्रापुणेम शान्तिं ॥
कल्याणिवग्गः
***** पुष्प *****
121 ध्प्54
न पुष्पगन्धो पटिवातम् एति न चन्दनं तगरं वाह्लिकं वा ।
सतान् तु गन्धो पटिवातम् एति सब्बा दिशा सप्पुरुषो प्रवाति ॥
उव्6:16
न पुष्पगन्धः प्रतिवातम् एति न वाह्निजात् तगराच् चन्दनाद् वा ।
सतां तु गन्धः प्रतिवातम् एति सर्वा दिशः सत्पुरुषः प्रवाति ॥
122 ध्प्55
चन्दनं तगरं चापि उप्पलं अथ वाश्शिकिं ।
एतेसां गन्धजातानां शीलगन्दधो अनुत्तरो ॥
उव्6:17
तगराच् चन्दनाच् चापि वार्शिकायास् तथोत्पलात् ।
एतेभ्यो गन्धजातेभ्यः शीलगन्दस् त्व् अनुत्तरः ॥
123 ध्प्56
अप्पामात्रो अयं गंधो योयं तगरचन्दने ।
यो तु शीलवतां गन्धो वाति देवेसु उत्तमो ॥
उव्6:18
अल्पमात्रो ह्य् अयं गंधो यो ऽयं तगरचन्दनात् ।
यस् तु शीलवतां गन्धो वाति देवेष्व् अपीह सः ॥
124 ध्प्57
तेसां सम्पन्नशीलानां अप्रमादविहारिणां ।
सम्मदंञाविमुत्तानां मारो माग्गं न विण्डति ॥
उव्6:19
तेषां विशुद्धशीलानाम् अप्रमादविहारिणाम् ।
सम्यगाज्ञाविमुक्तानां मारो मार्गं न विन्दति ॥
125 ध्प्57
यथा पि रुचिरं पुष्पं वन्नवन्तं अगन्धकं ।
एवं सुभाषिता वाचा अफला होति अकुर्व्वतो ॥
उव्18:6
यथापि रुचिरं पुष्पं वर्णवत् स्याद् अगन्धवत् ।
एवं सुभाषिता वाचा निष्फला साव् अकुर्वतः ॥
126 ध्प्52
यथा पि रुचिरं पुष्पं वन्नवन्तं सगंधकं ।
एवं सुभाषिता वाचा सफला होति कुर्व्वतो ॥
उव्18:7
यथापि रुचिरं पुष्पं वर्णवत् स्यात् सुगंधवत् ।
एवं सुभाषिता वाचा सफला भवति कुर्वतः ॥
127 ध्प्49
यथा पि भ्रमरो पुष्पा वन्नगन्धम् अहेडयं ।
प्रडेति रसम् आदाय एवं ग्ग्रामे मुनी चरे ॥
उव्18:8
यथापि भ्रमरः पुष्पाद् वर्णगन्धाव् अहेटयन् ।
परैति रसम् आदाय तथा ग्रामं मुनिश् चरेत् ॥
128 ध्प्47
पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं ।
सुत्तं ग्ग्रामं महोघो वा मच्चु-र्-आदाय गच्छति ॥
उव्18:14
पुष्पाण्य् एव प्रचिन्वन्तं व्यासक्तमनसं नरम् ।
सुप्तम् ग्रामं महौघैव मृत्युर् आदाय गच्छति ॥
129 ध्प्48
पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं ।
असंपुर्̥न्नेसु कामेसु अन्तको कुरुते वशे ॥
उव्18:15
पुष्पाण्य् एव प्रचिन्वन्तं व्यासक्तमनसं नरम् ।
अतृप्तम् एव कामेषु त्व् अन्तकः कुरुते वशम् ॥
130 ध्प्53
यथा पि पुष्पराशिम्हा कयिरा मालागुणे बहू ।
एवं जातेन माच्चेन कातव्वं कुशलं बहुं ।
उव्18:10
यथापि पुष्पराशिभ्यः कुर्यान् मालागुणां बहून् ।
एवं जातेन मर्त्येन कर्तव्यं कुशलं बहु ।
131 ध्प्44
को इमं पठविं विजेहिति यमलोकं व इमं सदेवकं ।
को धम्मपदे सुदेशिते कुशलो पुष्पम् इव प्रजेहिति ॥
उव्18:1
को इमां पृथिवीं विजेष्य्ते यमलोकं च तथा सदेवकम् ।
को धर्मपदं सुदेशितं कुशलः पुष्पम् इव प्रचेष्यते ॥
132 ध्प्45
शेर्̥खो पठविं विजेहिति यमलोकं व इमं सदेवकं ।
सो धम्मपदे सुदेशिते कुशलो पुष्पम् इव प्रजेहिति ॥
उव्18:2
शैक्षः पृथिवीं विजेष्यते यमलोकं व तथा सदेवकम् ।
स हि धर्मपदं सुदेशितं कुशलो पुष्पम् इव प्रजेहिति ॥
133 ध्प्377
वाश्शिकी-र्-इव पुष्पाणि मञ्चकानि प्रमुञ्चति ।
एवं रागञ् च दोषञ् च विप्रमुञ्चथ भिक्खवो ॥
उव्18:11
वर्षासु हि यथा पुष्पं वगुरो विप्रमुञ्चति ।
एवं रागं च दोषं च विप्रमुञ्चत भिक्षवः ॥
मूल पाठ: Patna Dharmapada · Edition: Margaret Cone: "Patna Dharmapada, Part I: Text", JPTS 13 (1989), pp. 101-217. · Data entry Tatsushi Tamai · GRETIL (Göttingen) · CC BY-NC-SA 4.0