पर्यन्तपञ्चाशिका · अध्याय 1
श्री गणपतये नमः ।
आद्यन्तान्तर्गतानन्तशक्तिविश्रान्तिनिर्भराम् ।
अनुच्चार्याम् अहं वाचम् अधीये हृदयं विभोः
स एव भैरवो देवस् सर्वे देवाश् च यन्मयाः ।
सैवासौ भैरवी सत्तासत्तापि च यन्मयी
तद् एव भैरवं ज्ञानम् अज्ञानम् अपि यन्मयम् ।
स हि भैरवसिद्धान्तः पूर्वपक्षो ऽपि यन्मयः
ऐकध्यम् अध्वनां ष.ङ्नां यत्र सा भैरवी स्थितिः ।
पर्यन्ते सर्वतन्त्राणाम् अवाच्या परमा गतिः
सा चिदानन्दमात्रात्ममग्नेच्छाज्ञानसत्क्रिया ।
हृदयं देवदेवस्य भैरवस्याविभागभूः
चित्स्वाभाव्याद् असौ देवः स्वात्मना विमृषन् प्रभुः ।
अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते
तत्र वाचकवाच्यात्मस्पन्दयोर् एकशः प्रभोः ।
स्थूलसूक्ष्मपराभासक्रमयोः षड्विधाध्वता
क्रमो यो देशकालात्मा भेदप्राणस् स संविदाम् ।
विच्छेदाद् एष विज्ञातुर् विचित्राभासताकृतः
उभयो तत्र वै रीतिः शुद्धाशुद्धात्मभेदतः ।
शुद्धिर् बहिष्कृतार्थानां स्वाहन्तायां निमज्जनम्
अशुद्धिर् अपि मग्नानां नैवं हृदयविश्रमः ।
अत्रान्तरे ऽप्य् अनन्तास् स्युः स्थितयस् तारतम्यतः
उचितोचितमेयानां प्रमातॄणां प्रकाशने ।
साधारणान्यथाभावौ भिद्येते मातृमेययोः
अविकल्पस्फुटाभासा सा सृष्टिः शाम्भवी मता ।
अभेदेनात्मनिर्माणे स्वात्मैव करणीकृतः
क्रियाज्ञानात्मचिच्छक्तिर् भेदासूत्रणकारणात् ।
कलाविद्यापदं प्राप्य भेदोद्भेदे पुनर् भवेत्
प्रमाणबुद्धिप्रकरा यत्क्रियाया विकल्पनाः ।
सैव विच्छिन्नविच्छिन्नक्रिया ज्ञानोद्यमा यदा
कर्मबुद्ध्यक्षतां प्राप्ता तदासौ पशुर् उच्यते ।
इतीच्छया स भगवान् भैरवः परिमीयते
मितवृत्तिस् सती सा च शक्तिस् तम् अनुवर्तते ।
तस्य विद्येशसादाख्यशिवतास् संकुचत्स्थितेः ।
देहप्राणबुद्धिशून्यप्रमातृत्वम् उपागमन्
तस्यासाधारणी सृष्टिस् तत्तन्नानाविकल्पना ।
शैवसर्गोत्थसंस्कारसंस्कृतस्य तदाश्रया
प्रमातैवायम् एतावत्प्रकारो ऽवग्रहोत्सवे ।
अव्यग्रो वर्तते स्वात्मन्य् अविकल्पे चिदात्मके
वत्स पश्य त्वम् एवैतत् अद्वयत्वेन संविदः ।
विदितं तन्मयं विश्वम् अन्यत् तुच्छम् असद् यतः
किम् उपायम् इदं तत्त्वं यतो ऽन्यन् नैव सम्भवि ।
अनन्योपायम् एतत् तदात्मोपायं प्रचक्षते
संहृत्य सर्वतश् चिन्ताम् [अह]म् इत्य् अनुशीलयन् ।
अविकल्पां स्वसंवित्तिं प्रत्यक्षां प्रतिपद्यते
अनन्तैतावदाकारस्वीकारे ऽप्य् एकलक्षणाम् ।
तां स्वसंविदम् आविश्य विकल्पान् न विकल्पयेत्
खेचर्यादिचतुस्स्रोतोवाहपूर्णमहाह्रदाम् ।
व्योमेश्वरीम् आत्मचितिं विगाह्य ब्रोडयेज् जडम्
सर्गस्थापनसंहारनिग्रहानुग्रहक्रमात् ।
पञ्चकृत्यानि कुर्वाणः शिवो ऽहम् इति विश्वसेत्
क्षेपज्ञानप्रसंख्या[नग]तिनादक्रमेण वा ।
गुरुवक्त्रेण तान्य् आत्मन्य् आकलय्य कृती भवेत्
विकल्पयित्वा विश्वात्मा भैरवो ऽहं ममैव ताः ।
विश्वभङ्ग्यो यथा वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः
एको ऽहं मातृविज्ञानमानमेयप्रकारवान् ।
शुद्धबोधादिरूपेण खेचर्यादिचतुर्दशः
मेदामेदप्रकारेण बन्धमोक्षौ विभावयन् ।
भैरवो ऽस्मीति विस्रम्भात् स्वाच्छन्द्यं परमं व्रजेत्
अन्तःकारबहिष्काराव् अकालक्रमम् आत्मनः ।
अपराधीनम् आधत्से यत् त्वं प्राभवनिर्भरः
अनुत्तरविसर्गात्मविश्रमोदययामलम् ।
संघट्टश् शिवशक्त्योस् तदन्तरे चान्यशक्तयः
आनन्देच्छेशनोन्मेषा ऊनता चेशनेच्छयोः ।
अस्फुटस्फुटभेदेन वेद्योल्लासस् तयोर् विदः
आनन्दानुत्तराभ्यां च सन्धीभावो ऽथ वेदना ।
वेद्यानां प्राणभूतेति पूर्णं तद् भैरवं वपुः
वेद्योल्लासो ऽयम् इच्छायाम् ईशने चैकतः स्थितः ।
स्थूलत्वेन पृथिव्यादिभूतपञ्चकताम् इयात्
सूक्ष्मत्वेन च गन्धादिपञ्चतन्मात्रतां ततः ।
करणत्वेन संस्पर्शाद् इन्द्रियाणां द्विपञ्चताम्
वेद्यतायाः छादनेन वेत्तृतोद्भासनक्रमे ।
मनो ऽहंबुद्धितां एषाम् अविभागे प्रधानताम् ।
पुरुषत्वं च संकोचविकासौ यदपेक्षया
अभूवन्न् इष्यसंयोगाद् द्विरूपाद् उभयात्मनः ।
इच्छास्वरूपाद् उन्मेषाद् अन्यथानुत्तरायुतात्
चतस्रश् शक्त्यो ऽन्तःस्थाः पुंसो ऽस्यान्तश् च धारिकाः ।
चिद्व्योम्नो जडभूमेश् च मायामय्यस् त्रिशङ्कुवत्
इच्छाशक्तेस् त्रिरूपायास् तिस्रो ऽन्याश् शक्त्यो ऽभवन् ।
विसर्गो ऽयम् अथात्यर्थं स्फुटो ऽभूत् सृज्यविस्तरात्
एतत् सृष्ट्वात्मशक्तीनाम् इतरेतरमिश्रात् ।
भवेत् क्षोभान्तरं नास्माद् विसर्गाद् बाह्यतो भवेत्
इयत्सर्वं सद् इच्छादिद्वारानुत्तरभैरवे ।
विश्रम्य विश्रम्य मुहुस् तत एव विसृज्यते
अन्तर्निलीनानन्तार्थस्वात्मामर्शश् चितिः परा ।
एकवारवहाद् येयं मन्त्री वाक् शुद्धकर्तृता
त्रिवहं त्रिपथं त्रिस्थं कालं सा कर्षति स्वतः ।
बहिस् ततश् चात्मनीति श्रीपरा कालकर्षिणी
भेदितान्तःकृताख.ङ्दभावावेक्षा परापरा ।
कर्तृता सैव पश्यन्ती तस्यैवेशदशाश्रया ॥ 43
मध्यमा सक्रमा स्थूला अन्तःकरणवर्तिनी ।
विकल्पनाभिन्नवाच्या प्राणवृत्तिविभेदिता
स्ववासनातादवस्थ्याद् दशयोः पूर्वयोर् अपि ।
मायामातुर् मितत्वं स्यात् पश्यन्त्याश् च क्रमो ह्य् अणुः
तयोर् आविश्य दशयोः क्रमाच् छान्तविकल्पयोः ।
धन्यस् स्वसंविद्विस्तारं साश्चर्यम् अनुपश्यति
सा स्थानकरणाघातपुंव्यापारात्मिका सती ।
वैखरी वृत्तयो यस्यास्ता इमाः श्रुतिगोचराः
आभिः परस्परं ज्ञानसंक्रान्त्यात्मा स लौकिकः ।
व्यवहारो ऽथ शास्त्रीयो नानासंकोचसंकटः
इति वाग्व्याप्तिविद्वांसम् एतद्वर्गाधिदेवताः ।
माहेश्वरीमुखा देव्यो जागरे ऽपि न भुञ्जते
उपायेनाग्रहः कार्य उपेया भैरवीस्थितिः ।
यासौ स्वसंवित् ताम् एव सर्वोपायां समाविशेत्
आद्यन्तान्तर्गतानन्तवाच्यवाचकनिर्भरम् ।
रहस्यं मन्त्रमुद्राणां प्रपद्ये ऽनुत्तरं महः
शम्भोर् अभिन्नहृदया जयन्ति गुरवः पुरा ।
निर्व्युत्थानसमाधानप्राप्तपर्यन्तसंपदः
मूल पाठ: Paryantapañcāśikā · Data entry Marino Faliero · GRETIL (Göttingen) · CC BY-NC-SA 4.0