परातन्त्रम् · अध्याय 1
----
मुक्तबोध इन्दोलोगिचल् रेसेअर्छ् इन्स्तितुते
उसे ओf थिस् मतेरिअल् (ए-तेxत्स्) इस् चोवेरेद् ब्य् च्रेअतिवे चोम्मोन्स् लिचेन्से ब्य्-न्च् 4.0
चतलोग् नुम्बेर्: म्00062
उनिfओर्म् तित्ले: परातन्त्र
मैन् तित्ले: परातन्त्रम्
देस्च्रिप्तिओन्:
नोतेस्:
दत एन्तेरेद् ब्य् थे स्तff ओf मुक्तबोध उन्देर् थे सुपेर्विसिओन् ओf मर्क् स्. ग्. द्य्च्zकोwस्कि.
पुब्लिस्हेर् :
पुब्लिचतिओन् येअर् : प्रे-1900
पुब्लिचतिओन् चित्य् :
पुब्लिचतिओन् चोउन्त्र्य् : इन्दिअ
----
परातन्त्रम्
लेफ्टिनेण्ट कर्नल
श्री धन शम्शेर जङ्ग बहादुर राणा
प्रकाशक
चण्डी कार्यालय प्रयाग-६
प्रथम संस्करण संवत् २०१६
श्रीललितात्रिपुरसुन्दर्यै नमः
प्रथमः पटलः
बहुसिद्धिसमाकीर्णे श्मशाने करवीरके ।
तत्र वीरगणाः सर्वे महाहल्लालहु।कृते
निवर्तितमहाचक्रे योगे त्रिदशमण्डले ।
महावृन्द महास्फाल रणडाकिनी याचिते
ब्राह्म्याद्या मातरश्चाष्टौ क्षेत्रेशभैरवादयः ।
गणेश वटुका सिद्धा मातृचक्रे तु मेलके
श्रीनाथादिगणाः सर्वे वीरनाथावतारिके ।
सिद्धिनाथावकासेन सन्तोषितकुलेश्वरम्
सर्वभूषां परित्यज्य सानन्दोल्लासमानसम् ।
सामरस्यस्थितं देवं पृच्छते कुलसुन्दरी
श्री देव्युवाच
सर्वशास्त्रोदितं ज्ञानं त्वत्प्रसादात् श्रुतं मया ।
यामलाष्टकपूर्वं तु तन्त्रानेकविधानि च
शिरश्छेदश्च बहुधा महामन्थानषट्ककम् ।
मालातन्त्रे च वीत्कारे सागराम्वा महामते
प्. २) चतुर्विंशति वै लक्षाः श्रुता सर्वे तथोदिताः ।
इदानीं संशयो जातस्तवैव वचनात्प्रभो
एका सा परमा शक्तिरद्वितीया परेश्वरि ।
एका शक्तिर्महामाया विश्वंव्याप्यावतिष्ठता
नादिमध्या न वान्तास्तु यया सर्वं प्रवर्तते ।
त्वयोक्ता न द्वितीया सा तन्त्रे कुलमहार्णवे
एषा संधार्यते विश्वमेका त्रैलोक्यपूजिता ।
एतदेव वचो ब्राह्मी षडाम्नाय कथं प्रभो
षट्सिंहासनगा प्रोक्ता देव्यः षण्णायिकाः स्मृताः ।
षडाम्नायविभिन्नैव एका स परमा कथम्
अभिन्ना वाथ भिन्ना वा वद देव जगत्पते ।
कथमेका पराशक्तिर्विभिन्ना परमेश्वरी
षट्सिंहासनगा देवि नायिका षट्प्रकीर्तिताः ।
षडाम्नायविभिन्नाश्चेत्किं संज्ञाभेदनामतः
पूर्वसिंहासना देवी याम्यसिंहासनाश्रिता ।
सिंहासनं पश्चिमगा सौम्यसिंहासना परा
सिंहासनमूर्ध्वगता ह्यधः सिंहासनस्थिता ।
षट्सिंहासनसंस्था सा षडाम्नायेतिकीर्तिता
कथं सिंहासनं संज्ञास्थिता ह्याम्नायदेवता ।
तन्त्रे वा यामले वापि चतुर्विंशतिलक्षके
प्. ३) ग्रंथे त्वया सूचिता वै षडाम्नायविशेषतः ।
एका परा विभिन्ना किं षट्सिंहासनमाश्रिता
आद्याशक्तिः परा ह्येका कथं षट्शक्तितां गता ।
या आद्या प्रकृतिः सूक्ष्मा भिन्नरूपेण संस्थिता
बिन्दुमालिनीरूपा सा सर्वथाद्यव्यवस्थिता ।
एतन्मे महतीं शंकां निर्णीतुं परमेश्वर
उदये ग्रन्थिसुदृढं सर्वज्ञपरमेश्वर ।
यद्येका परमा शक्तिराद्या प्रकृतीरीश्वरी
किमर्थं कस्य रक्षार्थं षडाम्नायप्रकीर्तिताः ।
त्रैलोक्यरक्षणार्थाय समया पालनाय च
साधकप्रार्थनायैव वदस्व परमेश्वर ॥
श्रीसदाशिव उवाच
अपि प्रियतमे देवि निशामय वदामि ते ।
गुह्याद्गुह्यतमं दिव्यमकथ्यं कथयामि ते
तव स्नेहात्प्रवक्ष्यामि रहस्यं कौलिकान्वयं ।
ओं इति नमस्कृत्य प्रवक्ष्यामि विष्णुमायां जगन्मयीं
नारायणीं महामायां प्रकृतिं विश्वरूपिणीम् ।
एका परापरा शक्तिः प्रकृतिर्विश्वमोहिनी
विश्वसंमोहनात्सा च वैष्णवीति प्रकीर्तिता ।
धारणाद्धात्रिमित्याहः पालनात्परमेश्वरी
प्. ४) त्रैलोक्यमोहनात्माया भावनात्प्रकृति स्मृता ।
विश्वसंधारणात्सा तु वैष्णवीति प्रकीर्तिता
कैवल्यमोक्षदा भूता माया नारायणी स्मृता ।
ईश्वरोपि वशे यस्या सूत्रे बहुशकुन्तवत्
यां विना परमेशोपि शव इत्यभिधीयते ।
जीवितुं नैव शक्नोति विना तां परमेश्वरः
ईशोप्यनीशतां याति प्रकृत्यालोकनं विना ।
दारुष्वेव यथा वह्निर्मथनात्संप्रकाशते
मायासंप्रगृहीतो वै सृष्टिस्थित्यन्तकृद्भवेत् ।
जीवहीनो यथा देहश्चलितुं नैव शक्यते
शववत्कर्महीनत्वात्समाधिं संस्थितः प्रिये ।
मायाविरहितो यावन्निशाकाले तु गीयते
शवैव निश्चलो देवो बिन्दुमालिन्यसंग्रहात् ।
मायया कवलीकृत्वा शिव इत्यभिधीयते
शिवशक्तिसमायोगात्सर्वं जगदिदं भवेत् ।
चितिरूपेण सा माया विश्वं व्याप्य व्यवस्थिता
अहं सदाशिवो देवः प्रकृतिर्विष्णुरुच्यते ।
उभयोर्मेलनाद्देवि शिवशक्तीति गीयते
प्रवर्तनाय सर्वेषां संसारचक्रवान्भवेत् ।
त्वं तु देवी विष्णुमाया नारायणजगन्मये
प्. ५) देवस्यानन्दरूपोहं जाने देव सदाशिवः ।
एवं प्रवर्तये देवि देवौ हरिहरावुभौ
सृष्टिस्थितिश्च संहारकल्पे कल्पे कथं भवेत् ।
शिवशक्त्यात्मकं विश्वं पश्य दिव्येन चक्षुषा
न पद्माङ्की न वज्राङ्की न चक्राङ्की यतः प्रजाः ।
लिङ्गाङ्की च भगाङ्की च तेन माहेश्वरी प्रजाः
यया सृष्टं सृजेद्वेधा साष्टधा पाल्यते हरिः ।
संहर्ता हरते रुद्रः सर्वे तदनुगाः सुराः
एका सा परमा देवी विश्वं व्याप्य व्यवस्थिता ।
चतुर्विंशतितत्वेन ब्रह्माण्डं चेतयन्ति च
पृथिवी वायुराकाशजलवह्निमयं वपुः ।
धृत्वा संसृज्यते विश्वं कल्पे कल्पे यथेच्छया
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पञ्चभूतात्मकं चैव शरीरं पञ्चसंकृतम्
एकीकृत्य तथा पञ्चभूतरूपेण संस्थिताः ।
निर्जीवो जीवरूपेण पञ्चभूतत्वमागतः
सिंहासनमहाम्नायपञ्चभूतानि सङ्गमः ।
आद्या सा परमा शक्तिर्व्योमस्था कुलरक्षिणी
ब्रह्माण्डव्यापिनी नित्या परब्रह्मस्वरूपिणी ।
चतुर्विंशतिभिस्तत्वैः सर्वबीजस्वरूपिणी
प्. ६) ब्रह्मस्वरूपिणी साक्षात्स्त्रीपुंभेदेन भिद्यते ।
लीलया क्रीडते नित्या ललितारूपधारिणी
अरूपा रूपवान्भूत्वा पुंरूपं धार्यते शिवे ।
कदाचिल्लीलया देवी मायारूपेण क्रीडति
कदाचिद्धरिरूपेण शिवरूपेण स्वेच्छया ।
ब्रह्मरूपधरा माया ह्येच्छारूपधरा परा
एषा परापरा देवी प्रकृतिर्विश्वमोहिनी ।
प्रवर्तयति संसारं समया पालनाय च
श्रीनाथक्रमसिध्यर्थं षडाम्नायत्वमागता ।
षट्सिंहासनगा देवी समास कथयामि ते
पुरानन्दवने देवि निर्जने पशुवर्जिते ।
सदाशिवोहं षट्चक्रसमाधिध्यानमाश्रितः
त्वं तु कापालिनी भूत्वा मामपृच्छत्षडन्वयम् ।
प्रथमं पूर्ववक्त्रेण रूपं तत्पुरुषेण च
कथयामास प्राची तु सिंहासनमहोद्गतम् ।
नायिका रुद्रशक्तिर्या शिवं तत्पुरुषं परम्
पूर्णेश्वरी महोग्रासा पूर्वाम्नाअयप्रकीर्तिता ।
चक्रेश्वर्यां तु वक्ष्यामि साधकानां हिताय वै
ध्यानं तु चित्तेधिष्ठाय ध्यातव्या परमेश्वरी ।
इन्द्रनीलसमप्रख्यं दशदोर्दण्डधारिणीम्
प्. ७) वराभयकरं रम्यं सत्रिशूलं कपालकम् ।
डमरुं चाक्षमालां च शक्तीं चैव कराम्बुजे
इक्षुचापं शरं चैव खड्गहस्तं सुशोभिनीम् ।
महाप्रेतोपरि तत्र चन्द्रसूर्यासनास्थितां
प्रत्यालीढां त्रिनेत्रां च मुंडमालाविभूषितां ।
वासुकीशङ्खपालौ तौ कर्णभूषणतां गतौ
अनन्तहारमाला च हाराऽलंकारभूषितां ।
विशालत्रयनेत्रां च चन्द्रार्द्धकृतशेखराम्
एषा पूर्णेश्वरी देवी हाहाराव रवप्रियाम् ।
पूर्णेश्वरीति विख्याता साहंकारा रजोयुता
गिरौ पूर्णालये पीठे लक्ष्मीवनश्मशानके ।
इन्द्रेणाराधिता नित्या बहुरूपावतारिणी
पूर्वाम्नायेति विख्याता पूर्वदेवर्षिपूजिता ।
ईश्वरी सर्वविद्यानां महाभाग्यभरावहा
नानारूपधरा नित्या बहुरूपावतारिणी ।
जया जयंती विजया अजिता नारसिंहिका
व्याघ्रेश्वरी कराला च राजेशी भुवनेश्वरी ।
रक्तदंता विशालाक्षी कामेशी चण्डमालिनी
विद्युज्जिह्वा डामरेशी नाटेशी नृत्यनायिका ।
नन्दी चैव महाकालभृंगिणी च कुलालिका
प्. ८) नवनाटेश्वरी तत्र चतुःपञ्चरसान्विता ।
बहुभेदा देवदेवी भैरवाष्टकमातृकाः
नाटेश्वरीति विख्याता भैरवी चक्रपालिका ।
क्षेत्रविघ्नेशवटुकयोगिनीमातृकाष्टकाः
ब्रह्माण्याद्याः प्रपूज्यन्ते कुमारी कामदा सदा ।
नृत्यमाने पुरा देव भैरवा मातृभिर्वृतः
नृत्यभैरवनामा तु पूर्वचक्रे व्यवस्थिता ।
गणेशक्षेत्रडाकिन्यो गणास्तत्पुरुषाश्रिताः
वाममार्गे समाराध्य न तु दक्षिणतः क्रिया ।
प्लक्षद्वीपे कुशद्वीपे बहुधा च तदन्वगाः
वश्याकर्षणस्तंभं च सिद्धयस्त्वणिमादयः ।
मरीचिना समाराध्य शक्राय च प्रदत्तवान्
इत्येष पूर्व चाम्नाय प्राचिसिंहासनस्थिता
॥ इति श्री परातन्त्रे पूर्णेशी पूर्वाम्नायक्रमः पटलः प्रथमः
द्वितीयः पटलः
दक्षिणाम्नाय वक्ष्यामि महावीर्या महोल्वणा ।
अघोरभैरवोद्दिष्टा निश्येशी च निरङ्गला
निरालम्बेश्वरी नित्या अघोरं तच्छिरं विदुः ।
सिंहासनगता नित्या निशेशी रक्तचर्चिका
चैतन्यभैरवी केचिद्रक्तकालीति केचन ।
सुन्दरी कालिका केचिदघोरेश्वरी केचन
ध्यानरूपं तु वक्ष्यामि भैरव्या याम्यदिक्स्थिता ।
नित्या निरंशनिरता निशेशी निर्गुणाश्रया
क्रतुनाराधिता देवि धर्मराजाय वै पुरा ।
सम्प्रदायकरेणैव देवी चैतन्यभैरवी
चतुर्वेदासना देवी महाफेत्कारसंस्थिता ।
प्रज्वलन्ती चितामध्ये दक्षिण्यदक्षदा परा
अलातचक्रवद्यस्या भ्रमन्ति शिरमालिका ।
स्नायुरक्षा कृशाङ्गी च अस्थिचर्मावशेषिता
व्याघ्रचर्मा कटिवृता नरचर्मोत्तरीयका ।
सहस्रादित्यसंकाशा तप्तकाञ्चनसुप्रभा
प्. १०) पञ्चवक्त्रा चातिभीमा त्रिपञ्चनयनैर्युता ।
ईषद्धास्यललज्जिह्वा निम्ननाभिकृशोदरी
विकरालासनस्थाता चक्रवक्त्रासनस्थिता ।
रौद्री भयापहा घोरा चन्द्रार्द्धकृतकेतना
वर्बरार्द्धमुक्तकेशी नागराजविराजिता ।
कबन्ध-उष्णीययुता ब्रह्माशीर्षशिखामणिः
सद्यश्छिन्नजगद्रक्तः शिरोमालाविभूषिता ।
भुजाषोडशसंयुक्ता गजकञ्चुककिङ्किणी
पाशांकुशकपालञ्च खट्वाङ्गं मुण्डडिण्डिमं ।
खड्गखेटवाणधनुश्चक्रदण्डकमण्डलुम्
अभयं वरदं चैव तर्जनी विधृता करैः ।
मुदिता सिद्धिमधुना शक्तिभिः परिवारिता
हूंहूंहूंकारनादेन त्रासयन्देवतागणान् ।
ऋग्यजुःसामाथर्वाख्या वेदस्योपरि परि
शवरूपी महादेव हृदयोपरिसंस्थिता ।
निशेशी च महोग्रा च दक्षिणाचारवर्जिता
ज्येष्ठानुज्येष्ठभेदास्ति याम्यसिंहासनाश्रितां ।
तस्याङ्गदेवताः सर्वे बहुभेदा महोल्वणा
जंभिनी स्तंभिनी नारामोहिनी अंधिनी शिवा ।
मृत्युञ्जया चर्चिका च सिंही दक्षिणकालिका
प्. ११) प्रचण्डा उग्रचण्डा च उग्रतारा कपालिनी ।
त्वरिता छिन्नशीर्षा च वगला वाक्प्रदायिनी
नीला सरस्वती भीमा त्रैलोक्यडामरेश्वरी ।
त्रैलोक्यविजया चण्डी रक्तचामुण्डी भैरवी
दक्षिणाम्नायदेवेशी नानाभेदविसारिणी ।
ब्रह्माद्याष्टभैरवाष्टक्षेत्रपालाष्टमेव च
स्वक्षेत्रनाथं वटुकं गणेशं योगिनीगणाः ।
एका विभिन्नरूपा सा समयी पालनाय च
अघोरस्य गणाः सर्वे नानापारिषदावृता ।
महाचण्डाट्टसंराव पूरयन्ती दिगन्तराः
वेताला बहुला तत्र डाकिनीगणसंवृताः ।
बाललीलासमापन्ना निशाचरगणावृतः
दण्डपाशोद्यतकराः सर्वसाधकसिद्धिदा ।
शाकपुष्करद्वीपेषु साधकाभेददर्शिनी
चौहारे गह्वरे पीठे योनिमण्डलमार्गगा ।
वामाचाररता पूज्या ह्यणिमाद्यष्टसिद्धिदा
सूत्रीयता मया प्रोक्ता दक्षिणाम्नायसङ्गतम्
॥ इति श्रीपरातन्त्रे निशेश्वरी दक्षिणाम्नायो द्वितीयः पटलः
तृतीयः पटलः
सिंहासनप्रतीच्यां तु संक्षेपं शृणु पार्वति ।
अनेकशतसाहस्रश्रीनाथेनावतारितम्
मन्त्रनानारहस्यञ्च यामलं लक्षसंमितम् ।
स्वनाभिमथनाद्देवि स्वकीयरसना पुरा
ब्रह्माण्डं गर्भतस्तस्या जातिदिव्येन योनिना ।
तदारभ्य महेशानि कुजादेवीति विश्रुता
ज्येष्ठबालप्रभेदेन कुब्जिका लोकपूजिता ।
सद्योजातमुखोद्गीता पश्चिमाम्नायदेवता
कुब्जिका जगतामाद्या महासंहाररूपिणी ।
अनन्तदेशिकः सेव्या नित्या शिवसमागता
ज्येष्ठबालप्रभेदेन बहुमार्गप्रवाहिनी ।
द्वात्रिंशताभेदयुक्ता कुब्जिका भैरवाश्रिता
वृषभे संस्थितं देवं खवर्णरूपशोभिनम् ।
एकवक्त्री त्रिनेत्रञ्च मुजाष्टादशधारिणम्
प्. १३) डमरुं परशुं वाणं खड्गमकुंशवज्रकम् ।
शंखं च वेणुवाद्यञ्च वरदाभयदक्षिणे
वामे खट्वाङ्गशूलञ्च धनुः फलकपाशकम् ।
घण्टाकपालवेणुञ्च अभयं भयनाशनम्
पट्टेन बन्धितं जानुवामेरुत्था च कुब्जिका ।
एकवक्त्रा त्रिनेत्रा च अरुणा वर्णवर्णिता
द्विभुजा वरदा देवी सिंहस्थाभयदायिनी ।
नागाभरणभूषाङ्गी खण्डेन्दुकृतमस्तका
सर्वलोकेशपाशेन चारुपीनघनस्तनी ।
सर्वाभरणसंशोभा लक्षणैश्च सुशोभिता
एवं ध्याये कुजामाता पश्चिमाम्नायभैरवी ।
तत्रैव बहुभेदास्ति कुब्जिका कुलमार्गगा
विभिन्ना सिद्धिनाथेन श्रीनाथेनावतारिता ।
कुजेशनाथवीरेण कुजाम्नायप्रकाशिता
नवात्मा श्रीशिखानाथ स्वच्छन्दः श्रीललितेश्वरः ।
क्रमेशी च त्रिखण्डा च महत्तारि त्रिखण्डिका
त्रिशुद्धि उग्रचण्डा च चण्डा चण्डकपालिका ।
अन्नपूर्णा कपाली च ज्वालामालिनी कामिनी
प्. १४) ब्राह्म्याद्या मातरगणा असिताङ्गादिभैरवाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही चैव माहेन्द्री चामुण्डा सप्तमी स्मृताः ।
अष्टमी च महालक्ष्मी एताः सर्वत्र पूजिताः
असिताङ्गो रुरुश्चण्ड क्रोधीशोन्मत्तकस्तथा ।
कपालो भीषणाख्यश्च संहारो चाष्टमस्तथा
षडाम्नायप्रपूज्या वै मातृका सह भैरवी ।
गणेशो वटुकः क्षेत्रयोगिनीसङ्घका स्मृता
डाकिनी भूतवेतालचेटिकागणसंवृता ।
डाकिन्यादिमहारावा षड्योगिन्यः प्रकीर्तिताः
डाकिनी राकिनी घोरा लाकिनी काकिनी तथा ।
साकिनी हाकिनी प्रोक्ता याकिण्यः सप्तधारवः
संस्थिता देवताः पूज्या च रुरूपेण भैरवः ।
सद्योजातः साधिता सा कुब्जिका चक्रनायिका
अङ्गिरा साधिता विद्या दक्षाय प्रतिपादिता ।
नहुषाय ततो दत्वा ततो चन्द्रान्वयाय च
पार्थिवानाञ्च सौम्यानां कुलदेवीति कीर्तिताः ।
अनेकसिद्धिदा सर्वक्रियास्तु बहव स्मृताः
प्. १५) दुर्वासाराधिता विद्या निराचालाकलाश्रिता ।
वाममार्गे रता नित्या दक्षिणा फलवर्जिता
मकारपञ्चकैः पूज्यानां यथाफलदा भवेत् ।
शौचाचारनिराचारनिष्कलङ्का निराश्रया
अणिमादिमहासिद्धिसाधनाच्छीघ्र सिद्धिदा ।
मोक्षदा भोगदा देवी कुब्जिका कुलमातृका
बहुधा वर्णिता देवी तवाग्रे श्रीमतादिषु ।
मन्थानभैरवश्चास्ति चतुर्विंशमतेषु च
॥ इति श्रीपरातन्त्रे पश्चिमसिंहासनकुब्जिका पटलस्तृतीयः
चतुर्थः पटलः
वामदेवाश्रिताम्नाय कथयामि तवाग्रतः ।
उत्राम्नायमुत्तरं तु कालीकुलसमुद्भवा
कोटिकोटिप्रभेदोस्ति कालिका तीव्रनायिका ।
आज्ञासिद्धिप्रदा देवी विष्णुतेजोपवृंहिता
नारायणी महाकाली जगद्रक्षणतत्परा ।
कालि काली महाकाली चण्डयोगेश्वरीति च
तिष्ठन् गच्छन्स्मरन्नित्यमुच्यते महतो भयात् ।
आब्रह्मस्था वरान्ता च कालेन कलयन्ति च
तं कालं कलयेत्काली ततः सा कालिका स्मृता ।
अनेकचक्रचक्रेशी नानाभेदा महागमा
शक्यते कालिका देव्या देवा ब्रह्मादयोपि हि ।
तथापि लेशमात्रं तु कुमारीक्रमतः शृणु
नीलवर्णा महाकाली त्रिमुखा नवलोचना ।
पीतं तु दक्षिणं वक्त्रमुत्तरं पावकोपमम्
मण्डलान्वितनेत्रा च अष्ट चाङ्गी तनूधरा ।
पिङ्गलोर्ध्वजटाटोपचन्द्रार्द्धकृतशेखरा
प्. १७) सप्तविंशतिमुण्डैश्च रक्तविप्लुषसंयुताः ।
अस्थिकुंठलगोडाढ्या मौलीकापालमालिनी
किङ्किणी नौपुरा राव वीरघण्टारवोत्तमा ।
शिवा प्रेतसमारूढा मुखशोणितनिर्भरा
इन्द्राद्यः ब्रह्मविष्णुश्च रुद्रेश्वरसदाशिवः ।
पीतश्यामरक्तधूम्रश्वेताभा पञ्चकारकाः
वज्रदण्डशक्तिशूलखष्ट्वाङ्गायुधधारकाः ।
तर्जनी मुखनिक्षिप्ता शिवाधस्था त्रिलोचना
बद्धपद्मासना देवी पीनोन्नतपयोधरा ।
वामहस्ते कपालञ्च रक्तपूर्णानि शोभने
धारयन्ती त्रिशूलञ्च सशवं दक्षिणे करे ।
चक्रं च दक्षिणे हस्ते अंकुशमुद्गरं तथा
वामे पाशं च खट्वाङ्गमृतवालञ्च धारिणम् ।
चित्कला कलनातस्थां ज्योतिरूपाश्च केवला
निर्वाणपदातीतां भावातीतामगोचरा ।
अस्मिन्मूर्तौ महादेव्या नववक्त्राणि पूजयेत्
बहूनि भेदरूपाणि कालिकाया महेश्वरी ।
आज्ञासिद्धिप्रदा नित्या कौलमार्गप्रवर्तका
मकाकुलालिकायाता विष्णुः कालित्वया गता ।
यस्या प्रभावमतुलं वर्णितुं नैव शक्यते
प्. १८) दुर्वासा नारदो व्यासवसिष्ठः कौशिकस्तथा ।
त्रिश्चतुः पञ्चसप्ताभादेकाभात्सिद्धिमागता
अणिमाद्या महासिद्धिस्तस्याङ्गसिद्धयः स्मृताः ।
मोक्षदा सिद्धिदा काली निर्वाणेशीश्वरी शिवा
कैवल्यमेका सिद्धिः स्यात्महाज्ञानप्रकाशिनी ।
साधका भैरवः साक्षाज्जरामरणवर्जितः
धनदस्य न सा भूति न शक्रस्य प्रजायते ।
या भूति साधकस्यैव भवेत्त्रैलोक्यदुर्लभा
पञ्चवक्त्रक्रमं देवि पञ्चकाल्यानुशासिता ।
गुह्यकाली महादेवी वैष्णवी ब्रह्मरूपिणी
वामदेवाश्रिता सर्वमहाभैरवकोटयः ।
गणेशवटुयोगिन्यः शतकोटिसहस्रका
भूतवेतालडाकिन्यो चेटका राक्षसाः खगाः ।
फेनवा काकगृध्राश्च उलूका गरुडादकाः
शृङ्गाली कङ्कती युगा नानारूपा महाबलाः ।
आम्नायज्ञा वदन्तीह उत्तरं तु निरुत्तरम्
॥ इति श्रीपरातन्त्रे उत्तराम्नाय गुह्यकालि पटलश्चतुर्थः
पञ्चमः पटलः
ऊर्ध्वसिंहासनं वक्ष्ये त्रैलोक्यैश्वर्यसूचकम् ।
सर्वचक्रेश्वरी नित्या सर्वाम्नायप्रपूजिता
सर्वसिंहासनमयी ईशानासनसंस्थिता ।
परब्रह्मेश्वरी माया देवी नारायणी स्मृता
निद्रा बुद्धिः क्षमा क्षांतिः क्षुधा लज्जा स्मृतिर्धृर्तिः ।
प्रज्ञा शांति प्रभा ज्योति तस्या पादांगुलीनखे
यस्या दृग्यानमात्रेण साक्षाल्लक्ष्मीपतिर्भवेत् ।
यस्थार्चाकर्मसुरता यस्या मार्गानुसारिणी
राजराजसमो भूत्वा सुरराजसमोपि वा ।
भुक्त्वा तु विपुलान्भोगान्नन्ते निर्वाणमाप्नुयात्
कदाचिद्योषितो भूत्वा कदाचित्पुरुषो भवेत् ।
विष्णुरूपेण सकलं दुष्टान्सर्वान्विनाशयेत्
जगद्व्याप्तावनीमाया मोहयेत्स सुराऽसुरान् ।
अनूपारूपिणी भूत्वा सुन्दरी कथयामि ते
पद्मरागप्रतीकाशं कुंकुमोदकसन्निभाम् ।
सुभ्रुवां च सुनेत्रा च सुन्दरी चारुहासिनी
प्. २०) कृशमध्य चतुर्बाह्वी खण्डेन्दुकृत शेखराम् ।
त्रिनेत्रा सर्वभूषाङ्गी चारुवेशा मनोरमाम्
पाशांकुशेक्षुचापञ्च पञ्चवाणधनुर्धराम् ।
ब्रह्मविष्णुरुद्र-ईशा पञ्चमण्डपपादुकाम्
सदाशिवाख्य पर्यंङ्कसंस्थिता परमेश्वरी ।
पराशक्ती सुन्दरीति त्रिपुरेशीति गीयते
महामोक्षप्रदा देवी परब्रह्मस्वरूपिणी ।
बहुभेदा विशालाक्षा बहुरूपा प्रकाशिनी
कामेश्वरी रुद्रशक्ती पूर्णपीठावतारिणी ।
वज्रेशी वैष्णवी नित्या कामरूपनिवासिता
शक्तीश्वरी भगेशी च जालन्धरे प्रतिष्ठिता ।
ब्रह्मशक्ती समुल्लासपीठमह्वरविग्रहा
उड्यानपीठनिलया परब्रह्मात्मिका शिवा ।
सर्वचक्रेश्वरी सर्वपीठेशी मन्त्रविग्रहा
सर्वमन्त्रेश्वरी सर्वदेवेशि दिव्यविग्रहा ।
षडाम्नायेश्वरी नित्या निरंसा निःपरिग्रहा
नित्या षोडशविद्याया नवचक्रे व्यवस्थिता ।
नवचक्रेश्वरी नित्या नवकोणाग्रतस्थिताः
त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ।
सर्वसंक्षोभणं चक्रं सर्वसौभग्यदायकम्
प्. २१) सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ।
सर्वकामप्रदं चक्रं सर्वसिद्धिप्रदायकम्
सर्वानन्दमयं चक्रं नवमं चक्रनायिकाम् ।
सर्वतद्वैन्दवे लीनां तच्छ्रीचक्रमुदारितम्
त्रिपुरा त्रिपुरेशी च सुन्दरी पुरवासिनी ।
श्रीर्मालिनी च सिद्धाम्बा महात्रिपुरसुन्दरी [महात्रिपुरभैरवी]
अनेकदेवतावृन्दलीना चक्रेषु संस्थिता ।
वैन्दवो च त्रिकोणे च अन्तरालेऽष्टकोणके
द्विदशारे च मन्वस्रे नागपत्रेषु सर्वतः ।
पत्रषोडशसंख्याते चतुरस्रे गुणस्पृहम्
रेखायुक्तचतुर्द्वारे त्रैलोक्यं तत्र पार्वति ।
हिरण्यरजते ताम्रे मणौ पत्रेथ भूर्जके
कौशेयस्थण्डिले वापि दृष्ट्वा तु प्रणमन्प्रिये ।
सर्वतीर्थेषु सुस्नात सर्वयज्ञेषु दीक्षितः
सर्वदः सर्ववित्साक्षान्महेश्वरसमो भवेत् ।
श्रीचक्रं कारयित्वा तु यो दद्यात्साधकाय च
भूचक्रं तेन दत्तं हि सशैलवनकाननम् ।
स वै महापशुपतः स वै वैष्णवसत्तमः
सर्वदः सर्वदर्शी च ब्रह्मज्ञानी स वै सुधीः ।
महादानानि ये प्रोक्ताः मुनिभिः ब्रह्मवादिभिः
प्. २२) तत्फलं लभते नूनं श्रीचक्रस्य प्रभावतः ।
कोटिलिङ्गप्रतिष्ठस्य यत्फलं समुदाहृतम्
तत्फलं लभते नूनं श्रीचक्रस्य च पूजनं ।
विष्णोः कोटिप्रतिष्ठायाः फलं प्राप्नोति निश्चितं
हिरण्ये रजते ताम्रे मणौ भूर्जे च पट्टके ।
अङ्कयित्वा धारयेद्यस्तु कंचे कण्ठे भुजेपि वा
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
मुच्यते सर्वपापेभ्यः श्रीचक्रस्य च धारणात्
पापानि विलयं यान्ति ज्ञानाज्ञानकृतानि च ।
सर्वं संदह्यते शीघ्रं चक्रराजस्य धारणात्
भूतप्रेतपिशाचैर्वा श्वापदैर्ब्रह्मराक्षसैः ।
डाकिनीशाकिनीभिर्वा वीक्षितुं नैव शक्यते
महाक्रूरग्रहैर्वापि जन्मस्थानस्थितोपि वा ।
गोचरे लग्नगे वापि सर्वं शुभग्रहं भवेत्
अकालमृत्युं हरति सदा सन्निहिता परा ।
परा सन्निहिता यत्र किं कुर्वन्त्यन्यदेवता
श्रीचक्रं धारयित्वा तु यस्तु प्राणान्परित्यजेत् ।
कांकटेनानुरीक्षे वा निषिद्धे कश्मलेपि वा
कृत्वा चान्द्रीयलौल्येन पापानि सुबहून्यपि ।
स कैवल्यं लभेन्नूनं न पुनर्जन्मभाग्भवेत्
प्. २३) यमदूताः पलायन्ते कृत्वा श्रीचक्रधारिणम् ।
ब्रह्मज्ञानेन वा मोक्षः काश्यां वा यस्तनुं त्यजेत्
श्रीचक्रधारणाद्वापि त्रयो मोक्षस्य कारणम् ।
सर्वदेवगणास्तत्र सर्वधर्मश्च तत्र वै
गङ्गाद्याः सरितः सर्वे पुष्कराद्या जलाश्रिताः ।
पुरुषार्थमनुष्याश्च क्षेत्रानन्दवनादयः
वाजिमेधादियज्ञस्य फलं त्वविकलं भवेत् ।
वामदक्षिणयागेन सुन्दरी द्विविधा स्मृता
सुन्दरी द्विविधा प्रोक्ता वामदक्षिण सानला ।
अचिरेण भवेद्वामः सर्वकामानसंशयः
दक्षिणाचारयागेन भिक्षूनां परमा स्मृता ।
तदन्याचारयोगेन आशु सिद्धिफलं लभेत्
वेदोक्तैर्दक्षिणाचारैः कैवल्यं केवलं फलम् ।
अत एव महादेवि साक्षाद्ब्रह्मस्वरूपिणी
षोडशार्णा महादेवी वाच्यरूपेण संस्थिता ।
तुरीया सा महाविद्या साक्षाज्जाग्रत्स्वरूपिणी
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
वणितुं नैव शक्नोमि श्रीविद्या षोडशाक्षरीम्
ब्रह्मविद्यास्वरूपा सा भुक्तिमुक्तिफलप्रदा ।
एकोच्चारणं देवेशि राजसूयस्य कोटयः
प्. २४) षोडशार्णा महाविद्या न प्रकाश्या कदाचन ।
विना गुरुप्रसादेन श्रीविद्या षोडशाक्षरी
दृष्ट्वा प्रजपते यस्तु स भक्षो योगिनीगणैः ।
श्रीगुरोः कृपया लब्धो न प्रकाश्या कदाचन
विना गुरुप्रसादेन जपेन्नैव कदाचन ।
श्रीगुरोः कृपया लब्धा सर्वसौभाग्यदायिनी
सुधासुरङ्गिनी वेगशब्दचातुर्यदायिनी ।
सौभाग्यभागसंपन्ना कलाकुशलदायिनी
भुवनत्रयसौभायं त्रैलोक्याकर्षणं तथा ।
परंब्रह्मणि लीनत्वं ददाति यश उत्तमम्
षोडशार्णा महाविद्या भुक्तिमुक्तिफलप्रदा ।
निःसरन्ति महाविद्या विस्फुलिङ्गा यथा प्रिये
साक्षात्सच्चिन्मयी नित्या ज्ञानमोक्षप्रदायिनी ।
महासंपत्प्रदा विद्या साक्षादक्षररूपिणी
षोडशार्णा महाविद्या श्रीविद्या कथिता पुरा ।
निधीनां रक्षणं कार्यं चौरेभ्यस्तु यथा प्रिये
प्राणेनापि रक्षणीया श्रीविद्या षोडशाक्षरी ।
न देया यस्य कस्यापि देया प्राणप्रदायिनी
राज्ञराज्यप्रदेयानि प्राणेभ्योऽप्यधिकाय च ।
सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमथाधमं
प्. २५) ताम्रं लक्षगुणं प्रोक्तं रौप्यं कोटिगुणं भवेत् ।
सौवर्णानन्तफलदं अथासौ किं ब्रवीमि ते
बाला सा प्रथमा विद्या ततो वाग्भैरवी स्मृता ।
संपत्प्रदा श्रीपदाश्च ततस्त्रिपुरभैरवी
बिन्दुमालिनी चिल्लेखा हृल्लेखा श्रीपराकला ।
षट्कूटा नवकूटा च लोपामुद्रा त्रिकूटिका
पञ्चमी पञ्चकामिन्यविद्या श्रीकामराजकं ।
षोडशार्णा महाविद्या सा वै श्री परमा परा
परायुक्ता च प्रासादः शाम्भवं समुदाहृतः ।
अणिमाद्या महासिद्धि अन्तरायप्रकीर्तिताः
पञ्चसिंहासनदेव्याः महात्रिपुरसुन्दरी ।
साक्षाज्जाग्रत्स्वरूपा च वैष्णवी परदेवता
सर्वस्वरूपिणी नित्या प्रकृति परमेश्वरी ।
सर्वजीवस्वरूपा च व्याप्य सर्वत्र संस्थिता
सिवशक्तिः वयो नास्ति पुमान्नस्त्री नपुंसकः ।
सर्वजीवस्वरूपा च आदात्मलिङ्गस्वरूपिणी
सर्वोत्पत्तिहेतुभूता योनिरित्यभिधीयते ।
सिंहासनस्वरूपाया ऊर्ध्वाम्नाय मयोदितम्
लेशमात्रं महादेवि साक्षाज्जाग्रत्स्वरूपिणी
॥ इति श्री परातन्त्रे श्रीविद्या ऊर्ध्वाम्नायक्रमः पटलः पञ्चमः
षष्थः पटलः
अधाम्नायं शृणुष्व त्वं सावलिजिनमातृका ।
अशेषकर्मनिर्माणा कलौ शीघ्रफलप्रदा
बौद्धमार्गे निरातङ्का निरर्गल नलप्रभा ।
आत्मायान्तरसाराणि ख्याता सा वज्रयोगिनी
त्रिवक्त्रा रक्तवर्णा च नृत्यपादा शवासना ।
त्रिनेत्रा मण्डलं व्रीतेहादाभरणभूषिता
मुण्डमालाविभूषाङ्गी व्यालयज्ञोपवीतिनि ।
व्याघ्रचर्माम्बरा देवी सिंहचर्मोत्तरीयका
।
वैरोचनी वज्रपूर्वा वज्रघण्टा वरपिवा ।
चतुर्भुजा प्रेतसंस्था बर्बरार्द्धशिरोरुहा
कर्तॄकपालखट्वाङ्गडमरुं च धृता करैः ।
सौगतानुगमा साक्षात्कलौ शीघ्रफलप्रदा
इहैव फलदा नित्या नापवर्गफलप्रदा ।
सौगतानुगमा सर्वा नानाभेदसमाश्रिता
कालचक्रं सम्वरं च हयग्रीवाख्य भैरवम् ।
योगाम्बरं च कालेशं सा बलिसौगमाश्रिताः
॥ इति श्रीपरातन्त्रे षडाम्नायभेदे अधाम्नायक्रमः पटलः
षष्ठः
सप्तमः पटलः
श्री देव्युवाच
देवदेव महादेव सर्वज्ञ परमेश्वर ।
अत्यद्भुतमहं मन्ये कालीक्रमकुलोद्भवम्
मनः संकंपतेतीवलोमहर्षश्च जायते ।
कथं सा कालिका देवी शतकोटिप्रभेदतः
एतद्भेदत्रयं क्वापि न श्रुतं परमेश्वर ।
सर्वं कालिक्रमाश्रित्य स्थिते च भासते मनः
चक्रेश्वरी चक्रभेदं का च सर्वाधिकाश्रिता ।
क्रमभेदकुलोद्भेदं कथं पूजाक्रमं प्रभो
तस्यार्चनेन देवेश लभेद्वा कि महाफलम् ।
इह चामुत्र किं भुंक्ते साधकः परमेश्वर
कथं काली ह्यनालंबा कालं वा कालघस्मरा ।
निर्गुणा निष्कला नित्या निरंशेति त्वयोदिता
कोटिभेदलक्षभेदवक्त्रं यदि न शक्यते ।
मुख्यमार्गानुगा देवी नायिकां वद शङ्कर
यस्यार्चने न सकलं कालिकापूजितं भवेत् ।
एक एव परा नित्या या देवी चितिरूपिणी
प्. २८) सर्वस्वरूपा सर्वेशी चितिरूपा श्रिता परा ।
यस्यामुत्पद्यते विश्वं लीयते स्थीयते पुनः ॥ ९ ।
वद देव महेशान नमस्ते शशिशेखर ।
तासां चक्रेश्वरी नित्या का रूपा केति संख्यका
अमृतस्यैव पानेन यथा तृप्यन्तु देवता ।
नायिकां क्रमभेदञ्च श्रुत्वा तृप्यामि पुष्कलः
वद खेदो न ते देव सर्वज्ञ सर्व सर्वदा
श्रीसदाशिव उवाच
ब्रह्माण्डकोटिलक्षाणि भस्म सा कुरुते यसा ।
तां कालग्रासरसनां कालसंकर्षिणीं नमः
यस्या क्रीडार्थमखिलं ब्रह्माण्डं कन्दुकायते ।
तां कालग्रासनरतां कालसंकर्षिणीं नमः
शृणु देवि प्रवक्ष्यामि यत्त्वया मनुपृच्छते ।
एका एव पराशक्तिः बहुभेदप्रकाशिनी
नित्या निरंशा सा देवी ब्रह्मसत्यप्रकाशिनी ।
वक्त्रकोटिसहस्रैस्तु जिह्वा कोटिशतैरपि
वर्णितुं नैव शक्नोति शताब्देनापि सुन्दरि ।
पञ्चवक्त्रेण जिह्वाभिः पञ्चभिः परमेश्वरि
लक्षकोटिप्रभेदेषु दशमात्रं वदामि ते ।
कालिका क्रमभेदेषु या श्रेष्ठा मोक्षदायिनी
प्. २९) तानि ते कथयिष्यामि क्रमपञ्चविनिर्णयम् ।
परंब्रह्ममयी नित्या साक्षाज्जाग्रत्स्वरूपिणी
निर्लेपा निर्गुणा नित्या गुणैः संक्रीडते जगत् ।
न पुमान्न स्त्रियः साक्षान्न षण्ढः प्राकृतो न च
अव्यक्तरूपा परमा जाग्रद्गुणगुणालका ।
पृथिवी वायुरापोग्नि खं पञ्चभूतसन्मता
तस्या रूपमिदं सृष्ट्यर्थं सृजते गुणैः ।
धारणी परमा देवी धरण्यादिशिवान्तया
पृथुत्वात्पृथिवीत्युत्काततः सर्वं महाह्यभूत् ।
सर्वजीवं प्राणयन्ती सर्वत्र चरणक्षमः
सम सर्वत्र प्रत्यायुर्गुणैर्वायोः समार्पितः ।
चतुर्विधं जीवनाच्च जगत्स्थावरजङ्गमम्
जलैः समुद्धयत्सर्वं तद्गुणं सा जलोत्थितम् ।
दहत्यग्नि जगत्सर्वं स मध्यं मध्यमेव वा
तेजसा प्रज्वलन्नेव तेजा सास्या समाश्रिता ।
व्यापकत्वान्महत्वाच्च निरंशत्वाद्गुणाश्रयात्
आकाश ह्यर्पिता देव्याः सर्व संधार्यते गुणाः ।
महासौभाग्यजननी महासारस्वतप्रदा
महासौन्दर्य शुभगा महामृत्युविनाशिनी ।
ब्रह्मविष्णुसुरेन्द्रादिवन्दितायौघहारिणी
प्. ३०) सर्वतीर्थमयी देवी सर्वधर्ममयी शिवा ।
सर्वक्षेत्रमयी पुण्या सर्वकार्यार्थसाधिनी
महाभोगप्रदा शान्ता महामोक्षफलप्रदा ।
यस्या प्रभावतो देवी सर्वशुद्ध्यति नान्यथा
वामाचाररता वापि दक्षिणाचारकृद्भवेत् ।
निराचारापि साचारा पापो धर्म न विद्यते
किमाचारविचारेण यदि काल्यार्चने रतः ।
विनाचारविचारेण यदि काल्या न दीक्षिता
निराचारा क्रिया सर्वा साचारा क्रियते य सा ।
स्वेच्छात्र भक्षनियमो निराहारसमस्मृतम्
कालीनामाक्षरपदं जपन्यावानि नश्यते ।
महापातककोटीनि लीलयैव विनश्यते
दह्यते सर्वपापानि तूलराशिमिवानलः ।
चक्रोद्धारं प्रवक्ष्यामि शृणुष्वैकमना शिवे
बिन्दु त्रिकोण पञ्चारनवकोण पुनर्लिखेत् ।
अष्टारं चाष्टदलकं दशद्वादशकं तथा
षोडशं दल संलिख्य मुण्डप्राकार संलिखेत् ।
चतुःपञ्चाशकं देवी कवध समुदाहृतम्
त्रिशूलाग्र मुण्डमाला चतुःपञ्चाशकं प्रिये ।
अष्टदिक्षु श्मशानाष्ट विलिखेत्कामदायकम्
प्. ३१) ज्वलिताग्नोदक् च शवं शृगालोलूकभैरवम् ।
काकवेताल चैत्यञ्च लिङ्गं चाष्टश्मशानके
चिताष्टदिक्षु प्रलिख्य महापातकनाशनम् ।
हिरण्यं रजते ताम्रे मणौ वापि च टङ्किते
चन्दनागरु कर्पूरनाभिकाश्मीर सिन्दुरैः ।
रक्तचन्दनयुक्तेन हेतुना घृष्टयेत्सुधीः
भाजने लेपयेत्तेन लिखेद्धेमशलाकया ।
ऋजुरेखा सुरेखेन रम्यदृष्टिमनोहरम्
प्रतिमायां पटे वापि स्थण्डिले पुस्तके हृदि ।
खड्गे वापि त्रिशूले वा महापात्रेऽथवा स्त्रियाम्
एते नवसु वै पूज्या नवयोनिपरा प्रिया ।
दिवायां ब्रह्मचर्ये वै मङ्गलायाः प्रपूजयेत्
रात्रौ यथेच्छया पूज्या कालिका कुलशासिनी ।
कूटस्थ प्रकृति स्वाम्बा लीला भुवनपावनी
वृहद्वृहद्वतिप्रोक्ता रेण्वादपि महामनु ।
अरूपायां तु वक्ष्यामि रूपमव्यक्तरूपिणीम्
विना ध्यानेन वै पूजा सकलाप्यकला स्मृता ।
तस्मात्साधक सिद्ध्यर्थं ध्यानयोगं वदामि ते
पितामहेन देवेन मां समाराध्य प्रार्थितः ।
तुष्टेन वै मया प्रादाद्ब्रह्मणे लोकसर्जने
प्. ३२) ब्रह्मणापि पुलस्त्याय दत्तं कालिकुलक्रमम् ।
तेन विश्ववसे प्रादाद्विश्रवा धनदाय च
ततो लङ्काधिपाः सर्वे वंशाः कालिक्रमानुगाः ।
दशास्यं कुम्भकर्णं च विभीषणमहेन्द्रजीत्
हिरण्यकशिपुर्वाणो वलिर्जालन्धरस्तथा ।
अम्बरीषोर्द्धमान्धाता नहुषो हैहयादयः
नारदाद्या मुनिगणो दुर्वासा गाधिनन्दनः ।
विरूपाक्षादयः सिद्धा रेमिरे स्वेच्छया मुदा
तस्या प्रसादलेशेन त्रैलोक्यविजयो भवेत् ।
ब्रह्मणा प्रेरितः पश्चाल्लंकेश्वरवधाय च
विश्वामित्रवसिष्ठाभ्यां राघवाय प्रदत्तवान् ।
सूरयूतीरतीर्थे वै दशोनाहृच्छताक्षरी
त्रिशताक्षरि मन्त्रे वै त्रिलोक्यैश्वर्यदायिनी ।
दशवर्णा मया देवी गोपिताः यत्नतः पुरा
यदि पूर्णा भवे देवि मन्त्रं वै त्रिशताक्षरीम् ।
यो जानाति स पुण्यात्मा भैरवोहं न संशयः
मन्त्रमातेति विख्याता त्रैलोक्यैश्वर्यदायकं ।
समस्तमन्त्रजननी सर्वमन्त्रप्रवृंहिणी
बहुधा वर्णितं मन्त्रमाता सर्वप्रदायिनी ।
त्यङ्गिरा महाकाली मोक्षसौख्यप्रदायिनी
प्. ३३) नानया सदृशी विद्या विद्यते भुवनोदरे ।
राज्यदा धनदा मोक्षदातृ कैवल्यदायिनी
तेनास्तवे च रामेण रावणो विनिपातितः ।
आद्या काली क्रमं पञ्च एका सा पञ्चधा गता
काली कुलसमुद्भव पुरस्तनावतारिता ।
कुमारी त्रिमुखा काली नवकाक्षरा स्थिता
आद्या या सृष्टिकाली च द्वितीया स्थितिकालिका ।
संहारकालिका उग्रा तृतीया दिव्यरूपिणी
अनाख्या कालिका देवी चतुर्थयेमाश्रिता ।
भाषाकाली पञ्चमी तु अद्वैतभावमास्थिता
अभिन्नरूपास्ता सर्वा गुह्यकालीतनौ श्रिता ।
तथा तनौ तथा पादा शरीरावयवाङ्गेषु
शरीरावयवा वक्रा बाह्वादीनाशनं दिकाम् ।
पञ्चकाली महाग्रासा एका सा भिन्नरूपिणी
आत्मा वैश्वरभूता या गुह्यकाली प्रकीर्तिता ।
तासां ध्यानं प्रवक्ष्यामि शृणु पापतयापहम्
अथ वक्ष्ये महादेव्या ध्यानयोगमनुत्तमम् ।
योगविज्ञानमात्रेण साधकः सिद्धिभाग्भवेत्
नीलोत्पलदलश्यामा नीलरत्ना विनिर्मिता ।
ज्ञानलक्ष्मीच्छटाटोपज्योतिर्मण्डलसंभवा
प्. ३४) दशवक्त्रा महाकाली सप्तविंशतिलाचना ।
अष्टोत्तरशतार्द्धं च भुजादण्डै नरानना
दीपकं ऊर्द्धकं वक्त्रं चण्डयोगेश्वरी मतम् ।
ज्योतिर्मयमहावक्त्रं निर्वाणपददायिनी
तदधः सिंहवदनं श्वेतवर्णं सुभास्वरम् ।
फेरुवक्त्रं च तदधः कृष्णं त्रैलोक्यडामरम्
कपीन्द्रस्य मुखं वामे रक्तवर्णं महोल्वणम् ।
कोलवक्त्रं भवेद्दक्षं धूम्रवर्णं भयानकम्
तार्क्ष्यवक्त्रं च वामञ्च पिंगवर्णसचुञ्चुकम् ।
दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितम्
गजास्यं वामके प्रोक्तं गौरवर्णं महोल्वणम् ।
हयास्यं दक्षिणे काल्या श्यामवर्णं विचिन्तयेत्
सर्वदंष्ट्रा कराला च त्रिनेत्रा भीमनादिनी ।
भ्रभङ्गकुटिला भीमा कालास्य श्रीमुखोत्तमा
पिङ्गलोर्ध्वजटाटोपचन्द्रार्द्धकृतशेखरा ।
नानारत्नैश्च घटिका श्वेतकाद्यालिमालिनी
सप्तविंशतिमुण्डैश्च रक्तविप्लुषसंयुता ।
वज्राणि पुष्पसंयुक्तं शिरोमाला प्रकीर्तिताः
चिद्रत्नवटिका काद्यं खड्गपाशं च शक्तिकम् ।
खट्वाङ्गमुण्डधनुषं चक्रं घण्टा च सुस्वनः
प्. ३५) वालप्रेतञ्च शैलञ्च कङ्कालनकुलं तथा ।
सर्पं च कुट्टनीवंशषडम्रं ओविका पुनः
वह्निपात्रञ्च दण्डञ्च स्रुवमष्टादकेशरी ।
वस्त्रमुद्गरडमरुं विभ्रती वाणबाहुभिः
चिद्रत्नवटिकाकर्तृतर्जन्यं कुशदण्डकम् ।
रत्नपूर्णं च कलशं त्रिशूलं दुष्टनाशनम्
पञ्चपशुपता वाणं पद्मद्वीपमनागतम् ।
कुन्तञ्च पाणिजातञ्च फणिका तोमरं तथा
पुष्पमाला डिण्डिमं च गृद्धं स्वस्तिकवर्द्धनी ।
कमण्डलुश्रुवाञ्चैव पशुपुष्टिभयापहम्
नन्द्यावर्तं कुण्डलं च मांसखण्डसुशोभनम् ।
वीजपूरफलं शूची विभ्रती दक्षबाहुभिः
व्याघ्रचर्मपरीधानां कालचर्मोत्तरीयकाम् ।
किंकिणीजालशोभाढ्यां वीरघण्टानिनादिनीम्
नौपुरारावनिर्घोषा घर्घरारावभीषणा ।
कनकाङ्गदकेयूरा महास्थिकृतशोभना
मुण्डमाला गले देव्या आपादान्तविलम्बिनी ।
रक्तपद्ममयीमालां शुष्ककाद्यलिकास्तथा
काञ्चीकट्टारकोपेतां कटि देव्या विराजितां ।
ब्रह्मसूत्रोज्वलत्कण्ठाद्योगपट्टोत्तरीयका
प्. ३६) सौम्याग्रभूषणैर्युक्ता नागराजाद्यलंकृता ।
रक्तकुण्डलकर्ण।श्री पञ्चकालासनस्थिता
शिवासनं तदूर्ध्वं च नीलं नादोर्ध्वलांछनम् ।
महार्घरत्नमांसञ्च कृष्णवर्णं चतुर्भुजम्
एकवक्त्रं त्रिनयनं भैरवाभरणान्वितम् ।
कर्तृकपालहस्तं च डमरुखट्वाङ्गधारिणम्
एवं भैरवपीठन्तु देव्या आसनमुत्तमम् ।
पञ्चप्रेतं च तदधः ब्रह्माद्याः पञ्चकारणाः
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पीतश्यामं रक्तधूम्रं श्वेताभावं च कारणाः
दण्डचक्रशक्तिशूलखट्वाङ्गायुधधारकाः ।
तर्जनीमुखनिःक्षिप्ता शिवधस्था त्रिलोचना
पिङ्गरक्तत्रिगुण्याभिहेतुत्कारणभीषणा ।
वज्रदंष्ट्रा नखस्पर्शा पद्मपृष्ठे शिवोत्तमा
शचीपत्यादिरन्तं च दिगवर्णं सवर्णकम् ।
इन्द्रं पीताभवज्रं च वह्निं रक्तं सशक्तिकम्
यमं कृष्णं च दंडं च धूम्रं नैरृत्यखड्गकम् ।
वरुणं पाशशुभ्रास्य वायुः श्यामांकुशध्वजम्
कुवेरं कुंकुमगदां शुभ्रमीशानशूलकम् ।
दिगष्टपतये ज्ञेयमासनं परिकीर्तितम्
प्. ३७) शुक्लं कृतयुगं ज्ञेयं पीतं त्रेतायुगं स्मृतम् ।
द्वापरं चारुणं वर्णं श्यामं चैव कलि स्मृतम्
ऋग्वेदं शुक्लवर्णं च यजुर्वेदं सुवर्णवत् ।
सामं रक्तमिति ख्यातं कृष्णाथर्वणमुच्यते
उपवेदस्तथा वर्णा नवमासनमुच्यते ।
सहस्रसूर्यज्वालाग्रमासनं परिकीर्तितम्
पद्मोपरिस्थिता देवी नृत्यमाना सदोदिता ।
अथवा सुख चासीनं सर्वदेवाधियन्त्रिता
सहस्रसूर्यप्रतिभां दुर्निराक्षा दुरासदाम् ।
सर्वदेवाश्रयी नित्या मालिनी जयमङ्गला
मुक्तहू।कारजिह्वाग्रलालयन्तं विचिंतयेत् ।
प्रत्यालीढपदा वापि नृत्यमानापि च स्मरेत्
सर्वमन्त्रमयी धीरा सर्वलक्ष्मी जयेस्विरा ।
एवं ध्याया महाकालीमभीन्न नवयौवना
भासाक्रमस्य मध्यस्था चक्रेशी परमेश्वरी ।
पंचकाली प्रभेदास्तु विशेषं शृणु पार्वति
नववक्त्रा महाकाली सप्तविंशतिलोचना ।
ऊर्ध्वं ज्योतिर्मयं वक्त्रं चण्डयोगेश्वरीभिधाम्
चिद्रत्नवटिका मुद्रा मूल्यदेव्यास्तु एव सा ।
वक्त्रैकरत्नमुद्रां च विहीना पंचकालिका
प्. ३८) वक्त्रं शस्त्रं भुजं मालामासनानि क्रमाणि च ।
भूषणादीनि वर्णानि यथा श्रीगुह्यकालिका
सृष्टिस्थिती च संहार अनाख्यायां महेश्वरि ।
भाषाकाल्या तुल्यरूपा विशेषं स च तान् शृणु
विशेषिका विशेषेण तद्वक्ष्यामि क्रमेण तु ।
नीलजीमूतसंकाशा नववक्त्रा महेश्वरी
पूर्वोक्तध्यानराजे तु तुल्या चान्या महेश्वरी ।
बद्धपद्मासना देवी पीनोन्नतपयोधरा
जिह्वाग्रेन वाम दंष्ट्रां दर्शयन्तीं त्रिभङ्गिकाम् ।
मदघूर्णितदीर्घाक्षी ध्यानलोचनतत्परा
चिद्रत्नवतिकाह्यज्या वरदाभयपाणिनी ।
तर्जन्यग्रे स्थितं वज्रं मूर्तिं ज्वलनसप्रभाम्
रश्मिद्वादशसंयुक्तामनाक्षेशीं स्मरेत्सदा ।
संहारचक्रमध्यस्थं निर्मांसा कोटरांबिकाम्
प्रत्यालीढपदा देवी दन्तोष्ठपृष्ठपिडिंका ।
लेलिहाना ललज्जिह्वा मुक्तहूंकारराविणी
वरदानं परीत्यक्षे वित्राणामजकेशरी ।
दशशक्तिसमायुक्तां विश्वसंहारकारिणी
स्थितिक्रमस्य मध्यस्था ईषत्प्रहसितानना ।
खर्वा लम्बोदरी देवी राजलीनासनस्थिताम्
प्. ३९) अजकृष्णो परित्यज्य ब्रह्मकंकालवल्लभाम् ।
वादयंती महाकाली स्थितिस्थां षोडशात्मिकाम्
सृष्टिक्रमस्य मध्यस्थां अट्टहाससमन्विताम् ।
ऊर्ध्वा समयद चारुललिता तनुविग्रहा
विहाय ब्रह्मवीणाञ्च विभ्रती चन्द्रभास्करौ ।
योनिपंचकमध्यस्थां ध्यायेत्सृष्ट्यैकहेतवे
अनाख्याचक्रमध्यस्था भासादेवी जगन्मयी ।
सर्वा कालीसृता देवी षोडशारे प्रतिष्ठिता
चन्द्रसूर्योपरिभ्युज्या मञ्जीरद्वयधारिणी ।
जगद्भासयते भासाकाली विष्णुसमुद्भवा
बाला कुमारी या काली सर्वा संसृतरूपिणी ।
त्रिमुखाष्टभुजा देवी कपालमालसंयुता
पिबन्तु रुधिरं दिव्यं कृष्णवर्णा त्रिलोचनम् ।
पाशांकुशवज्रशूलं खट्वाङ्गं मुद्गरं तथा
मृतबालमुंडहस्तं कपालं रक्तपूरितम् ।
एवं ध्यात्वा महादेवी नानाभोगफलप्रदा
एतदेव हि भेदोयं पञ्चकारस्य कारणम् ।
ततः समस्तरूपाणि कालिकाक्रमोद्भवा
विधिवत्पूजयेन्नित्यं विधिलोपं न कारयेत् ।
यथा गुरोपतिष्ठन्तु तदेव व्रतमाचरेत्
प्. ४०) देवतामन्त्ररूपाणि गुरुरेव न संशयः ।
शिवे रुष्टे गुरु त्राता गुरु रुष्टे न कश्चन
गुरुरेव सदा पूज्यो कालिकातुष्टिहेतवे ।
अन्धे तमसि संमग्न गुरुरेव परां गतिः
बन्धुपुत्रसहस्रेषु मातुः पितु शतेष्वपि ।
एतेभ्यो गौरवत्वाच्च गुरुरित्यभिधीयते
ब्रह्महत्यादिपापानां निष्कृतिः समुदाहृतम् ।
गुरुद्रोहिकृतानां तु निष्कृतिर्नास्ति पार्वति
गुरोश्च देवतायाश्च द्वैतभावं न कारयेत् ।
स्वात्मविक्रियतो वापि गुरुरेव प्रपूजयेत्
गुरु तुष्टे जगत्तुष्टावित्याज्ञा परमेश्वरी ।
न माता न पिता पुत्र त्राता बन्धु सुहृन्नृप
।
गुरोर्गुरुतरं देवि न कुर्यात्त्रिभि सर्वथा ।
यस्य प्रसादाज्जानीया त्रैलोक्यं सचराचरं
न तोषितो गुरुर्येन तस्य स्यान्निष्फलक्रिया ।
यस्य वक्त्राद्विनिर्याता देवी शब्दमयी परा
न गुरुं वंचयेच्छिष्यैः प्राणैः कण्ठगतैरपि ।
देवता मन्त्रसकलं लघिनं तेन भैरवः
गुरुदैवतमन्त्राणि मनाग्भेदं न कारयेत् ।
भेदेन निरयं याति समूलं विनिहन्ति वै
प्. ४१) गुरुं संतोषयेद्यत्नैः स्वप्राणेनापि श्रद्धया ।
द्वीपकस्यैव वेतालपरिगतिमवाप्नुयात्
गुरु संतोषितो येन रक्षितं भुवनत्रयम् ।
नातः परतरं किञ्चिद्गुरुरत्यधिकं प्रिये
अशरीरा वर्णरूपा ब्रह्माण्डव्यापिनी शिवे ।
पिण्डदानादिसंस्कारं यथा पित्रोस्तथा गुरोः
अकृत्वा नरं याति षष्ठिवर्षशताधिकम् ।
शरीरदा पिता देवि ज्ञानदा गुरुरेव च
गुरोर्गुरुतरं नास्ति संसारे दुःखसागरे ।
यस्य वक्त्राद्विनिर्याता वर्णब्रह्ममयं वपुः
तरयन्नात्र सन्देहो नरकावर्णवतो ध्रुवम् ।
अहोहं संप्रवक्ष्यामि सारं सर्वार्थकामदम्
एकाक्षरी नवाक्षरीञ्च षोडशाक्षरि वारुणि ।
चतुःपंचाशवर्णं च शताक्षरी विशेषतः
द्विशताक्षरी मन्त्रञ्च दशोना त्रिशताक्षरी ।
सहस्राक्षरि देवेशि प्राणभूतास्तु कालिका
मन्त्रोद्धारं
अम्बरं परमं वह्नि आपंच धरणी तथा ।
रावणी नाम सा विद्या मोक्षदा भुक्तिदा प्रिये
एकाक्षरी परा विद्या भोगमोक्षप्रदा स्मृता ।
शिवशक्तीसमायोगो भवेदत्र च पार्वति
प्. ४२) महाकुंडलिनीं देवी महारावणिपूजिता ।
वह्निं शिवाक्षरो नां च वरुणम्
शिखी च मधुहा युक्ता काली प्राणमुदाहृतम् ।
ख्फ्रेंमात्मिका लिख्य महाचण्डमनालिखेत्
योगेश्वरीपदं दत्वा विद्येयं सा नवाक्षरी ।
षोडशाक्षरि या विद्या प्राणभूताश्च तां शृणु
यस्योपदेशमात्रेण ब्रह्मभूयाय कल्पते ।
त्रिपदं तु समोद्धृत्य महारावं ततो लिखेत्
निशामाधवसंयुक्तं ज्ञेयं त्रिदशवन्दिते ।
सत्यारूढे सास्वतश्च तुष्टिना कवलीकृतम्
सत्यमत्या समारूढा सूक्ष्मेशकवलीकृता ।
ततश्चक्री जाठरं च नारायणसमन्वितम्
माधवेन समायुक्तो वलानुज पुनर्लिखेत् ।
माया चंडी कूर्चरक्षा महाराव पुनर्लिखेत्
नतिं नियोजयेद्देवि शिरमन्त्रं समुच्चरेत् ।
वर्णषोडशमाख्यातं मन्त्रंराजमुदाहृतम्
पंचपिंडाग्रतो दत्वा महाशब्दशशी भवेत् ।
अनादि महामन्त्रं वर्णराजमुदाहृतम्
शताक्षरं मन्त्रराजं तथा पंचशताक्षरम् ।
पंचाक्षरमादिमन्त्रं तथाष्टाक्षरमन्त्रकम्
प्. ४३) दशोना त्रिशता विद्या महामन्त्र उदाहृतम् ।
द्विशतं तु महादेवी नवत्यधिकसुप्रभे
शिवेष्टहेतो हि पुरा सहस्राक्षरमालिका ।
एकेभ्यरतरं देवि कुलाचारक्रमे विधिः
परंब्रह्मस्वरूपं तु नादबिन्दुकलात्मिका ।
सकलार्णवमध्यस्था सकलार्णवरूपिणी
श्रीगुरोः कृपया देवी संप्रदायक्रमागतम् ।
लभ्यते यदि भाग्येन कोन्य धन्यतरो भुवि
मनुष्यवपुराछन्ना सशिरो नात्र संशयः ।
वर्णितुं नैव शक्नोमि कालिकाया कुलक्रमम्
वर्णषोडशकं विद्या राज्यदा प्राणदा स्मृता ।
महासौख्यप्रदा शांता सा काली प्राणदायिनी
वैखरी यान्यभादत्वादशक्ता गुणवर्णने ।
ब्रह्मविद्यास्वरूपा सा भुक्तिमुक्तिफलप्रदा
एकोच्चारेण देवेशि वाजपेयस्य कोटयः ।
अश्वमेधसहस्राणि प्रादन्यभुवनस्तथा
प्रयागे स्नानजं पुण्यं मकरस्थे दिवाकरे ।
तस्य शतगुणं प्रोक्तं कालिका विधिनाचरेत्
प्. ४४) चतुराश्रम्य यत्पुण्यं क्रमेण परिसेवितम् ।
यत् पुण्यं वर्णधर्मस्य तत् पुण्यं कालिकार्चनात्
काश्यादितीर्थयात्रां च सार्द्धकोटित्रयान्वितम् ।
तुलनायाति देवेशि सत्यं सत्यं न संशयः
लक्षजापेन देवेशि किं पुनः सिद्धिभाग्भवेत् ।
यस्या सामर्थतो देव्या भुवनानि चतुर्दशम्
अभवत्परमेशानि तेषां कारणरूपिणी ।
पुरश्चर्या कृता येन तेषां विद्या फलाङ्गमम्
अकृत्वा तु पुरश्चर्या न मन्त्रो फलदो भवेत् ।
ब्रह्माण्डकोटिजननी महामोक्षप्रदायिनी
निःसरन्ति महामन्त्रो विस्फुलिङ्गा यथा प्रिया ।
अग्रे सकाशाद्बहवो भेदा विद्या प्रकाशिता
प्रणवा सर्वमुत्पन्ना परब्रह्ममयी तु सा ।
मायाहर्तारक्षिता च नान्या तु भवनेश्वरि
नानाम्नायस्वरूपेण नानारूपेण मायया ।
मोहयन्ती जगत्सर्वं पुत्रपौत्रप्रवर्द्धिनीम्
स्त्रीपुंभावेन सततं ग्रन्थितं कामसूत्रके ।
सर्वंत्र व्यापिनी चापि ब्रह्मस्थाननिवासिनी
प्. ४५) सौभाग्यवन्धग्रहणा विश्वयोनीरितीरितः ।
चतुर्वाङ्मयनिष्ठेयं त्रैलोक्यवशकारिणी
साक्षात्संविन्मयी देवीरूपिणी भोग्यदायिनी ।
महासंपत्प्रदा नित्या साक्षादक्षररूपिणी
षोडशाक्षररूपेण विश्वं व्याप्य व्यवस्थिता ।
नवाक्षरी महाविद्या पंच चाष्टाक्षरी तथा
एकाक्षरी दशार्णा च शतार्णा च सहस्रकम् ।
एतेषु मन्त्रवर्गेषु विश्वं व्याप्य व्यवस्थिता
चतुर्वेदेषु यत्सारं तदङ्गेषु च यत्स्मृतम् ।
पुराणे स्मृतिसारेषु यस्तु सारतमं महत्
तत्सर्वेभ्योऽधिकं सारं सारात्सारतरं परम् ।
नवनीतं यथा दध्रासारोद्धृतघृतं भवेत्
तदेवममृतं नाम देवानां प्राणधारणम् ।
तथा समस्तशास्त्रेषु वेदे तन्त्रेषु चाज्ञया
उद्धृत्य सर्वसारेभ्यो ब्रह्मणे प्रतिपादिता ।
ब्रह्मणोपि वसिष्ठाय वसिष्ठो राघवाय च
दत्तं सर्वात्मने तेन ततो मर्त्यावतारिता ।
अद्वैतादिविधा कृत्वा मुनिना ज्ञानदृष्टिना
दर्शेनात्रि शताक्षर्या मन्त्रवीर्या प्रकाशिता ।
सौम्यसिद्धिकृतानेन देवी प्रत्यङ्गिराभिधा
प्. ४६) नारदानुमतेनैव संज्ञा देव्या द्विधा कृता ।
निधाननिव चौरेभ्यो रक्षणीयो प्रयत्नतः
न देया यस्य कस्यापि देया प्राणप्रदायिने ।
निर्मलाय प्रशान्ताय प्राणेभ्योपि प्रियाय च
ज्ञाननिष्ठाय दातव्यं सारमेतन्महेश्वरि
॥ इति श्रीमहाश्रोतशिरश्छेदे करवीरयोगे परातन्त्रे क्रमे
द्वादशसाहस्रिकायां कालिक्रमनिर्णयसूत्रं सप्तम पटलः
अष्टमः पटलः
श्री देव्युवाच
नमो देवाधिदेवाय सर्वज्ञाय महात्मने ।
सृष्टिस्थित्यन्तकर्त्रे च सर्वव्यापि नमोस्तु ते
जय देव जगन्नाथ किंचिन्प्रष्टुं मम प्रभो ।
मनो मे तरलं जातो भया वक्तुं न चात्महे
प्रसीद परमेशान संशयं छेत्तुमर्हसि
श्रीसदाशिव उवाच
मा शंकां कुरु देवेशि त्वदन्यो नास्ति मत्प्रिया ।
निःशङ्कं स्वेच्छया देवि पृच्छेयं हृदि वाञ्छितम्
यं यं त्वं संशयो देवि तं तं पृच्छ यथेच्छया
श्रीदेव्युवाच
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ।
चिद्रूपिणी परादेवी कालिकात्वं गता यदा
कस्माद्द्वैधगता देव नारदानुमतेन च ।
सर्वागमविदः शूरः साधकानां वरो मुनिः
किं भेदं वै चकाराथ शिवष्टनारदो पुरा
प्. ४८) श्रीसदाशिव उवाच
धन्यासि कृतकृत्यासि श्रोतुं जानासि तत्वतः ।
एतत्सूक्ष्मानि भेदेन पुनः श्रोतुं मतिस्तव
जाता परमिका बुद्धि नमस्ते परमेश्वरि ।
सप्तादशाक्षरी विद्या विद्यायाः परमा कला
खंडस्य खंडिनी खंडखंडखंडाण्डखण्डिनी ।
खंडचक्रगता काली विद्या सप्तदशाक्षरी
फणीरूपस्य कारस्य अकुला बिन्दुभक्षिणी ।
तृधारानुहता लक्ष्मी विद्या सप्तदशी स्मृता
अकुलाकुलमध्यस्था कलास्था अकला कला ।
अकला परमानन्दा सिद्धि सप्तदशाक्षरी
रावस्थं रावमध्यस्थं रावरावनियोजिता ।
रावलीरावला ज्ञेया महासप्तादशाक्षरी
कान्तगादिच्छान्तजातं महाहल्लोल हूंकृतम् ।
रावरालकलाक्रान्तं एताः सप्तदशी कला
अक्षराक्षरयोगेन कालि शब्देन यस्थिता ।
योगेश्वरीपदं नास्ति विद्या सप्तदशाक्षरी
हहहाहहललीनी विलीनी हहने हसा ।
हाना दानापदैर्लीना विद्या सप्तदशाक्षरी
एवं सप्तदशं वर्णं वर्णीयं परमेश्वरी ।
क्रमसर्वातुरं तीव्रं निर्गुणं परमेश्वरीम्
प्. ४९) शतद्वयं तु वर्णेन नवत्यधिककीर्तितम् ।
त्रिगुणै रहिता विद्या त्रिखण्डा परिकीर्तिताः
नवषोडशवर्णानां भेदो नात्र च विद्यते ।
अनया विद्यया देवी जन्ममृत्यु विहाय च
नारदाद्या मुनिश्रेष्ठा योगिनः कपिलादयः ।
त्रिलोकविजयी भूत्वा स्वेच्छया विचरन्ति वै
अव्याहतगतिः प्राप्तत्रिकालज्ञो भवस्वता ।
शोणिताख्ये पुरे देवि हरिणं करविग्रहम्
नारदेन मुनीन्द्रेण कृष्णाय संप्रदत्तवान् ।
हरिणालंभनास्तेषु प्रयोज्य हरमोहितः
वासुदेवोपि पार्थाय रक्षार्थं प्रददौ पुरा ।
भृगोपभुक्तपुष्पेन्दु शिवयोग्यं यथा भवेत्
तद्वन्निरक्षरं वस्तु अक्षरैरपि संयुता ।
नोद्धारं लेखयेद्देवी साक्षाद्वर्णेश्वरी परा
शापो भवति वै नूनं मन्त्रहानि प्रजायते ।
विमुखा भवते काली पापानामाश्रयो भवेत्
कर्णे कर्णे तु देवेशि हृदिस्थ कुरु सर्वदा ।
गुरुवक्त्रादिनिष्क्रान्ता श्रोतमार्गे हृदि स्थिता
उदके लिखितं यद्वन्मन्त्रोद्धारं तथा भवेत् ।
भोगमोक्षप्रदां विद्यां पुस्तके नैव लेखयेत्
प्. ५०) सम्वत्सरकृतावासे ज्ञात्वा कर्म शुभाशुभम् ।
ततो मन्त्रोपदेष्टव्या यद्यात्मशुभमिच्छति
अपरीक्षितशिष्याय यस्तु मन्त्रं प्रयच्छति ।
निरये निरतं वासो भविष्यति सुदारुणे
तस्मात्सर्वप्रयत्नेन न प्रकाश्यं कदाचन ।
आस्तिकबुद्धि यस्यास्ति तस्मै देवी प्रसीदति
शङ्का या जायते तानि शङ्काया दुःखभाजनम् ।
शङ्काया सिद्धिहानिः स्यान्निर्विकल्पं समाश्रयेत्
कर्तव्यं चाप्यकर्तव्यं नैव तत्र विचारयेत् ।
मयापि वुष्णुना सार्द्धं ब्रह्मणा मुनिभिः सह
एकपात्रं गृहीत्वा तु निर्विकल्पं यथाश्रिता ।
देवगन्धर्वदैत्यादीन्रक्षपन्नगमानवाः
सप्तधातुभिः संक्लिन्नैर्मलमूत्राश्रवावहैः ।
तेषां किं तद्विचारेण निर्विकल्पं समाचरेत्
सूर्योदये किं तमसि तिष्ठन्ती भुवनादयः ।
तथा देव्याः प्रभावेण किमाचार विचारयेत्
किं बहूक्तेन देवेशि गोपनीयं प्रयत्नतः ।
सर्वसिद्धिं महेशानि गोपनीयं प्रयत्नतः
प्रकटे मृत्युमाप्नोति सिद्धिहानिश्च जायते ।
यस्मिन्मन्त्रे यदाचार तत्र धर्मस्तु तादृशः
प्. ५१) कृतार्थस्तु न जायेत् स्वर्गं वा मोक्षमेव वा ।
नाधर्मो नैव पापादि जायते तत्मेव च
किं च धर्मों महान्वापि पुण्यराशि प्रवर्द्धते ।
शक्तौ सर्वसमुत्पन्नं यत्किञ्चिज्जगतीगतम्
तस्माच्छुद्धमशुद्धं वा शक्तिब्रह्मस्वरूपकम् ।
सर्ववेदविदो विप्र सदाचारेण सुव्रत
चाण्डालत्वे परे पापे ह्यात्मा सर्वत्र वेत्तते ।
आत्मा ब्रह्म विजानीहि भ्रान्तिज्ञानं परित्यजेत्
ज्ञानमेव परं तत्वं तस्माज्ज्ञानं समाश्रय ।
ज्ञानमार्गेण सकलं विकल्पं परिवर्जयेत्
सविकल्पो महादोष पापभाक् जायते ध्रुवम् ।
शिवशक्तीमयं देहं रजः शुक्रं प्रजायते
परं ब्रह्मणि संलीनो परा वाच्या परेश्वरि ।
नीराज्यमधुमैरेयै द्रव्यभेदा भवन्ति हि
सर्वज्ञत्व वरारोहे यज्ञदोषो न विद्यते ।
अश्वमेधमहायज्ञे वाजिहत्या कथं भवेत्
जलं क्षीरं घृतं चैव मधुमैरेयमैक्षवम् ।
पौष्यं तरुभवं धान्यं संभवं तक्रनिर्मितम्
सह---रभवं चैव विविधबहुभेदतः ।
अज्ञानैः संस्कृतं सद्यो महापातककृद्भवेत्
प्. ५२) ब्रह्महत्या सुरापान स्वर्णस्तेयादिपातकात् ।
पूजनादेव निर्वर्त्य निर्विकल्प समन्त्रवित्
जलं जलचरं सर्वं घटपूर्णं समानय ।
स्थापिते दिनसप्ताहे जलं जीवसमन्वितम्
अनामिषं नास्ति किंचित्सर्वक्षीरादिकं प्रिये ।
समवृक्षसमा वह्निस्तथा सुन्दरि तिष्ठति
सर्वभूतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमैः ।
काष्ठादिमथनाद्देवी प्रकटा ब्रह्मरुच्यते
तत्काष्ठं दह्यते तेन तेन ब्रह्ममयं जगत् ।
धर्माधर्मपरित्यागात्सकलोपि परत्र च
विगतस्त्रीरजं वापि ये चास्ति सकलं प्रिये ।
विचारयेत्स्वमूत्रादि भ्रान्तिरेव हि कारणम्
अन्नं ब्रह्म विजानीयात्तेन यस्य समुद्भवम् ।
नानाजीवाश्रयं तत्तु पुरीषं केन दुष्यते
गोमूत्रं प्राशनं देवि गोमयस्यापि भक्षणम् ।
प्रायश्चित्तेषु कथितं ब्रह्महत्यादिमोचने
मलमूत्रेषु ये भ्रान्ति दोष एव न संशयः ।
स्त्रीरजः परमेशानि देहस्तेनैव जायते
कल्पितं दूषितं तेन प्राप्यते परमं पदम् ।
पुरुषस्य तु बीजं तु विन्दुरित्यभिधीयते
प्. ५३) बिन्दुस्तु परमेशानि कायोयं शिवरूपधृक् ।
शिवतत्वेन शास्थादिदूषणं नास्ति वै तदा
सूतः पवित्रं देहस्य कारणं केन रायुद्यते ।
ज्ञानमार्गेण सकलं निर्विकल्पस्य सुन्दरि
विकल्पस्य महेशानि पापभाक् जायते नरः ।
मातृगर्भस्य वीर्यन्तु शिशुरेव न संशयः
निर्विकारतया यस्परस्य नाकुत्सितो भवेत् ।
तत्तु दूषणसंयुक्तमन्यत्सर्वशुभं भवेत्
ब्रह्मानन्दमयं ज्ञानं परं ब्रह्ममयो भवेत् ।
तं ज्ञात्वा परमेशानि कथयामि वरानने
न ब्रह्मणस्तु न ब्रह्मं न क्षत्रं क्षत्रियस्तथा ।
वैश्यो न वैश्य शूद्रो न शूद्रस्तु परमेश्वरि
विचारे परमेशानि पुष्केसौ नैव पुष्कलः ।
सर्वेषां तु विजानीहि परमात्मा विनिश्चयात्
आकाशात्पतितं तोयं निम्नमार्गेन गच्छति ।
ग्राममध्यगतं सर्वं विष्टामूत्रादिषूदितम्
मृतगोस्वाहिमार्जारखराभिरुधिरान्वितम् ।
समस्तमपि देवेशि गङ्गायां मिलितं यदा
गङ्गामृतं तदेवास्ति कालुष्यं नैव तिष्ठति ।
मलमूत्रेषु ये दोषा भ्रम एव हि कारणम्
पवित्रं स्त्रीरजः प्रोक्तं यतो देहे विनिःसृतम् ।
रुधिरादिप्रधानेन प्राप्यते परमं पदम्
प्. ५४) पुरुषस्य तु यद्बीजं बिन्दुरित्यभिधीयते ।
सर्वस्य कारणं रेतो तं देह केन निन्द्यते
भगलिङ्गस्य संस्पर्शाद् गर्भादिनिःसृतः पुमान् ।
यदा तदा जन्मकाले को न स्याद् गुरुतल्पगः
पुण्यपापविनिर्मुक्तं ज्ञानमेतच्छृणु प्रिये ।
ब्रह्माण्डकोटिजननी एकैवाहैस्वरूपिणी
भुक्त्वा नानाविधैर्वाहं क्रीडार्थं सकलं जगत् ।
कुलालचक्रभेदेन घटाकाशं यथा घटे
दृश्यते परमेशानि आकाशं व्याप्य तिष्ठति ।
घटे भवति भिन्नत्वेनाकाशे भिन्न भावयेत्
यथा देहगतो जीवो धेहनाशे वरानने ।
व्याप्य तिष्ठति सर्वत्र तस्माद्ब्रह्मपदं महत्
अत एव महेशानि निर्विकल्प सदा भवेत् ।
एवं संविन्मये ज्ञानं समता सर्वजन्तुषु
सर्ववर्णेषु चाभावेत्समता नात्र संशयः ।
यथा सूर्यप्रकाशेन समत्वञ्च प्रवर्तते
दत्तमथापि चान्यस्य तमः संहरते क्षणात् ।
शोषयेत्सर्वमूत्रादिचन्दनं नैव कर्दमम्
अत एव महेशानि सन्ति सर्वमयो भवेत् ।
सिद्धिस्तु देवि विज्ञेय श्रीगुरोः कृपया प्रिये
॥ इति श्रीपरातन्त्रे परमार्थनिर्णयोऽष्टमः पटलः
नवमः पटलः
श्रीदेव्युवाच
यथा संसाधये देव प्रयोगादीञ्जगत्पते ।
साधकः संविभागेन तथा कथय शङ्कर
श्रीसदाशिव उवाच
शृणु देवि प्रवक्ष्यामि यथा संसिद्धिसूचकम् ।
येन संसाधयेद्वीरो वीराचारकुलसन्ततेः
अकृत्वा तु पुरश्चर्या प्रयोगं कर्तुमिच्छति ।
महापातककोटीनां भाजनं स भविष्यति
नातः परतरं देवि कुलमार्गस्य दूषकाः ।
तस्मात्सर्वव्ययेनापि प्राणान्तेनापि सर्वदा
कर्मणा मनसा वाचा पुरश्चरणमाचरेत् ।
वर्णलक्षजपेन्मन्त्री हविष्यासी जितेन्द्रियः
दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया ।
पूजयेद्विधिना देवी मपञ्चकपुरस्कृतः
साङ्गं सपरिवारं च तत्र न्यूनं न कारयेत् ।
दशांशं हवनं कुर्यात् विल्वपत्रैर्घृतप्लुतैः
छागमांसैस्त्रिमध्वक्तैर्देवीसन्तुष्टिहेतवे ।
तर्पयेत्सुधया देवी दशांशैर्हवनस्य वै
प्. ५६) तर्पणस्य दशांशेन मार्जनं समुदाहृतम् ।
तद्दशांशेन वै कुर्यात्कुमारीभोजनं महत्
कलौ चतुर्गुणं कुर्यात्पुरश्चर्यां तु साधकः ।
दीक्षां प्राप्य न कुर्याद्वै पुरश्चर्याविलंबनम्
आयुश्चञ्चलतां ज्ञात्वा स्वात्मश्रेयस्तु चिन्तयेत् ।
दीक्षां प्राप्य पुरश्चर्यामकृत्वा म्रियते यदि
ब्रह्मभूता भवेन्नूनं शतवर्षमनाश्रये ।
तस्मात्सर्वात्मना देवि पुरश्चर्यां समाश्रयेत्
चन्द्रसूर्योपरागे वा पुरश्चरणं कारयेत् ।
स्पर्शान्मुक्तिं तु संजप्ये पुरश्चरणमुच्यते
दशांशं सर्वकर्माणि कारयेत्पूर्वयोदितम् ।
ततः प्रयोगकर्माणि शृणु वक्षामि सांप्रतम्
वीरदीक्षा न शक्तो य संपूज्य विधिवत्पुरा ।
श्मशाने शिवदक्षे वा गृहे वा वाहने स्थिता
दीपादित्रिविधैर्नित्यमभावत्पर्वणी पुनः ।
सत्यवाक्धैर्यसंपन्नः कामक्रोधविवर्जितः
शक्तीसहायसंयुक्तो वीरः सहायकोथवा ।
सहायद्रव्यहीनाथ भिक्षाशी च निशाशमे
सहस्रैक्यं जपेच्चादौ कायशुद्ध्यर्थहेतवे ।
देवी तुष्टा हुनेच्चैव यथापूर्व मयोदितम्
ततो लक्षजपेन्मन्त्री दिवा चाहारवर्जितम् ।
भुक्तोर्द्धभावनाऽशक्ते सन्ध्यायां भुक्तमेककाम्
प्. ५७) गायत्र्या तु जपेद्युग्मं न्यस्य चैव षडङ्गकम् ।
ततो रात्रौ जपं कुर्याद्यथाशक्त्या क्रमेण तु
दशांशेन हुनेत्पश्चान्मन्त्रसंसिद्धिहेतवे ।
होमान्ते कन्यकापूजाकृतसिद्धि भवेद्ध्रुवम्
अथवा द्विगुणं जाप्य यावद्वै सप्तवासरम् ।
क्रूरादौ चाष्टमे सेकाद्धोमान्ते ग्रहशान्तिकम्
त्रिसंध्यं मध्यरात्रौ च एकद्वित्रिचतुर्दिनम् ।
वातादिशेकतो शान्तिहोमाद्रोग प्रमुच्यते
अष्टम्यां वा चतुर्दश्यां समारभ्य हरः शतं ।
दशांशहोमतः शेकान्महाशान्ति भवेत् स्फुटम्
जपेत्पञ्चशतं मन्त्री येच्छस्या त्रिशतं हुनेत् ।
होमान्ते शेकतः पश्ये पुष्टिं चैव समाप्नुयात्
त्रिशतं त्रिशतं हुत्वा जप्त्वा चैवाष्टमेहनि ।
होमान्ते सेकतो जप्त्वा पुष्टिमाप्नोति मानवः
जप्त्वा चैव तु साहस्रं हुनेत्पञ्चशतानि वै ।
नागाश्वगाष्टलोकानां पुष्टिमाप्नोति सेकतः
निर्गलाद्गलयत्राणि आत्मनो वा परस्यथ ।
त्रिसंध्यां वर्तनाद्वश्या त्रिसप्ताहान्प्रजायते
श्मशानशर्करा गृह्य मन्त्रैरष्टशतं जपेत् ।
यत्र यत्र क्षिपेद्गौरी निगदास्फोटनं भवेत्
भूतांकुशस्य दण्डेन त्रिधाभिमंत्रितान्दधान् ।
नावाशकटयन्त्राणि संभयेन्मोचयेश्लथात्
प्. ५८) दूर्वातन्तुविषक्षोभं दुःकुलं दुष्टजन्तुषु ।
वालुका सप्त जप्त्वा तु महामेघान्तु वारयेत्
राजिका सप्त जप्त्वा तु ग्रस्तभूतादिभिर्नरः ।
ताडये हृदि मुद्रायां कृत्वा स त्यज्यते ध्रुवम्
कृत्वा चातुर्थकाद्याश्च सप्त जप्त्वा------- नतु ।
अभ्यक्षणो निवर्तन्ते चित्रा गुग्गुलधूपतः
लूर्तागर्दभविस्फोटव्याधयो विविधास्तथा ।
सप्त जप्तो दक्ष सेकात्पानाले यद्विनाशयेत्
एकविंशतिवारैस्तु जलं चैवाभिमंत्रितम् ।
स्थावरं जङ्गमं वापि विषपानाद्विनाशयेत्
पुष्पान्न सिद्धि सिद्धार्थं श्मशानस्य च भस्मकम् ।
सप्त मन्त्रा हनेच्छत्रुं स शत्रुं मोहनाय च
महापात्रे धान्यपुञ्जे मद्यपूर्णघटेषु च ।
अक्षच्चं तद्भवेत्तस्य नित्यं पूजारतस्य च
अर्थकोषे विल्वगतासौ लिख्य पतकं जपेत् ।
धनदेन समं द्रव्यं न कदाचिद्विनश्यति
गजा शाले मुक्तदामे पूजयेन्पंकजान्पलैः ।
न कदाचिद्विनश्यन्ति गजा वृद्धिं प्रजायते
कृत्वा च नवकोष्टामश्वस्थानकदम्बकैः ।
स पूज्याश्वा न नश्यन्ती वृद्धिमायान्ति शोभना
सितगुञ्जा च सर्त्पाखां धामव्याघ्रवराटिका ।
सप्त जप्त्वा मुखे धार्या अस्त्रभयो न जायते
प्. ५९) वालानि सर्पखा मन्त्रा शतखेमातसंख्यया ।
कण्ठे वद्धा वृद्धि यान्ति आयुषा प्रज्ञया दृढ
पुष्यार्के श्रीफलं पक्वं सहस्रार्द्धेन मन्त्रितम् ।
तज्जलैः संचिता नारी अपुत्रो सूयते सुतः
अष्टोत्तरशतेनैव पुष्पमालाभिमन्त्रिता ।
यस्य संदीयते कण्ठे ये कयुद्धे जयी भवेत्
अहोरात्रोषितो भूत्वा अनुदिग्यो जपेत्तु यः ।
स्वार्थं वाथ परार्थं वा अपमृत्युर्विनश्यति
पुण्डरीकांशुनावत्स्याको गुह्यं दीप्तसंमुखे ।
वर्णजापात्सहस्रेण अञ्जनीयपश्यनिधिम्
चतुःपथमृदं गृह्य गृहार्द्धे पञ्चविंशति ।
जप्त्वा संक्षेपयेन्निद्रां बंधो भवति दुर्भगा
तिलतण्डुलसिद्धार्थं प्रत्येकं दशमन्त्रितम् ।
एकीकृत्य क्षिपेद्यस्तु पदं नाक्रमते रिपुः
फल्वाणिवंशिकं पञ्चविंशाधिकशताभिधम् ।
भूतायां संक्षिपेद्यत्र तत्र रोगी भवेज्जनः
लीरा चाक्षतसिद्धार्थसभस्मशतमन्त्रितम् ।
यत्र यत्र क्षिपेन्मन्त्री तत्रारोग्यं प्रवर्तते
कण्ठमात्रोदके स्थित्वा जपेत्पञ्चशतं यदि ।
वरुणेन तथा होम महावृष्टि भवेद्ध्रुवम्
शतार्द्धन्तु जपेन्मन्त्री शतार्द्धं होमयेत्प्रिये ।
वशी कुर्यान्न सन्देहो सप्ताहेन शचीपतिम्
प्. ६०) जप्त्वा पञ्चशतं मन्त्री शतार्द्धं होमयेत्पुनः ।
पुनः पञ्चशतं जप्त्वा सिद्धार्थं चाक्षतं तथा
मस्तके कण्ठवाहौ वा धृता दीव्यस्य स्तंभनम् ।
अपामार्गशतं हुत्वा तत्क्षारं यस्य दीयते
दुर्भगो जायते सत्यं प्रीतिनाशमवाप्नुयात् ।
सिद्धार्थगुग्गुल चैव एकीकृत्य शतत्रयम्
होमान्ते च महाप्रीतिं विप्रीति सप्रजायतम् ।
हैमवीजशताष्टा च होमयेत्सप्तवासरम्
उन्मत्तो जायते शीघ्रं वभ्रुलं वा घृतान्वितम् ।
सप्ताहा च निशारात्रौ जपेच्छ्रद्धासमन्वितः
दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया ।
कर्पासास्तितुषातैलं युक्तं पञ्चशतं हुनेत्
एकविंशदिने देवि शक्रस्यापि श्रियं हरेत् ।
गुरुशुक्रतृतीयायां पूजा कुंभे शतं जपेत्
हुत्वा त्रिमधुरं सेकाद्भ्रष्टश्री लभते श्रियम् ।
विष्टनप्राकृतिं कृत्वा अंगुष्ठा मस्तकावधि
छित्वा पञ्चशतं हुत्वा स्वकुलं परिनेष्यति ।
सिन्दूरमक्षता युक्तं शताष्टपरिमन्त्रितम्
कृत्वा कन्याकरे दत्वा आविष्टावेष्टकब्रुवेत् ।
राजिकाधूमजं क्षारं दशधा चाभिमन्त्रितम्
प्. ६१) महारोगप्रशमनं स्नानमात्रेण निश्चितम् ।
तैलं वाथ घृतं वाथ अष्टधा वाभिमन्त्रितम्
पानात्नाभिप्रदानाच्च प्रसूते सुखनिद्रया ।
शिरस्थाने घटं पूज्य अष्टोत्तरशतं जपेत्
हिताहितेषु कार्येषु स्वपरै वादयन्भवेत् ।
हताम्बर समादाय कृष्णमावर्त्यलक्षकम्
तथैवादृश्यकः सभ्यक्रीडते वसुधातले ।
पञ्चविंशतिसाहस्रं करे कृत्वा यवा जपेत्
जपान्ते भक्षयेत्प्राज्ञो वागीश्वरसमो भवेत् ।
लाक्षार्द्धहोमयेद्वीरः कदम्बकुसुमैर्यदा
कुण्डादुत्तिष्ठत शीघ्रं वेतालाः सिद्ध्यते तदा ।
काकिनी वीरहोमेन तुष्टा भूतपिशाचकाः
लक्षार्द्धार्द्धेन होमेन नित्यं दद्यान्यलैककाम् ।
कन्याहस्तान्तरं गृह्ण लक्षार्द्धन्तु श्मशानके
जप्त्वा भूतभविष्यञ्च वर्तमानभवन्पतिम् ।
नृगोलोचनकौ गृह्य सलाक्षाशतमन्त्रितम्
ललाटे तिलकं कृत्वा यो दध्येत्स वशो भवेत् ।
कुंकुमागुरुकर्पूररोचनानिसुमिश्रितैः
शताभिर्मंत्रितं कृत्वा तिलकं यः करिष्यति ।
रणे राजकुले द्यूते विवादे स जयी भवेत्
प्. ६२) सिद्धार्थकवराश्वेता प्रत्यूषे कलशोदरे ।
कृत्वा प्रातश्चतुर्दश्यां संपूज्य मधु संयुज्यते
मुखे प्रक्षिप्य जप्त्वा तु परवादे जयो भवेत् ।
शीवश्रपुंखिकामूलं शताष्टपरिजपितम्
शिरोवेष्टिक ये वद्धा परवादैर्निवारणम् ।
आचाराचारभेदेन तत्र देवि न विद्यते
निराचारापि साचारा तस्य देव्याः प्रभावतः ।
विशेष किं बहूक्तेन सारमेतद्वदाम्यहम्
नृचर्ममासनं कृत्वा नरपात्रे प्रपूजयेत् ।
यथा गुरुमुखोद्दिष्टनिर्विकल्पेन साधयेत्
लाक्षारसनिभेनैव हेतुना परिपूरितम् ।
फलं दत्वा तत्र मध्ये पात्रे हेतुप्रपूरिते
अष्टम्यां वा चतुर्दश्यां वा विशेषतः ।
शिवरात्र्यां तथा पूजा निशायां परिपूजयेत्
यथा श्रीचक्रपूजां वै तथा सर्वं समाचरेत् ।
बिन्दुचक्रे त्रिकोणे तु महापात्रं तु थापयेत्
पञ्चकाल्यां तु पञ्चारे चरुकं पञ्च वै क्रमात् ।
नातः परतरं भद्रे कालिकाक्रमपूजने
भोगी स्वर्गसुखं मोक्षं आज्ञासिद्धिं भवेद्ध्रुवम् ।
सत्यं सत्यं महादेवि सममेतद्ब्रवीम्यहम्
प्. ६३) अन्यथा कुरुते यस्तु हेतुवादकुतर्कतः ।
परिश्रमं केवलं तु न संसिद्धिमवाप्नुयात्
इत्येतत्ते समाख्यातं कालिकायाः कुलक्रमम् ।
विधानं परमं दिव्यं शास्त्रैः कालिक्रमागतैः
गोपनीयं प्रयत्नेन न दद्याद्यस्य कस्यचित् ।
गुरुभक्तिरतो यो हि महाशास्त्रमयी तु सा
रम्यं पुष्पफलं दृष्ट्वा वस्त्रालङ्कारमेव वा ।
स्वात्मप्रियानि भव्यानि यत्किंचिद्भुवि दुर्लभम्
गुरवे प्रथमं दत्वा नतः स्वात्मनि धारयेत् ।
गुर्वागमक्रमारीणा पूजकाय प्रदापयेत्
गुरु संतुष्टमाने तु सन्तुष्टा कालिकाक्रमम् ।
येनेदं लिख्यते शास्त्रं यस्य हस्तेषु तिष्ठते
यत्र स्थितं प्रपूज्यन्ते विधिवत्परमेश्वरीम् ।
स निर्विघ्नं तु सण्मासं यावज्जीवति चैव हि
पुस्तकं पूजितं येन इदं कालिकुलक्रमम् ।
समग्रं पूजितं तेन कालिका कालनाशिनी
आब्रह्मस्तम्बसकलं कालेन कलयेत्सदा ।
तं कालं कालिकादेवी कलयेत्सा युगे युगे
न कालीसदृशो यज्ञो न कालीसदृशी तपः ।
न कालीसदृशी धर्मो न कालीसदृशी भुवि
प्. ६४) जीवमुक्त स विज्ञेयो महापाशुपतः स वै ।
महायोगी विजानीहि कालिकापथसंश्रिता
अहं मृत्युञ्जयो देवो मङ्गलाचर तो भवेत् ।
कलौ विशेषतः काली पूजितव्या प्रयत्नतः
देवतासंयुतं विघ्नं वर्जितस्थानकं प्रिये ।
यो ज्ञाता भैरवो देव श्रोतो रुद्रसमः भवेत्
स एकधा च बहुधा साधकानां हिताय च ।
नानातन्त्रप्रवाहास्तु नानाम्नायत्वमागताः
तत्र भेदे नामभेदा एका शक्ती सहस्रधा ।
मङ्गला च महामाया चण्ड कापालिनी शिवा
चामुण्डा चर्चिका चण्डा सृष्टिस्थित्यन्तकालिनी ।
अनाख्या च महाभाषा गुह्यकाली जया परा
सिद्धिलक्ष्मी विश्वलक्ष्मी महाप्रत्यङ्गिरा स्मृता ।
सुन्दरी त्रिपुरा चारु उग्रचण्डा प्रकाशिनी
विभिन्ना बहुधा जाता नानाभेदमाश्रिता ।
एका सा बहुरूपा च जानीयाद्दिव्यचक्षुषा
स एव साधकः श्रेष्ठः सिद्धिज्ञानस्य भाजनम् ।
स एव साधकाः श्रेष्ठः सिद्धि ज्ञानस्य भाजनम् ।
अनुष्ठानरतः सर्वं सिद्धिभागी भवेद्ध्रुवम्
॥ इति श्री श्रोतशिरश्छेदे महाकरवीरयोगे परातन्त्रे नवमो पटलः
मूल पाठ: parātantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0