परशुरामकल्पसूत्र · अध्याय 1
1. खण्ड: दीक्षा-विधि
अथ्âतो दीक्षां व्याख्यास्यामः
भगवान् परम-शिव-भट्टारकः श्रुत्य्-आद्य्-अष्टादश-विद्याः सर्वाणि दर्शनानि लीलया तत्-तद्-अवस्था-ऽऽपन्नः प्रणीय, संविन्मय्या भगवत्या भैरव्या स्व्âत्म्âभिन्नया पृष्टः पञ्चभिः मुखैः पञ्च्âम्नायान् परम्âर्थ-सार-भूतान् प्रणिनाय
तत्र्âयं सिद्धान्तः
षट्त्रिंशत्-तत्त्वानि विश्वम्
शरीर-कञ्चुकितः शिवो जीवो निष्कञ्चुकः पर-शिवः
स्व-विमर्शः पुरुस्âर्थः
वर्ण्âत्मका नित्याः शब्दाः
मन्त्राणाम् अचिन्त्य-शक्तिता
संप्रदाय-विश्वासाभ्यां सर्व-सिद्धिः
विश्वास-भूयिष्ठं प्रामाण्यम्
गुरु-मन्त्र-देवता-ऽऽत्म-मनः-पवनानाम्
ऐक्य--निष्फालनाद् अन्तरात्म--वित्तिः
आनन्दं ब्रह्मणो रूपं, तच् च देहे व्यवस्थितं, तस्य्âभिव्यञ्जकाः पञ्च म-काराः, तैर् अर्चनं गुप्त्या, प्राकट्यान् निरयः
भावना-दार्ढ्याद् आज्ञा-सिद्धिः
सर्व-दर्शन्âनिन्दा
अगणनं कस्य्âपि
सच्-छिष्ये रहस्य-कथनम्
सदा विद्या-ऽनुसंहतिः
सततं शिवता-समावेशः
काम-क्रोध-लोभ-मोह-मद-मात्सर्य्âविहित-हिंसा-स्तेय-लोक-विद्विष्ट-वर्जनम्
एक-गुर्ûपास्तिर् असंशयः
सर्वत्र निष्परिग्रहता
फलं त्यक्त्वा कर्म--करणम्
अनित्य-कर्म-लोपः
म-पञ्चक्âलाभे ऽपि नित्य-क्रम-प्रत्यवमृष्टिः
निर्भयता सर्वत्र
सर्वं वेद्यं हव्यम् इन्द्रियाणि स्रुचः शक्तयो ज्वालाः स्व्âत्मा शिवः पावकः स्वयम् एव होता
निर्विषय-चिद्-विमृष्टिः फलम्
आत्म-लाभान् न परं विद्यते
सैषा शास्त्र-शैली
वेश्या इव प्रकटा वेद्âदि-विद्याः ।
सर्वेषु दर्शनेषु गुप्तेयं विद्या
तत्र सर्वथा मतिमान् दीक्षेत
दीक्षास् तिस्रः शाक्ती शाम्भवी मान्त्री चेति ।
तत्र शाक्ती शक्ति-प्रवेशनात् शाम्भवी चरण-विन्यासात्
मान्त्री मन्त्रोपदिष्टया सर्वाश् च कुर्यात्
एकैकां वेत्य् एके
सद्-गुरुः क्रमं प्रवर्त्य साङ्गं हुत्वा तरुणोल्लासवान् शिष्यम् आहूय वाससा मुखं बद्ध्वा गणपति-ललिता-श्यामा-वार्ताली-परा-पात्र-बिन्दुभिस् तम् अवोक्ष्य सिद्धान्तं श्रावयित्वा
तच्-छिरसि रक्त-शुक्ल-चरणं भावयित्वा तद्-अमृत-क्षालितं सर्व-शरीरम् अलङ्कुर्यात्
तस्य्âमूलम् आब्रह्म-बिलं प्रज्वलन्तीं प्रकाश-लहरीं ज्वलद्-अनल-निभां ध्यात्वा तद्-रश्मिभिस् तस्य पाप-पाशान् दग्ध्वा
त्रि-कटु-त्रि-फला-चतुर्-जात-तक्कोल-मदयन्ती-सहदेवी-दूर्वा-भस्म-मृत्तिका-चन्दन-कुङ्कुम-रोचना-कर्पूर-वासित-जल-पूर्णं वस्त्र-युग-वेष्टितं नूतन-कलशं बाला-षड्-अङ्गेन्âभ्यर्च्य श्री-श्यामा-वार्ताली-चक्राणि निक्षिप्य तिसृणाम् आवरण-मन्त्रैर् अभ्यर्च्य संरक्ष्य्âस्त्रेण प्रदर्श्य धेनु-योनी
शिव-युक्-सौ-वर्ण-कर्णिके स्वर-द्वन्द्व-जुष्ट-किञ्जल्क्âष्टके क च ट त प य श ल्âक्षर-वर्ग्âष्ट-युक्त्âष्ट-दले दिग्-अष्टक-स्थित ठं वं चतुर्-अश्रे मातृका-यन्त्रे शिष्यं निवेश्य तेन कुम्भ्âम्भसा तिसृभिः विद्याभिः स्नपयेत्
स-दुकूलं स्âलेपं स्âभरणं स-मालं सुप्रसन्नं शिष्यं पार्श्वे निवेश्य मातृकां तद्-अङ्गे विन्यस्य विमुक्त-मुख-कर्पटस्य तस्य हस्ते त्रीन् प्रथम-सिक्तान् चन्दनोक्षितान् द्वितीय-खण्डान् पुष्प-खण्डान् निक्षिप्य तत्त्व-मन्त्रैर् ग्रासयित्वा दक्षिण-कर्णे बालम् उपदिश्य पश्चाद् इष्ट-मनुं वदेत्
ततस् तस्य शिरसि स्व-चरणं निक्षिप्य सर्वान् मन्त्रान् सकृद् वा क्रमेण वा यथा-ऽधिकारम् उपदिश्य स्व्âङ्गेषु किम्-अप्य् अङ्गं शिष्यं स्पर्शयित्वा तद्-अङ्ग-मातृका-वर्ण्âदि द्व्य्-अक्षरं त्र्य्-अक्षरं चतुर्-अक्षरं वा आनन्द-नाथ--शब्द्âन्तं तस्य नाम दिशेत्
बालोपदिष्टेः पूर्वम् आत्मनः पादुकां षट्-तार-युक्तां दद्यात्
आचारान् अनुशिष्य, हार्द-चैतन्यम् आमृश्य, विद्या-त्रयेण तद्-अङ्गं त्रिः परिमृज्य परिरभ्य मूर्धन्य् अवघ्राय स्व्âत्म-रूपं कुर्यात्
शिष्यो ऽपि पूर्णतां भावयित्वा कृत्âर्थस् तं गुरुं यथा-शक्ति वित्तैर् उपचर्य विदित-वेदितव्यो ऽशेष-मन्त्र्âधिकारी भवेद् इति शिवम्
मूल पाठ: Paraśurāmakalpasūtra (a digest of Śrīvidyā, as system of worship of the Divine Mother) · Edition: A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) · Data entry Claudia Weber · GRETIL (Göttingen) · CC BY-NC-SA 4.0