भाषा

ENहिગુ
ग्रंथ पाठ

पराशरधर्मसंहिता · अध्याय 1

1.1

अथातो हिमशैलाग्रे देवदारुवनालये ।
व्यासम् एकाग्रम् आसीनम् अपृच्छन्न् ऋषयः पुरा ॥

1.2

मानुषाणां हितं धर्मं वर्तमाने कलौ युगे ।
शौचाचारं यथावच् च वद सत्यवतीसुत ॥

1.3

तच् छ्रुत्वा ऋषिवाक्यं तु सशिष्यो ऽग्न्यर्कसंनिभः ।
प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः ॥

1.4

न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्य् अहं ।
अस्मत्पितैव प्रष्टव्य इति व्यासः सुतो ऽब्रवीत् ॥

1.5

ततस् त ऋषयः सर्वे धर्मतत्त्वार्थकाङ्क्षिणः ।
ऋषिं व्यासं पुरस्कृत्य गता बदरिकाश्रमम् ॥

1.6

नानापुष्पलताकीर्णं फलवृष्कैर् अलंकृतम् ।
नदीप्रस्रवणोपेतं पुण्यतीर्थोपशोभितं ॥

1.7

मृगपक्षिनिनादाढ्यं देवतायतनावृतम् ।
यक्षगन्धर्वसिद्धैश् च नृत्यगीतैर् अलंकृतम् ॥

1.8

तस्मिन्न् ऋषिसभामध्ये शक्तिपुत्रं पराशरम् ।
सुखासीनं महातेजा मुनिमुख्यगणावृतम् ॥

1.9

कृताञ्जलिपुटो भूत्वा व्यासस् तु ऋषिभिः सह ।
प्रदक्षिणाभिवादैश् च स्तुतिभिः समपूजयत् ॥

1.10

ततः संतुष्टहृदयः पराशरमहामुनिः ।
आह सुस्वागतं ब्रूहीत्य् आसीनो मुनिपुङ्गवः ॥

1.11

कुशलं सम्यग् इत्य् उक्त्वा व्यासः पृच्छत्य् अनन्तरम् ।
यदि जानासि भक्तिं मे स्नेहाद् वा भक्तवत्सल ॥

1.12

धर्मं कथय मे तात अनुग्राह्यो ह्य् अहं तव ।
श्रुता मे मानवा धर्मा वासिष्ठा काश्यपास् तथा ॥

1.13

गर्गेया गौतमीयाश् च तथा चोशनसा स्मृताः ।
अत्रेर् विष्णोश् च संवर्ताद् दक्षाद् अङ्गिरसस् तथा ॥

1.14

शातातपाच् च हारीताद् याज्ञवल्क्यात् तथैव च ।
आपस्तम्बकृता धर्मा शङ्खस्य लिखितस्य च ॥

1.15

कात्यायनकृताश् चैव तथा प्राचेतसान् मुनेः ।
श्रुता ह्य् एते भवत्प्रोक्ताः श्रुत्यर्था मे न विस्मृताः ॥

1.16

अस्मिन् मन्वन्तरे धर्माः कृतत्रेतादिके युगे ।
सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे ॥

1.17

चातुर्वर्ण्यसमाचारं किंचित् साधारणं वद ।
चतुर्णाम् अपि वर्णानां कर्तव्यं धर्मकोविदैः ॥

1.18

ब्रूहि धर्मस्वरूपज्ञ सूक्ष्मं स्थूलं च विस्तरात् ।
व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः ॥

1.19

धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलं च विस्तरात् ।
शृणु पुत्र प्रवक्ष्यामि शृण्वन्तु मुनयस् तथा ॥

1.20

कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः ।
श्रुतिस्मृतिसदाचार निर्णेतारश् च सर्वदा ॥

1.21

न कश्चिद् वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः ।
तथैव धर्मान् स्मरति मनुः कल्पान्तरे ऽन्तरे ॥

1.22

अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे युगे ।
अन्ये कलियुगे नॄणां युगरूपानुसारतः ॥

1.23

तपः परं कृतयुगे त्रेतायां ज्ञानम् उच्यते ।
द्वापरे यज्ञम् एवाहुः दानम् एव कलौ युगे ॥

1.24

कृते तु मानवा धर्मास् त्रेतायां गौतमाः स्मृताः ।
द्वापरे शाङ्खलिखिताः कलौ पाराशराः स्मृताः ॥

1.25

त्यजेद् देशं कृतयुगे त्रेतायां ग्रामम् उत्सृजेत् ।
द्वापरे कुलम् एकं तु कर्तारं तु कलौ युगे ॥

1.26

कृते संभाषणाद् एव त्रेतायां स्पर्शनेन च ।
द्वापरे त्व् अन्नम् आदाय कलौ पतति कर्मणा ॥

1.27

कृते तात्कालिकः शापस् त्रेतायां दशभिर् दिनैः ।
द्वापरे चैकमासेन कलौ संवत्सरेण तु ॥

1.28

अभिगम्य कृते दानं त्रेतास्व् आहूय दीयते ।
द्वापरे याचमानाय सेवया दीयते कलौ ॥

1.29

अभिगम्योत्तमं दानम् आहूयैव तु मध्यमम् ।
अधमं याचमानाय सेवादानं तु निष्फलम् ॥

1.30

जितो धर्मो ह्य् अधर्मेण सत्यं चैवानृतेन च ।
जिताश् चोरैश् च राजानः स्त्रीभिश् च पुरुषाः कलौ ॥

1.31

सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति ।
कुमार्यश् च प्रसूयन्ते अस्मिन् कलियुगे सदा ॥

1.32

कृते त्व् अस्थिगताः प्राणास् त्रेतायां मांसम् आश्रिताः ।
द्वापरे रुधिरं चैव कलौ त्व् अन्नादिषु स्थिताः ॥

1.33

युगे युगे च ये धर्मास् तत्र तत्र च ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥

1.34

युगे युगे तु सामर्थ्यं शेषं मुनिविभाषितम् ।
पराशरेण चाप्य् उक्तं प्रायश्चित्तं विधीयते ॥

1.35

अहम् अद्यैव तत् सर्वम् अनुस्मृत्य ब्रवीमि वः ।
चातुर्वर्ण्यसमाचारं शृण्वन्तु ऋषिपुङ्गवाः ॥

1.36

पराशरमतं पुण्यं पवित्रं पापनाशनम् ।
चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥

1.37

चतुर्णाम् अपि वर्णानाम् आचारो धर्मपालकः ।
आचारभ्रष्टदेहानां भवेद् धर्मः पराङ्मुखः ॥

1.38

षट्कर्माभिरतो नित्यं देवतातिथिपूजकः ।
हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति ॥

1.39

संध्यास्नानं जपो होमो देवतातिथिपूजनम् ।
आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ॥

1.40

इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।
संप्राप्तो वैश्वदेवान्ते सो ऽतिथिः स्वर्गसंग्रमः ॥

1.41

दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् ।
अतिथिं तं विजानीयान् नातिथिः पूर्वम् आगतः ॥

1.42

नैकग्रामीणम् अतिथिं संगृह्णीत कदाचन ।
अनित्यम् आगतो यस्मात् तस्माद् अतिथिर् उच्यते ॥

1.43

अतिथिं तत्र संप्राप्तं पूजयेत् स्वागतादिना ।
अर्घ्यासनप्रदानेन पादप्रक्षालनेन च ॥

1.44

श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छन्तं चानुयानेन प्रीतिम् उत्पादयेद् गृही ॥

1.45

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
पितरस् तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥

1.46

काष्ठभारसहस्रेण घृतकुम्भशतेन च ।
अतिथिर् यस्य भग्नाशस् तस्य होमो निरर्थकः ॥

1.47

सुक्षेत्रे वापयेद् बीजं सुपात्रे निक्षिपेद् धनम् ।
सुक्षेत्रे च सुपात्रे च ह्य् उप्तं दत्तं न नश्यति ॥

1.48

न पृच्छेद् गोत्रचरणे न स्वाध्यायं श्रुतं तथा ।
हृदये कल्पयेद् देवं सर्वदेवमयो हि सः ॥

1.49

अपूर्वः सुव्रती विप्रो ह्य् अपूर्वश् चातितिहिर् यथा ।
वेदाभ्यासरतो नित्यं ताव् अपूर्वौ दिने दिने ॥

1.50

वैश्वदेवे तु संप्राप्ते भिक्षुके गृहम् आगते ।
उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥

1.51

यतिश् च ब्रह्मचारी च पक्वान्नस्वामिनाव् उभौ ।
तयोर् अन्नम् अदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥

1.52

दद्याच् च भिक्षात्रितयं परिव्राड् ब्रह्मचारिणाम् ।
इच्छया च ततो दद्याद् विभवे सत्यवारितम् ॥

1.53

यतिहस्ते जलं दद्याद् भैक्षं दद्यात् पुनर् जलम् ।
तद् भैक्ष्यं मेरुणा तुल्यं तज् जलं सागरोपमम् ॥

1.54

यस्य छत्रं हयश् चैव कुञ्जरारोहम् ऋद्धिमत् ।
ऐन्द्रं स्थानम् उपासीत तस्मात् तं न विचारयेत् ॥

1.55

वैश्वदेवकृतं पापं शक्तो भिक्षुर् व्यपोहितुम् ।
न हि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥

1.56

अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ।
सर्वे ते निष्फला ज्ञेयाः पतन्ति नरके ऽशुचौ ॥

1.57

वैश्वदेवविहीना ये आतिथ्येन बहिष्कृताः ।
सर्वे ते नरकं यान्ति काकयोनिं व्रजन्ति च ॥

1.58

पापो वा यदि चण्डालो विप्रघ्नः पितृघातकः ।
वैश्वदेवे तु संप्राप्तः सो ऽतिथिः स्वर्गसंक्रमः ॥

1.59

यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः ।
वामपादे करं न्यस्य तद् वै रक्षांसि भुञ्जते ॥

1.60

अव्रता ह्य् अनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद् राजा चोरभक्तप्रदो हि सः ॥

1.61

क्षत्रियो हि प्रजा रक्षञ् शस्त्रपाणिः प्रदण्डवान् ।
निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥

1.62

पुष्पं पुष्पं विचिनुयान् मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥

1.63

लाभकर्म तथा रत्नं गवां च परिपालनम् ।
कृषिकर्म च वाणिज्यं वैश्यवृत्तिर् उदाहृता ॥

1.64

शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते ।
अन्यथा कुरुते किंचित् तद् भवेत् तस्य निष्फलम् ॥

1.65

लवणं मधुतैलं च दधितक्रं घृतं पयः ।
न दुष्येच् छूद्रजातीनां कुर्यात् सर्वेषु विक्रयम् ॥

1.66

विक्रीणन् मध्यमांसानि ह्य् अभक्षस्य च भक्षणम् ।
कुर्वन्न् अगम्या गमनं शूद्रः पतति तत्क्षणात् ॥

1.67

कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
वेदाक्षरविचारेण शूद्रश् चाण्डालतां व्रजेत् ॥

मूल पाठ: Parāśaradharmasaṃhitā (= Parāśarasmṛti) · Edition: Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,1 Bombay Sanskrit Series 47 Vāman Śāstri Islāmpurkar The Parâśara Dharma Saṃhitâ or Parâśara Smṛiti with the commentary of Sâyaṇa Mâdhavâchârya Bombay Government Central Book Depot I,2 Bombay Sanskrit Series 48 Vāman Śāstri Islāmpurkar The Parâś · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc