भाषा

ENहिગુ
ग्रंथ पाठ

परमेश्वरसंहिता · अध्याय 17

17.1

॥ श्रीः ॥
सप्तदशोऽधयायः
शाण्डिल्यः ---
अथोत्सवविधानं तु वक्ष्यामि श्रृणु सत्तम!।
उत्सवारंभदिवसात् पूर्वस्मिन् पञ्चमेऽहनि

17.2

अंकुरारोपणं कुर्यात् पूर्वोक्तविधिना ततः।
पूर्ववद्यागसदनं कल्पयित्बा विभूषयेत्

17.3

आचार्यान् देशिकेन्द्रस्तु चतुरो वरयेद्‌गुरुः।
अथवाष्ट द्वादश वाविनीतान् संयतान् शुचीन्

17.4

तत्तत्कर्मप्रयोगेषु कुशलान् शास्त्रकोविदान्।
सोष्णीषैरुत्तरीयैश्च गन्धद्रव्यैश्च संयुतान्

17.5

यजमानेन ते सर्वे शोभनीयाः प्रयत्नतः।
केचिद्‌गुरुनियुक्तास्तु कुम्भमण्डलपूजनम्

17.6

कुर्यु, रन्ये बलिं दद्युरन्ये बिम्बगतं विभुम्।
पूजयेयुर्यथायोगं स्वयं वापि समाचरेत्

17.7

वरयेत् साधकान् वापि कञ्चकाद्यैस्तु भूषितान्।
विनयादिगुणोपेतान् कुशलान् नयकोविदान्

17.8

उत्सवारम्भदिवसात् पूर्वेद्युश्च निशामुखे।
कृताह्निको देशिकेन्द्रः प्रासादं संप्रविश्य च

17.9

मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च।
तत्पादगौ करौ कृत्वा दैवं विज्ञापयेदिदम्

17.10

"भगवन्! पुण्डरीकाक्ष! करिप्ये कौतकक्रियाम्।
महोत्सवार्थं देवेश! तदर्थं त्वं प्रसीद म्"

17.11

इति विज्ञाप्य देवेशमावाह्योत्सवकौतुके।
अर्घ्यगन्धादिनाभ्यर्च्य वासोभिर्विविधैः शु?भैः

17.12

भूषणैर्दिव्यगन्धैश्चाप्यलंकृत्य विशेषतः।
सौवर्णं यानमारोप्य शङ्खभेर्यादिसंयुतम्

17.13

छत्राद्यैश्च समायुक्तं प्रादक्षिण्यक्रमेण तु।
आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे

17.14

तत्र मुक्तावितानाद्यैरुपरिष्टाद्विभूषिते।
सर्वसाधनसंयुक्ते समारोप्य विधानतः

17.15

पूजयित्वा जगन्नाथं प्रभूतान्नं निवेद्य च।
कृत्वा संतर्पणान्तं च प्रासादं संप्रवेशयेत्

17.16

ततस्तु हेमजं पात्रं राजनं वा समाहरेत्।
शालिजैस्तण्डुलैर्विप्र! भारमात्रैः सुपूजिते

17.17

तदर्धैर्वापि तत्पादैः षडंशैर्वाष्टमांशकैः।
तदूर्ध्वे हेमजं सूत्रं क्षौमं कार्पासमेव च

17.18

पट्टजं पञ्चभिः सूत्रैश्चतुभिः सप्तर्भिस्तु वा।
कृतं न्यस्य सतांबूल तत्पात्रं विन्यसेत्ततः

17.19

गर्भाग्रमण्टपे पीठे शालिभिः परिकल्पिते।
भारमानैस्तदर्धैर्वा एवं शालिविनिर्मिते

17.20

पीठे पात्रान्तरं न्यस्येदापूपिकसमन्वितम्।
अर्घ्यादिना समभ्यर्च्य सम्यगाच्छाद्य वाससा

17.21

पात्रद्वयं दीक्षितयोर्न्यस्त्वा शिरसि देशिकः।
यानादिके वा संस्थाप्य विभवानुगुणं द्विज!

17.22

सह ताभ्यां तु पात्राभ्यां नृत्तगीतादिसंयुतम्।
प्रदक्षिणं परिभ्रम्य सर्वेष्वावरणेष्वपि

17.23

एकस्मिन् वा चतुः कृत्वा ग्रामादौ वा प्रदक्षिणम्।
नीत्वैकधा ततो विप्र! प्रविशेन्मूलमन्दिरम्

17.24

यद्वा सुदर्शनोपेतं विष्वक्‌सेनं तु वा द्विज!।
खगेशं वा हनूमन्तं विभीषणसमन्वितम्

17.25

यानादिके समारोप्य ब्रामयेत्तु यथारुचि।
गर्भगेहं प्रविश्याथ देवदेवस्य सन्निधौ

17.26

पात्रद्वयं तु विन्यस्य आधारोपरि पूजयेत्।
द्वादशार्णेन मन्त्रेण अर्घ्यगन्धादिकैस्तथा

17.27

कृत्वा पुण्याहघोषं च अर्घ्याद्यैर्देवमर्च्य च।
प्रथमं देवदेवस्य मूलमूर्तिगतस्य च

17.28

बन्धयेत् कौतुकं सूत्रैर्हेमजैः पट्टजैस्तु वा।
हेमजं सूत्रमादाय गन्धेनालिप्य बन्धयेत्

17.29

देवस्य दक्षिणे हस्ते यात्रामूर्तिगतस्य तु।
जितन्ताख्येन मन्त्रेण शंखगीतादिसंयुतम्

17.30

स्पृष्ट्वा दक्षिणहस्तेन सूत्रमस्त्रशतं जपेत्।
श्रियो वामकरे कुर्यात् पट्टसूत्रेण कौतुकम्

17.31

श्रीसूक्तमुच्चरन् वापि तन्मन्त्रेण द्विजोत्तम!।
पुष्ट्यास्तु बामहस्ते तु क्षौमसूत्रेण बन्धयेत्

17.32

कुर्यात् स्नपनबिंबस्य पट्टसूत्रेण कौतुकम्।
कौतुकं देशिकेन्द्रस्तु कार्पासेन स्वदक्षिणे

17.33

करे तु द्वादशार्णेन बन्धयेच्च ततः परम्।
देवमर्घ्यादिनाभ्यर्न्य अपूपान् विनिवेदयेत्

17.34

सर्वदोषप्रशान्त्यर्थं दर्पणआदि च दर्शयेत्।
अनुक्तमत्र यत्किंचित् तत्सर्वं प्राग्वदाचरेत्

17.35

एवं हि देवदेवस्य कृत्वा कौतुकबन्धनम्।
ततः समानयेद्देवं मण्टपे पुरतः स्थिते

17.36

ततो देवं समभ्यर्च्य यावदात्मनिवेदनम्।
पूर्वोदितक्रमेणैव ततो वै स्नानविष्टरे

17.37

स्नानासनोदितैर्भोगैः सर्वैरिष्ट्वा तु पूर्ववत्।
अलंकारासने नीत्वा पूजयेत् क्रमयोगतः

17.38

नैवेद्यमधुपर्काद्यैर्हृद्यैश्च विविधैस्ततः।
प्राग्वदिष्ट्वा ततः स्तोत्रैः स्तुवीत पुरुषोत्तमम्

17.39

ततस्तु नूपुरान्तैस्च विविधैर्हेमभूषणैः।
सद्रत्नघटितैश्चापि तथा मुक्तामयैर्द्विज!

17.40

किरीटाद्यैरलंकृत्य प्रणामैः सप्रदक्षिणैः।
यथोदितं प्रतिष्ठायां तथाशयनकल्पनम्

17.41

बिंबं चोपरि विन्यस्य शयने स्थापयेच्छुभे।
कोणेषु स्थापयेद्दीपान् पालिकाः सांकुरास्तथा

17.42

तूर्यघोषैस्तथा वेदैः स्तोत्रैः स्तुत्वा मधुद्विषम्।
जागरेण निशां नीत्वा तस्मादुत्सवकौतुकम्

17.43

प्रवेशयेद्गर्भगेहं प्रभातसमये ततः।
आचार्यः स्नानपूर्वं तु नित्यं निर्वर्त्य पूर्ववत्

17.44

यागार्थमण्डपे सर्वसंभारान् संप्रवेश्य च।
अतीते याममात्रे तु पूर्वाह्ने देशिकः स्वयम्

17.45

आचार्यैः साधकैश्चापि यजमानेन चान्वितः।
मुहूर्ते शोभने प्राप्ते प्रविश्य भगवद्‌गृहम्

17.46

अग्रतो देवदेवस्य स्थित्वा विज्ञापयेदिदम्।
"प्रसीद देवदेवेश! उत्सवः क्रियते मया

17.47

अस्मात् काललावद्यावत्पुष्पयागदिनान्तिमम्।
त्वत्प्रीतये जगन्नाथ! यद्यत् कर्म करोम्यहम्

17.48

तत्सर्वमात्मसात्कृत्वा कृपया मे प्रसीद ओम्"।
इति विज्ञाप्य देवेशं मूलमूर्तिगतं विभुम्

17.49

अर्घ्यगन्धादिनाभ्यर्च्य यात्रामूर्तिगतं तथा।
पूजयित्वा जगन्नाथं पादुके विनिवेद्य च

17.50

श्रुतिघोषैश्च पुण्याहधोषैर्मङ्गलनिस्स्वनैः।
तथा जयजयारावैः शङ्खकाहलनिस्वनैः

17.51

भेरीपटहवादित्रनृत्तगीतसमन्वितैः।
लाजानां प्रकरैः सार्धं पुष्पप्रकरमिश्रितै

17.52

मूर्तिपैर्देवदेवेशं तस्मादानीय बाह्यतः।
देवं प्रागाननं कृत्वा दर्शयित्वा समागतान्

17.53

पुरुषानुत्सवं द्रष्टुं यात्रोपकरणान्यपि।
छत्रचामरपूर्वाणि विविधानि विशेषतः

17.54

यानमारोप्य देवेशं सौवर्णप्रभयान्विते।
अर्घ्याद्यैरर्चयित्वा तु पृथुकानि निवेद्य च

17.55

वहेयुर्ब्राह्नणा यानं ध्यायन्तो विहगेश्वरम्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम्

17.56

प्रदक्षिणक्रमेणैव परिभ्रमणमाचरेत्।
व्राह्नणैर्ध्रियमाणैश्च कञ्चुकोष्णीषधारिभिः

17.57

मौलिकैरातपत्रैश्च मायूरैश्च सुशोभनैः।
हेमदण्डसमायुक्तैस्तालवृन्तैस्तथाविधैः

17.58

पट्टजैर्विंविधैस्चापि चामरैश्च सितासितैः।
केतुदण्डैश्च विविधैर्वैजयन्तीविभूषितैः

17.59

केवलै रत्नदण्डैश्च तथान्यैर्माङ्गलीयकैः।
वन्दिबृन्दैश्च विविधैर्वीणावणुस्वनैस्तथा

17.60

सुवर्णश्रृंगघोषैश्च तथाऽन्यैर्मङ्गलस्वनैः।
गणिकादेवदासीभिस्तथा नागरिकैर्जनैः

17.61

विप्रैर्वेत्रलताहस्तैः कञ्चुकोष्णीषभूषितैः।
अन्यैश्च भगवद्भक्तै र्ब्रह्णएः क्षत्रियादिभिः

17.62

राजोचितैः परिकरैरन्यैश्च विविधैः सह।
एवं कृत्वा तु देवेशं नयेदास्थानमण्टपे

17.63

समारोप्य च सौवर्णे विष्टरे जगतांपतिम्।
अर्घ्यं पाद्यं तथाचामं मन्धमाल्यैस्च धूपकम्

17.64

अथार्हणजलं स्वच्छमपूपान् पृथुकानपि।
तर्पणं नारिकेलोत्थरसमाचमनं तथा

17.65

मुखवाससमोपेतं ताम्बूलं च क्रमेण तु।
निवेद्य देवदेवाय उपहारांस्तु दर्शयेत्

17.66

ततस्तु मण्टपात्तस्मादानयेद्यागमण्टपे।
तत्र देवेशमारोप्य सौवर्णे भद्रविष्टरे

17.67

भूषणादीनि सर्वाणि तत्काले तु विसर्जयेत्।
स्नानपीठे समारोप्य नववस्त्रास्तृते विभुम्

17.68

ततो यात्राधिवासार्थमारभेन्मूलपूजनम्।
कुम्भस्थानसमीपे तु उपविश्यासने शुभे

17.69

करशुद्ध्यादिपूर्वं तु सर्वं कृत्वा विधानतः।
प्राग्वद्यजेद्वुभुं सास्त्रं कुम्भे च करकान्विते

17.70

स्थापनं तोरणादीनामर्चनं प्राग्वदाचरेत्।
अर्चनं कुमुदादीनामाचरेत्तु समाहितः

17.71

कुमुदादिद्वयोर्मध्ये गरुडं पूजयेत्ततः।
पुण्डरीकादिमध्ये च चक्रं संस्थाप्य पूजयेत्

17.72

शंखं चक्रं तथा लक्ष्मीं कुम्भं श्रीवत्समेव च।
दर्पणं स्वस्तिकं मत्स्ययुग्मं वै मंगलाष्टकम्

17.73

कुमुदादिसमीपे तु विन्यसेत् क्रमयोगतः।
सवस्त्रधान्यपीठे तु यथावित्तानुरूपतः

17.74

एकभारैर्द्विभारैर्वा शालिभिः परिकल्पिते।
प्रत्येकं तण्डुलैश्चापि तिलैर्युक्ते सवस्त्रके

17.75

अष्टमंगलवियासेप्येवं सर्वत्र कल्पयेत्।
प्राग्वत् स्थले समावाह्य मन्त्रेशं पूजयेत्ततः

17.76

स्नपनाना पुरोक्तानां पूर्वस्मिन्नवके द्विज!।
अधमोत्तमसंत्रं तु स्वनापरिकल्पयेत्

17.77

मण्डलस्येन्द्रदिग्भागे तत्पश्चाद्बिंबसन्निधिम्।
गत्वा समारभेत् पूजां यथोक्तविधिना द्विज!

17.78

सर्वं कृत्वा क्रमेणैव यावदात्मनिवेदनम्।
कृत्वा पुण्याहघोषं च कुर्यात् कौतुकबन्धनम्

17.79

स्नानासनादिभिर्भोगैरिष्ट्वा चामलकान्तिमम्।
स्नपनं विधिवत् कृत्वा शिरः प्लोतादिकं तथा

17.80

दत्वा समानयेद्देवं प्राग्भागे मण्डलस्य तु।
सौवर्णे विष्टरे तत्र यजेत् सर्वेश्वरं विभुम्

17.81

अलंकारासनाद्यैश्च भोगैः परमपावनैः।
प्रभूतमथ नैवेद्यं विनिवेद्य यथाक्रमम्

17.82

सर्वं द्विजप्रदानान्तं कृत्वा वै कुण्डसन्निधिम्।
गत्वा संस्कारपूर्वं तु सर्वमापाद्य तत्र तु

17.83

पूर्णाहुत्यवसानं तु गत्वा वै बिंबसन्निधिम्।
होमार्पणं समापाद्य संपूज्याज्यादिना ततः

17.84

पितॄणां संविभागं तु कृत्वा दत्वा बलिं क्रमात्।
विष्वक्सेनं नयेत् सांगं ततस्तस्माज्जगत्पतिम्

17.85

आस्थानमण्टपे नीत्वा समारोप्य च विष्टरे।
प्राप्तेऽपराह्नसमये कृत्वा संग्रहणं द्विज!

17.86

पूर्ववत्तु मृदादीनां कृत्वा ग्रामप्रदक्षिणम्।
पूर्वोदितविधानेन कुर्यादंकुररोपणम्

17.87

तत्काले देवदेवस्य विभवस्यानुगुण्यतः।
विधिवत् पूजनं कृत्वा प्रभूतान्नं निवेदयेत्

17.88

स्थले भस्मनिभे पूर्वे पूजयेन्निष्फलं भवेत्।
योजयित्वा तु कुम्भस्थे वर्तयेन्मण्डलं ततः

17.89

सिताद्यैः पावनै रागैस्ततः कुम्भे समर्पयेत्।
यथावद्देवदेवेशं पूजयेन्मण्डलं ततः

17.90

यथोक्तेन विधानेन गत्वा वै बिंबसन्निधिम्।
तत्र संपूजयेद्देवं महता विभवेन तु

17.91

अग्नौ सन्तर्पणं कुर्यात् यथोक्तविधिना ततः।
गत्वा विंवसमीपे तु कृत्वा होमनिवेदनम्

17.92

सर्वं तु संविभागान्तं क्रमात् कृत्वा ततः परम्।
विभवे सति वै कुर्याद्‌भूयः संपूजनं विभोः

17.93

होमान्तमखिलं कृत्वा ततस्त्वास्थानमण्टपात्।
नयेत्तु देवदेवेशं प्रासादमुखमण्डपे

17.94

प्रागाननं समारोप्य सौवर्णे भद्रविष्टरे।
यात्रार्थं देवदेवस्य कुर्यात् कौतुकबन्धनम्

17.95

आदाय चरुपूर्वाणि बलिद्रव्याणि होमयेत्।
प्रत्येकं मूलमन्त्रेण द्वाविंशत्परिसंख्यया

17.96

ध्यात्वा ध्यात्वा तु होतव्यं तत्तद्रात्र्यधिदैवतम्।
भवेत् प्रथमरात्रं तु वासुदेवाधिदैवतम्

17.97

संकर्षदैवतं विद्धि द्वितीयं तु, तृतीयकम्।
प्रद्युम्नदैवतं, चान्यदनिरुद्धाधिदैवतम्

17.98

भवेत् पञ्चमरात्रं यत् तन्नारायणदैवतम्।
हयग्रीवाधिदैवं तु षष्ठरात्रमुदाहृतम्

17.99

सप्तमं वैप्णवं त्वन्यन्नरसिंहाधिदैवतम्।
वराहदैवतं रात्रं नवमं द्विजसत्तम!

17.100

एकाहमुत्सवं विद्धि वासुदेवाधिदैवतम्।
त्र्यहं तु वासुदेवादिप्रद्युम्नान्ताधिदैवतम्

17.101

पञ्चाहं वासुदेवादिपञ्चमूर्त्यधिदैवतम्।
सप्ताहं वासुदेवादिसप्तमूर्त्यधिदैवतम्

17.102

द्वादशाहोत्सवं विप्र! केशवाद्यधिदैवतम्।
सर्वं पञ्चदशहादि वासुदेवाधिदैवतम्

17.103

दद्यात् प्रथमरात्रे तु बलिं बलिविधानवत्।
पललै रजनीचूर्णैः सलाजदधिसक्तुभिः

17.104

दिनेष्वपि च सर्वेषु द्रव्यैरेभिर्बलिं ददेत्।
यद्वा द्वितीयरात्रे तु दद्याच्च तिलतण्डुलैः

17.105

दद्यात् तृतीयरात्रौ तु धानास्त्वंबिकलाजकैः।
दद्याच्चतुर्थरात्रे तु बलिं देशिकसत्तमः

17.106

नालिकेरपयःसक्तुशालिपिष्टैर्विमिश्रितैः।
पञ्चमे तु बलिं दद्यात् पझबीजैः सहाक्षतैः

17.107

षष्ठरात्रे बलिं दद्यादपूपैश्चरुणा सह।
अथवा सर्वरात्रेषु प्रदद्याच्चरुणा सह

17.108

तत्तद्दिनोदितैर्द्रव्यैर्बलिं तु द्विजसत्तम!।
सप्तमे तु गुलान्नेन, पायसान्नेन चाष्टमे

17.109

नवमे कृसरान्नेन बलिं दद्याद्विचक्षणः।
द्वादशाहोत्सवे विप्र! माषान्नं दशमेऽहनि

17.110

शुद्धान्नमथवा विप्र! मुद्गान्नं तु परेऽहनि।
द्वादशे सर्वबलयः शुद्धान्नं शालिजं तु वा

17.111

क्षीरं दध्याज्यसंयुक्तं गुलखण्डसमन्वितम्।
इतः परं तु सर्वत्र शुद्धान्नं पायसं तु वा

17.112

एकाहादिचतुष्के तु भवेत्तत्तद्दिनोदितम्।
प्रत्येकमाढकं ग्राह्यं बलिद्रव्यं द्विजोत्तम!

17.113

तदर्धं वाऽथ पादं वा यथावित्तानुरूपतः।
एवं द्रव्याणि हुत्वा तु अलंकृत्य विशेषतः

17.114

यात्राबिंबगतं देवं विचित्रैर्वसनैस्तथा।
विचित्रैर्भूषणैश्चापि माल्यैर्नानाविधैस्तथा

17.115

मुहूर्ते शोभने प्राप्ते सर्वमंगलसंयुतम्।
त्यन्दनं वा गजं वापि यानं सौपर्णमेव वा

17.116

सपुष्पहेमप्रभया युक्तं पुष्पाद्यलंकृतम्।
सौवर्णेन विमानेन युक्तं मायूरकेन वा

17.117

समानीय तु संप्रोक्ष्य ध्यात्वा गरुडरूपिणम्।
तन्मन्त्रेण समब्यर्च्य यानमर्घ्यादिभिस्ततः

17.118

कृत्वा पुण्याहघोषं च श्रुतिघोषसमन्वितम्।
शङ्खतूर्यादिसंयुक्तं प्रादक्षिण्यक्रमेण तु

17.119

याने तत्र समारोप्य यात्रामूर्तिगतं विभुम्।
यात्रार्थं तत्र देवाय सार्घ्यं पाद्यं तथैव च

17.120

आचामं गन्धमाल्ये च दीपं धूपं तथैव च।
अर्हणं मधुपर्कं च नैवेद्यं विविधं तथा

17.121

पृथुकाद्यं पानकं च तर्पणाचमने तथा।
ताम्बूलं विनिवेद्याथ जपं कृत्वा विधानतः

17.122

अग्नौ संतर्पणं कुर्मात् तत्काले वापि होमयेत्।
बलिद्रव्याणि सर्वाणि यथाकालानुरूपतः

17.123

रथयाने विशेष तु समाकर्णय सांप्रतम्।
मुक्ताप्रपावितानैश्च सौवर्णैर्माञ्जरीगणैः

17.124

मुक्तादामसमेतैश्च विचित्रैः पुष्पदामभिः।
हैमेन च वितानेन प्रभया च विशेषतः

17.125

मध्यतो भद्रपीठेन सौवर्णेन तथैव च।
ध्वजैश्च विविधै रम्यै पताकाभिश्च सर्वतः

17.126

भूषयेद्रथयानं तु तथा गरुडकेतुना।
तत्र देवं समारोप्य पूजयेत् पूर्ववर्त्मना

17.127

आचार्याः साधकाश्चापि रथस्योर्ध्वतलस्थिताः।
तस्याधस्तात् स्थले स्थाप्याः पश्चिमे छत्रधारकाः

17.128

तत्र तत्पार्श्वतः स्थाप्यौ मायूरच्छत्रधारिणौ।
दक्षिणोत्तरपार्श्वस्थावग्रे चामरधारिणौ

17.129

सारथिस्तत्स्थले स्थाप्यस्त्वग्रतो मध्यदेशतः।
ततस्तु गरुडाद्यैश्च चक्रेण गरुडेन वा

17.130

अष्टाभिर्मंगलैश्चापि दीक्षितैर्ब्राह्नणैर्धृतैः।
अर्घ्यगन्धादिभिश्चैव सार्धं घण्टारवैस्तथा

17.131

शङ्खभेर्यादिभिश्चैव छत्रेण दीपधारकैः।
आचार्यः साधको वापि बलिं दद्याद्विधानतः

17.132

प्रासादद्वारमारभ्य ग्राममध्यान्तमेव च।
प्रथमावृतिमारभ्य सर्वेष्वावरणेष्वपि

17.133

देवयानं परिब्रम्य प्रादक्षिण्यक्रमेण तु।
रथ्यावरणपर्यन्तं तत्पश्चाद्भ्रामयेद्‌द्विज!

17.134

ग्रामे वा नगरे वापि पत्तेन वा महामते!।
बृहति स्यन्दने याने यानेनान्येन वान्तरा

17.135

भ्रामयित्वा तु तत्पश्चाद्‌बृहति स्यन्दनादिके।
देवेशं तु समारोप्य भ्रामयेद्‌ग्रामवीधिषु

17.136

देवस्य पुरतो दूराद्गच्छेयुर्बलिदायिनः।
ध्वजदण्डधराः पश्चाच्छंखकाहलधारकाः

17.137

भेरीपटहपपूर्वाणां वाद्यानां घोषणोन्मुखाः।
तत्पृष्टे गीतकाश्चापि वन्दिबृन्दास्तथैव च

17.138

सुवेषा भगवद्भक्तास्तथैव गणिकाजनाः।
दासीगणाश्च तत्पृष्टे शोणदण्डवहा जनाः

17.139

लीलांगानि विचित्राणि धारयन्तस्तथैव च।
वहन्तः पादुकादीनि ततो देवस्य पार्श्वतः

17.140

अग्रतः पृष्ठतश्चापि जनाश्चामरधारिणः।
आतपत्रांश्च विविधान् तालवृन्तांस्तथैव च

17.141

धारयन्तो द्विजाश्वापि ततो देवस्य दक्षिणे।
"कर्मारंभादि" पठतो विप्रानेकायनान् न्यसेत्

17.142

ऋक्सामपूर्वान् वामेपि पृष्ठतो वा निवेशयेत्।
सुमृष्टधूपपात्रांश्च वहन्तः पृष्ठतस्तथा

17.143

पुरतो "ऽस्त्रं" स्मरन् यायात् स्वयं विघ्नांस्तु सूदयन्।
अनेकशतसंख्यांश्च दीपानतिसमुज्ज्वलान्

17.144

धारयन्तो जना विप्र! देवस्योभयपार्श्वयोः।
गच्छेयुः पङ्‌क्तिरूपेण यावन्तो बलिवाहकाः

17.145

सर्वाणि राजचिह्नानि वहन्तो देवसन्निधौ।
गच्छेयुरन्ये भक्ताश्च ब्राह्नणाः क्षत्रियास्तथा

17.146

वैश्याः शूद्राश्च चत्वारो ह्याश्रमस्थास्तथैव च।
सर्वशास्त्रेषु कुशला भगवद्भाविनस्तथा

17.147

सेवेरन् सर्वतोदिक्कं वीक्षमाणाः परं विभुम्।
ग्रामस्यैन्द्रादियोगेन दिशासु विदिशासु च

17.148

मद्ये च कुमुदादीनां सगणानां क्रमेण तु।
पीठिकासु बलिं दद्यान्निर्मितासु पुरैव तु

17.149

कुमुदादेर्गणानां तु नामानि क्रमशः श्रृणु।
उत्कटः प्रकटश्चैव उन्मुखो विमुखस्तथा

17.150

अश्वग्रीवोऽश्ववदनः अश्वजिह्नस्तथैव च।
हस्तिवक्त्रश्च कुमुदः हस्तिपादश्च केशवः

17.151

वामनो नरकश्चापि नरो मर्दन एव च।
मन्ददृष्टिश्च कन्तुश्च तथा कन्तुकलोचनः

17.152

पटहाक्षो विशालाक्षः क्षामकः क्षमकस्तथा।
पाण्डरः पाण्डुपृष्ठश्च दुर्दिनः सुदिनस्तथा

17.153

वामदेवो महादेवो महाग्निर्मधुसूदनः।
कनकः कालकश्चैव भावनो भवनस्तथा

17.154

भानुमान् बानुवेगश्च भास्करश्चाप्यभास्करः।
विश्वसेनो विसेनश्च विष्वक्‌सेनो विसारणः

17.155

विस्तारो निस्तरश्चैव विदण्डी दण्ड एव च।
कामदः कामुकश्चापि कामभृत् कामनाशनः

17.156

पञ्चाशच्च गणा ह्येत् प्राचीं दिशमुपाश्रिताः।
एते पारिषदाः प्रोक्ताः कुमुदस्य वशानुगाः

17.157

शतं शतं गृहगणाः एकैकस्यानुयायिनः।
एषां कुमुदपूर्वाणां क्रमेण च बलिं हरेत्

17.158

पार्श्वस्थमण्डलेष्वेवं गृहेभ्यस्तु बलिं हरेत्।
देवा एते गृहाश्चापि ऐन्द्रे तु बलिभागिनः

17.159

आग्नेयो निधनस्चैव अग्निजिह्वो हुताशनः।
अग्निरूपोऽग्निवर्णश्चाप्यग्निवर्णोऽहिरेव च

17.160

अग्निवक्त्रो महावक्त्रे महासेनो महोदरः।
करालः काकजिह्वश्च काकवक्त्रोऽग्निवक्त्रकः

17.161

मण्डुर्मण्डूकवक्त्रश्च देवो देवलकस्तथा।
शर्वकः शमकश्चापि शंकुः शंकुश्रवास्तथा

17.162

मारीचो द्रोणमारीचो महिषो माहिषस्तथा।
कुम्भनासो विनासश्च कुम्भकर्णो विकर्णकः

17.163

विदारी विक्रमश्चैव मस्करी मस्करस्तथा।
सूकरः सूकरास्यश्च शशः शशमुखसस्तथा

17.164

सिंहः सिंहमुखश्चैव नरसिंहो नरस्तथा।
कालधृक्कालसूत्रश्च सूत्रकः सूत्र एव च

17.165

विनाली नालकण्ठश्च आग्नेयीं दिशमाश्रिताः।
कुमुदाक्षगणा ह्येते संयुक्ता आसुरैर्गणैः

17.166

आग्नेय्यां पीठिकायां तु कुमुदाक्षबलिं हरेत्।
धर्मो धर्मधरो धर्मो धर्मराजो धनुर्धरः

17.167

विनयः प्रश्रयश्चैव निश्रेयो निर्गुणस्तथा।
अलसः कुणपश्चैव क्रूरबाहुश्च कुंजरः

17.168

प्रांशुर्दमननिष्कोपौ निरनुक्रोशनिर्ममौ।
विभवोऽविभवश्चैव हुताशो बहुरेव च

17.169

ऊर्ध्वरक्षणसंज्ञश्च एकलः पाकलस्तथा।
कंकटः कटकश्चेव अवटः शंखचक्रिणौ

17.170

गदी खड्‌गी च शार्ङ्गी च तथा शार्ङ्गधरो मुने!।
वासुदेवोऽपि भद्रश्च केतुमान् केतुकस्तथा

17.171

क्षमी च ज्वलनश्चापि किन्नरोऽश्वत्थ एव च।
सुप्तः सुजपनश्चापि जपः पश्चिम एव च

17.172

कैक्षिकश्च तथा स्वजो बाडवश्चाक्षमी तथा।
गणाः पञ्छाशादेते तु दक्षिणां दिशमाश्रिताः

17.173

पुण्डरीक वशाह्येते पितृगृहसमन्विताः।
सर्वत्रैवं समृद्दिष्टाः पच्चाशच्छक्तिका गृहाः

17.174

प्रदद्यात् पुण्डरीकायएयैभिर्युक्ताय वै बलिम्।
निष्कृतिः प्रकृतिश्चैव सुकृतिर्विकृतिस्तथा

17.175

दारुणो दमकश्चैव रक्षको लक्षकस्तथा।
माधवो मांसकश्चैव निष्ठुरः खरभाषणः

17.176

प्रलंबो लम्बकश्चैव प्राणनः प्रणयस्तथा।
वीरसेनोंगदश्चैव विभाषश्च विभीषणः

17.177

रक्ताक्षो लोहिताक्षश्च रक्तजिह्वो विजिह्वकः।
विद्युत्केशो विशालाक्षो विक्षरो वीरहा तथा

17.178

अक्षरः प्राक्षरश्चैव कामरूपविरूपिणौ।
सर्वगः सर्वविद्गौरः संभवः प्रभवस्तथा

17.179

वारुणो वसुरेवापि विमर्दो दमनस्तथा।
वैकर्तनो विकर्ता च कपर्दी च प्रबुस्तथा

17.180

कन्दकी कन्दकश्रापि नाकी च वरुणोऽरुणः।
गणा एते च पञ्चाशन्नैरृतिं दिशमाश्रिताः

17.181

यातुगृहैस्तु संयुक्ता वामनस्यानुगा इमे।
एभिर्युक्ताय विधिना वामनाय बलिं ददेत्

17.182

वरुणो वारुणश्चैव पाशी पाशधरो गुरुः
क्षेपणः क्षोभणश्चैव नारदः सर्वदो रविः

17.183

सुमना नामनो हंसो वैकुण्ठः परमः परः।
हनुमान् वसुमान् भद्रो भद्रवः प्रभवस्तथा

17.184

महाकर्णो विकर्णश्च शशकः शलकः पिकः।
वानरो नरकश्चैव कार्ष्णिः कर्णधरोंऽशुमान्

17.185

चक्रोऽग्रश्च तथा वज्री वज्रनाभो विनाभकः।
करभः कुरभश्चैव दाक्षिणो दक्षिणः सुहृत्

17.186

दुर्गन्धः पूतिगन्धश्च तार्क्ष्यो गरुड एव च।
विरोधो रोधको रोधः कंकणस्च वृकोदरः

17.187

एते गणाश्च पञ्चाशत् पश्चिमां दिशमाश्रिताः।
शंकुकर्णवशा ह्येते पाशग्रहगणान्विताः

17.188

सहैभिः शंकुकर्णाय पीठिकायां बलिं ददेत्।
मरुर्मारुतगो रुर्वी आखुर्वायुसुतोऽनिलः

17.189

गलर्तो वर्तकः कंको मार्गणः प्रांकणोऽचलः।
बलो बलनिधिर्वीरो विरोधो रोधको विधिः

17.190

सिद्धवः सुयवश्चैव शंकरो धीरकस्तथा।
माली मालाविधिर्वस्तुः समर्थः सुमहोत्सवः

17.191

कर्कटः कटकश्चैव गन्धो गन्धवहः परः।
सिक्तकः सिक्तरोगी च सेवकः सेवनः सवः

17.192

औषधो भेषजो वापि रोगी रोगभवस्तथा।
कारणः करणः कर्ता गरवीरोऽखलस्तथा

17.193

वलश्च वाकुवाहश्च सुचारश्च तथैव च।
गणाः पश्चाशदेते तु वायव्यां दिशमाश्रिताः

17.194

सर्वनेत्रानुगान् नित्यं गन्धर्वगृहसंयुताः।
प्रदद्यात् सर्वनेत्राय एभिर्युक्ताय वै बलिम्

17.195

सोमः सोमकलः सोम्यः सामवित् सामनायकः।
सुधा सुधाता धाता च सुराष्ट्रः काष्ठकः कलिः

17.196

कालधृक्कालचक्रश्च कालकूटविषो बल।
अमृतोऽमृतनाथश्च केयूरी केबली बली

17.197

विष्णुः कृष्णपिशंगांगी रेखालेखः पिक शुकः।
लूबकश्च शुकश्चैव श्येनः श्येनमुखस्तथा

17.198

मार्जारो मरुभृद्वालो गुल्मः कणवकः कणः।
शेषो विशेष उच्छेषः कर्दमः पूतिविग्रहः

17.199

साम्बः संवत्सरश्चैव वेगी वेगधरो मरुत्।
गणाः पञ्चाशदेते तु सोमस्य दिशमाश्रिताः

17.200

सुमुखस्य वशा ह्येते यक्षग्रहसमन्विताः।
सुमुखाय बलिं दद्यादेभिः सह यथाविधि

17.201

ईशान ईश्वरो व्यापी व्यसनो विनशो बुधः।
धरो बको विशो वादः शकुनिः शकटो घटः

17.202

वृक्षः कक्षः क्षमी क्षान्तिर्मातृरोमा कपिंजलः।
ब्रह्नण्यो ब्रह्नविद्ब्रह्नी व्रह्नात्मा व्रह्नसाधनः

17.203

वेदी वेदविदुद्वन्धः शंकरः शांकरस्तथा।
धीमान् विसृष्टिरिष्टात्मा दुष्टात्मा दुष्टकर्मकृत्

17.204

विजेता विकचो वादी नोदी त्रिपक एकभुक्।
सर्वभुक सर्वगः सर्वः सर्वभंगः सनातनः

17.205

गोविन्दो गोपतिश्चेव गोप्ता चेव महेश्वरः।
पञ्चाशच्च गणा ह्येते ऐशानीं दिशमाश्रिताः

17.206

सुप्रतिष्ठवशा ह्येते पिशाचगृहसंयुताः।
सुप्रतिष्ठितसंज्ञाय एभिः सार्धं वलिं ददेत्

17.207

सिद्धो धाता विधाता च धाता चैव प्रजापतिः।
लोकेशो लोककृत् कर्ता स्रष्टा ब्रह्ना तथात्मभूः

17.208

सुतापश्च तुलश्चैव तथा वै रीतिवर्धनः।
अव्यक्तो गुणवान् गौणो गुणभुक्च तथैवहि

17.209

उद्गीतः प्रणवश्चापि हिरण्यगर्भसंज्ञितः।
विरिञ्चः पुष्करश्चैव भासनो भास एव च

17.210

विकर्णो विजयश्चैव तथा चैव रथंतरः।
छन्दो यजुस्तथा ऋक् च अथर्वा च ततः परम्

17.211

मरीचिरंगिराश्चैव पुलहः क्रतुरेव च।
वसिष्ठश्च प्रचेताश्च शलभो भीष्म एव च

17.212

हेमन्तः शिशिरश्चापि कुसुमाकरसंज्ञितः।
कलहश्च विरागिश्च अमर्षो रोषणस्तथा

17.213

शोषणश्च गतिश्चैव हर्षणो वर्धनस्तथा।
गणाः पञ्चाशदेते तु व्योमसिद्धगृहान्विताः

17.214

प्रदद्यात् पृश्निगर्भाय सार्धमेभिर्बलिं द्विज!।
मनुष्यो मानवश्चैव मण्डको मानवस्तथा

17.215

मकरश्च तथा चोरः कंपश्चैव प्रकंपनः।
अलंपटश्च पटद योजको भजको ग्रहीः

17.216

रेचको रोचको मायो धारो वारो रसश्चलः।
चापालिकः कपिर्बाणो ग्रजनो गर्जनो गुडः

17.217

तित्तरश्चटको ध्वाङ्‌क्षो बलीवर्दो महानटः।
हर्षो धर्मप्रशास्ता च शमको दुन्दुभिः शठः

17.218

कुक्षिः कुमारः कायस्थो लावकोऽप्रशुनः शुनः।
लवणो रवणो ऋद्धो राजसस्तामसोऽचलः

17.219

कल्याणो भगदत्तश्च पृथिवीतलसंस्थिताः।
गणाः पञ्चाशदेते तु भूमिग्रहसमन्विताः

17.220

महाबला दुराधर्षा मानवस्य वशानुगाः।
मानवाय बलिं दद्यादेभिर्युक्ताय साधकः

17.221

एते पञ्चाशतः प्रोक्ता गणानामधिपा द्विज!।
ऐकैकस्य भवेदेषां गणाश्चान्ये शतं शतम्

17.222

एवं पञ्चाशत्‌सहस्रं एतेषां परिचारकाः।
चत्वरे च चतुष्के च सभायां ग्राममध्यके

17.223

ग्रामद्वारेषु सर्वेषु तिष्ठन्ति विविधायुधाः।
जनानयोग्यान् बाधन्ते तथा पाषण्डिनोपि च

17.224

नद्यादिषु च देशेषु संचरन्ति यथारुचि।
दशानां कुमुदादीनां गणेशानां द्विजोत्तम!

17.225

गणानामुत्कटादीनामुदितानां क्रमेण तु।
प्रणवाद्यैर्नमोन्तैस्तु स्वैस्वैर्नामभिरेव च

17.226

अर्ध्यं गन्धं तथा माल्यं धूपं गन्धाम्बुपूर्वकम्।
बलिं भूयो जलं चापि ताम्बूलं क्रमशो ददेत्

17.227

गीतनृत्तादिकं सर्वं पूर्ववत् परिकल्पयेत्।
पञ्चाशतां सहस्राणां गणशो गणशो द्विज!

17.228

नमः पारिषदेभ्यश्च इत्युक्त्वा वलिविस्तरम्।
भूमौ प्रतिदिशं कुर्यात् सर्वशान्तिकरं शुभम्

17.229

पञ्चाशतां सहस्राणा एकैकस्य पृथक् पृथक्।
शतं शतं परिवारा एते ग्रहगणाः स्मृताः

17.230

एषां ग्रहगणानां तु परिवाराः सहस्रशः।
असंख्येयाश्चरन्तस्तु सर्वतः पृथिवीमिमाम्

17.231

संचरान्ति ग्रहगणा उक्ता दशविधा महीम्।
देवा दैत्याश्च पितरः राक्षसा नागनायकाः

17.232

गन्धर्वयक्षाः पैशाचाः सिद्धाश्चापि धरागणाः।
एते दशविधा ब्रह्नन्! दशदिक्षु स्थिताः सदा

17.233

उक्ताः पञ्चदशानां तु एतेषां नायका गणाः।
तेषां तु पूजया सर्वे सुखं यान्ति न संशयः

17.234

पीठोर्ध्वे कुमुदादीनां बलिं दद्याद्विचक्षणः।
भूतले गोमयाद्येन लेपिते वा यथारुचि

17.235

गणानामुत्कटादीनां बलिं तत्परितो ददेत्।
अन्येषामापि सर्वेषां तद्बहिर्विकिरेद्बलिम्

17.236

अमुक्तानां च सर्वेषां ग्राममद्ये बलिं क्षिपेत्।
कुमुदादिगणेशानाम् अनुकल्पे विधानतः

17.237

बलिं दत्वाऽवशिष्टानां सर्वेषामपि वै पृथक्।
नमः पारिषदेभ्यश्चेत्युक्त्वा तस्माद्बलिं द्विज!

17.238

अवशिष्टं बलिद्रव्यं ग्राममध्ये विनिक्षिपेत्।
संतर्पणार्थं भूतानां सर्वदेशनिवासिनाम्

17.239

रात्र्यामावाहनं ब्रह्नन्! ध्वजारोहणवासरे।
न कृतं कुमुदादीनां सगणानां ततोद्य तु

17.240

तेषामावाहनं कुर्याद् बलिं दद्याद्विधानतः।
ध्वजारोहदिने पूर्वं तेषामावाहने कृते

17.241

तद्वासरात् समारब्य यावदुत्सववासरम्।
पायसेन बलिं दद्याच्छुद्धान्नेनाथवा द्विज!

17.242

दिवा वापि रजन्यां वा कालयोरुभयोस्तु वा।
भवेत् कर्तुर्महान् दोष आहूतानामनर्चनात्

17.243

केनापि हेतुना यत्र वलिदानं न शक्यते।
यात्रारंभदिने तत्र तेषामावाहनं चरेत्

17.244

एवन्तु बलिसंयुक्तं देवेशं भ्रामयेद्‌द्विज!।
प्रादक्षिण्येन वै ग्राणे नगरे वापि पत्तने

17.245

यात्रायां वर्तमानायां देवदेवाय भक्तितः।
मुखवासं सताम्बूलं बहुशोऽथ निवेदयेत्

17.246

चन्दनं श्रमशान्त्यर्थं कर्पूराद्यैः सुभावितम्।
प्रदद्याद्देवदेवाय माल्यानि विविधान्यपि

17.247

शीतलं तर्पणजलं नारिकेलजलान्वितम्।
श्रमशान्तिनिमित्तानि अन्यान्यपि निवेदयेत्

17.248

दिगष्टके तु ग्रामादेस्तन्मद्ये च विशेषतः।
गीतकैर्विविधैनर्त्तैस्तन्त्रीवाद्यसमन्वितैः

17.249

शंखभेरीमृदंगाद्यैर्देवेशं परितोषयेत्।
एवं देवं परिब्राम्य ग्रामादौ बलिसंयुतम्

17.250

पुनः प्रदक्षिणं कृत्वा प्रासादावरणेषु च।
प्रासादद्वारदेशे तु देवदेवस्य भक्तितः

17.251

अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।
निवेद्य देवदेवेशं स्वस्थाने सन्निवेशयेत्

17.252

ततो यागगृहं गत्वा देशिकः सुसमाहितः।
तिलैराज्यैश्च पूर्णआन्तं यात्राहोमं समापयेत्

17.253

एवं बलिसमायुक्तमन्येषु दिवसेष्वपि।
अह्नि रात्रौ तु देवस्य परिब्रमणमारभेत्

17.254

तीर्थयात्रादिने कुर्यात् परिभ्रमणमह्नि वै।
कुर्यात् स्नपनबिंबे च स्नपनं तु दिवानिशम्

17.255

आरम्भदिनमारभ्य यावदन्तिमवासरम्।
तत्रापि चांकुरारोपं सप्तमे पञ्चमे तु वा

17.256

वासरे पूर्ववच्चापि कुर्यात् कौतुकबन्धनम्।
द्वितीये वासरे प्राप्ते देवमास्थानमण्टपे

17.257

यागागारेऽथवानीय समारोप्य च विष्टरे।
ततो यागगृहं गत्वा देशिको विधिना यजेत्

17.258

कलशे मण्डले चैव ततो गत्वा तु मण्डपम्।
पूजयेद्देवदेवेशं महता विभवेन तु

17.259

ततो यागगृहे सम्यग्‌वह्वौ सन्तर्प्य पूर्वबत्।
ततस्तस्मात् समानीय महदास्थानमण्टपम्

17.260

तत्र सम्यक् समब्यर्च्य देवं नीराजनान्तिमम्।
महाहविर्निवेद्याथापूपादिसमन्वितम्

17.261

तस्माद्देवं समानीय मण्टपे यागनिर्मिते।
तत्र देवं समब्यर्च्य अर्घ्यपाद्यादिभिस्ततः

17.262

अग्नौ सन्तर्य्य विधिवत् पूर्णाहुत्यावसानिकम्।
अलंकृतं तु देवेशं पूर्ववद्वसनादिकैः

17.263

यानादिके समारोप्य पूर्वोक्तक्रमयोगतः।
भ्रमयित्वा तु बेवेशं ग्रामे त्वन्तः प्रवेशयेत्

17.264

मण्टपे देवदेवेशमानीय स्नानविष्टरे।
समारोप्यार्घ्यपाद्यैश्च दद्यादाचमनं विभोः

17.265

गन्धं पुष्पं च धूपं च दीपं नीराजनान्तिमम्।
वेदघोषैश्च गीताद्यैरर्हणोदपुरस्सरम्

17.266

कदलीफलसंयुक्तमपूपं गुलसंयुतम्।
पानकं तर्पणजलं नालिकेररसान्वितम्

17.267

ताम्बूलं शशिसंयुक्तम् ततो यात्रार्थकल्पितम्।
वसनाद्यं परित्यज्य स्नानशाटीं निवेद्य च

17.268

तैलेनाभ्यंजनं कृत्वा समुद्वर्त्य यथाविधि।
शिरस्यामलकं दत्वा संस्नाप्य बहुभिर्जलैः

17.269

वर्णकेन समालिप्य क्षालयित्वा तु वारिणा।
समालिप्य सुगन्धेन भक्तितश्चान्दनादिना

17.270

सहस्रधारया विप्र! स्नानं कृत्वा ततः परम्।
दत्वा सवन्दनं पश्चात् शिरः प्लोतादिशाटकम्

17.271

दत्वा देवं समारोप्य तदन्यस्मिंस्तु विष्टरे।
करशुद्व्यादि सर्वं तु कृत्वान्तर्यागपश्चिमम्

17.272

ततो यथाक्रमेणैव देवं संपूजयेद् द्विज!।
यद्वा दिनोत्सवे वृत्ते देवमानीय मण्टपे

17.273

वितते भद्रपीठे तु समारोप्याथ पूर्ववत्।
अर्घ्यादि सकलं विप्र! ताम्बूलान्तं निवेद्य च

17.274

वस्त्राद्यं पूर्वक्लृप्तं यत् क्रमात् सर्वं विसृज्य च।
विनिवेद्य च वस्त्रं तु श्रमनिर्हरणार्थतः

17.275

समालब्य तु देवेशं सुगन्धैश्चन्दनादिकैः।
ततस्तु विधिना पूज्य यावदात्मनिवेदनम्

17.276

स्नानार्थं देवदेवस्य विज्ञाप्य विनिवेद्य च।
पादुके देवदेवेशं छत्राद्यैश्च समन्वितम्

17.277

तस्मादानीय पीठे तु स्नानार्थं परिकल्पिते।
समारोप्य तदाद्यैस्तु भोगैः सर्वैस्तु पूर्ववत्

17.278

इष्ट्वा ताम्बूलदानान्तं स्कन्धशाटीं निवेदयेत्।
ततस्तैलं समादाय कर्पूराद्यैः सुभावितम्

17.279

देवस्य केशानालोड्च हस्ताब्यां कंकतेन तु।
अधिवास्य सुगन्यैस्तु धूपैरभ्यंजयेत् ततः

17.280

शिरो निष्पीड्य देवस्य वहुधा च ततः परम्।
केशानाबघ्य मालाभिः सूक्ष्मेण प्लोतकेन तु

17.281

ललाटोपरि बध्वा तु तथा मुखसरोरुहे।
देवस्य तैलनिष्यन्दा नापतन्ति यथा द्विज!

17.282

ततः स्कन्धप्रदेशात्तु यावत्पादावसानकम्।
अब्यंजयेच्च तैलेन सर्वगात्राणि मर्दयेत्

17.283

तस्मिन् काले बहुविधैस्तालवृन्तैश्च चामरैः।
तत्तापशमनार्थं तु वीजयेयुः समन्ततः

17.284

ततस्तु वाससोद्वर्त्य तथा चूर्णैः पुरोदितैः।
चमषीं च खलिं दत्वा दद्यादुष्णोदकं ततः

17.285

चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम्।
ततस्त्वामलकं कल्कं गन्धद्रव्यैः सुसंस्कृतम्

17.286

दत्वा शिरसि देवस्य प्रक्षाल्य वहुभिर्जलैः।
शनैः शनैः समालोड्य ततोऽर्घ्यं विनिवेद्य च

17.287

लोध्रं कालेयकं चैव क्षालनार्घ्यसमन्वितम्।
दत्वा केशान् समाबध्य देवस्य प्लोतवाससा

17.288

अधः शटीं निवेद्याथ पात्रे कृत्वा तु वर्णकम्।
कर्पूरचूर्णसंमिश्रं सम्यग्धूपाधिवासितम्

17.289

तेन देवस्य गात्राणि लेपयेत्तु शनैः शनैः।
आकण्ठात् पादपर्यन्तं ततः प्रक्षालयेज्जलैः

17.290

अपास्याथ शिरःप्लोतम् दद्यादर्घ्यं तु मूर्धनि।
ग्रन्थिपल्लवतोयादि सर्वरत्नोदकान्तिमम्

17.291

संस्नाप्य सप्तभिस्तोयैः शिरःप्लोतं ददेद्विज!।
विनिवेद्याप्यधःशाटीं चन्दनेन सुगन्धिना

17.292

शशिचूर्णसमेतेन वासितेन हिमांबुना।
धूपाधिवासितेनापि समालभ्य विशेषतः

17.293

गात्राणि देवदेवस्य तथा वै कुंकुमेन च।
उपवीतं सोत्तरीयं दत्वा प्लोतमपास्य च

17.294

शिरस्यमथ केशांस्तु गन्धधूपाधिवासितान्।
आबद्य विविधैर्माल्यैः स्रग्दामानि निवेद्य च

17.295

ततस्तु बहुभिस्तोयैः संस्कृतैश्चन्दनादिना।
सहस्रधारया स्नानमाचरेद्देशिको विभोः

17.296

व्यापकान् चतुरो मन्त्रान् जपेदेकाग्रमानसः।
तस्मिन् काले बह्‌वृचाद्या द्बिजाः प्रागादिदिक्स्थिताः

17.297

सृक्तानि पौरुषाद्यानि अधीयीरन् समाहिताः।
शंखभेर्यादिकान् सम्यग् धोषयेयुः समन्ततः

17.298

मंगलानि च गीतानि तदा गायन्तु गायकाः।
एवं स्नाने कृते पश्चात् देशिकेन्द्रः समाहितः

17.299

पूर्णकुम्भं समादाय विभोः स्नपनमाचरेत्।
जपन् पवित्रमन्त्रं च तस्य निर्वचनं तथा

17.300

एवं स्नानं समापाद्य दद्यान्नीराजनं विभोः।
सवन्दनाख्यं तत्पश्चच्छाटकं विनिवेद्य च

17.301

कचोदकापकर्षार्थमपरं देहवारिभृत्।
अधरोत्तरवस्त्रेद्वे गन्धधूपाधिवासिते

17.302

स्कन्धप्लोतं निवेद्याथ शिरः स्नानं निवेद्य च।
चन्दनादि सुगन्दं समाल्यानि विनिवेद्य च

17.303

पादुके विनिवेद्याथ तस्मात् स्थानात् समानयेत्।
तृतीयं रत्नखचितं आसनं विनिवेद्य च

17.304

तत्रस्थं देवदेवेशमर्घ्याद्यैः पूजयेत् क्रमात्।
सर्वं होमावसानं च कृत्वा भूयः प्रपूज्य च

17.305

महाहविर्निबेद्याथ सर्वं प्राग्वत् समाचरेत्।
एवं प्रतिदिनं चैव यावत्तीर्थदिनान्तिमम्

17.306

स्नपनं पूजनं चैव विभोः कुर्यादतन्द्रितः।
नित्योत्सवादौ देवस्य स्नपनं तु समाचरेत्

17.307

दिनोत्सवसमारम्भे नाचरेत् स्नपनं विभोः।
यद्वोभयसमारम्भे कुर्यादिच्छानुरूपतः

17.308

कलशे मण्डले चैव अह्नि रात्रौ च पूजनम्।
कुर्यात् प्रतिदिनं सम्यगेकवारं यथाविधि

17.309

बिंबंस्थं देवदेवेशमह्नि रात्रौ च पूजयेत्।
एकवारं द्विवारं वा त्रिवारं वा यथारुचि

17.310

प्रासादे मूलबिंबस्थं सविशेषं यजेत् सदा।
पञ्चमे वासरे प्राप्ते पूर्वाह्ने तु दिनोत्सवम्

17.311

कृत्वा ततस्तु देवेशं महास्नपनपूर्वकम्।
महता विभवेनैव लक्ष्मीपुष्टिसमन्बितम्

17.312

महाहविर्विधानेन विभवे सति पूजयेत्।
षष्ठे दिने तु संप्राप्ते कुम्भाचनपुरस्सरम्

17.313

अग्निसंतर्पणान्तं च पूजयित्वा विधानतः।
पूर्ववद्देवदेवेशं लक्ष्मीपुष्टिसमन्वितम्

17.314

यानादिके समारोप्य प्रासादस्य बहिः व्कचित्।
उद्याने सुशुभे रम्ये पादपैर्वकुलादिभिः

17.315

प्रोच्छ्रितैर्विविधैर्वापि समन्तात् परिशोभिते।
पुष्पिताभिर्लताभिश्च सर्वतः परिभूषिते

17.316

नीत्वा देवं समारोप्य यथार्हे विष्टरे पुरः।
श्रीपुष्टिसहितं प्राग्वद्धोमान्तं परिपूजयेत्

17.317

सूक्ष्मवस्त्रदुकूलानि सरत्नाभरणान्यपि।
सुधाकस्तूरिकर्पूरदिव्यगन्धसमन्वितम्

17.318

सर्वांङ्गदेवदेवेशं मृगस्नेहेन लेपयेत्।
पुष्पापचयमाल्यादिभूषितानां विशेषतः

17.319

परस्परं वा शक्तीनां क्रीडार्थं वाप्यलंकृताम्।
गरुडारूढदेवाय पारिजातहरं स्मरन्

17.320

प्राभृतान्यपि पुष्पाणि देवदेवाय दर्शयेत्।
इदमस्मात् समायातं इत्युक्त्वा देशिकः स्वयम्

17.321

पुष्पापचयकर्मार्थमेवं कृत्वा निवेद्य च।
तत्र वाऽन्यत्र वा स्थाने कर्तुरिच्छानुरूपतः

17.322

ततस्तु देवदेवेशं लक्ष्मीपुष्टिसमन्वितम्।
पूर्ववद्भ्रामयेत् ग्रामे शेषं प्राग्वत् समाचरेत्

17.323

सप्तमे दिवसे प्राप्ते प्रासादं संप्रविश्य च।
देशिकः साधकैः सार्धं प्रणिपत्य जगद्‌गुरुम्

17.324

विज्ञापयेत्तु देवाय सम्यगुच्चस्थया गिरा।
"भगवन् पुण्डरीकाक्ष शरणागतवत्सल!

17.325

अस्मिन्नहनि कर्तव्या जलक्रीडा त्वया विभो।
शुद्धये सर्वलोकानां देवानां प्रीतयेपि च

17.326

यात्रा तदर्थं कर्तव्या मदनुग्रहकाम्यया।"
इति विज्ञाप्य देवाय प्रणम्य च पुनः पुनः

17.327

यानादौ देवमारोप्य लक्ष्मीपुष्टिसमन्वितम्।
नीत्वा मज्जनशालां तु स्नानोपकरणैर्युताम्

17.328

तद्गतान् सर्वसंभारान् दर्शायित्वा विभोस्ततः।
चन्दनाद्यैः समालभ्य देवं माल्यैर्विभूष्य च

17.329

विनिवेद्य च ताम्बूलं मुखवाससमन्वितम्।
समाहूय च तत्रस्थानाज्ञाप्य परिचारकान्

17.330

प्राप्तेऽपराह्वसमये जलक्रीडा भविष्यति।
तदर्थाः सर्वसंभाराः स्थापितव्यास्तु मण्डपे

17.331

इत्याज्ञाप्य ततस्तस्माद्‌धान्यागारं प्रविश्य च।
दर्शयित्वा तु धान्यानि विभोस्तेषां समृद्धये

17.332

उद्यानादौ समानीय विनिवेद्य च तत्स्थितान्।
उपहारान् यथायोगं तत आस्थानमण्टपे

17.333

पूजयेद्देवदेवेशं श्रीपुष्टिभ्यां समन्वितम्।
सविशेषं ततो लक्ष्मीं पुष्टिमन्तः प्रवेशयेत्

17.334

प्राग्वद्दिनोचितं सम्यक् कृत्वा पश्चात्तु मण्टपे।
देवदेवं समानीय समारोप्य च विष्टरे

17.335

अर्ध्यात् ताम्बूलपर्यन्तं सर्वं प्राग्वन्निवेद्य च।
स्नानार्थं शाटिकां वापि विनिवेद्य जगत्पतेः

17.336

मण्डपस्यैकदेशे तु शालितण्डुलनिर्मिते।
विष्टरे तु जलद्रोणीं सौवर्णीं वापि राजतीम्

17.337

ताम्रजं वा यथालाभं चतुस्त्रिद्विकरायताः।
तदर्धविस्तृतामूर्ध्वे मूले तत्पादविस्तृताम्

17.338

वृत्तायतामधोभागे प्रणालेन समन्विताम्।
उन्मत्तकुसुमाकारसदृशामथवा द्विज!

17.339

बिंबमानानुरूपां तां सर्वलक्षणसंयुताम्।
निवेश्य तां समापूर्य गालितेन जलेन तु

17.340

कुंकुमक्षोदयुक्तेन चन्दनेनान्वितेन च।
कर्पूरचूर्णयुक्तेन कुसुमैर्वासितेन च

17.341

तत्पार्श्वे देवमानीय चार्घ्याद्यैः परिपूज्य च।
भेरीपटहवादित्रशंखघोपसमन्वितम्

17.342

स्तुतिमंगलघोषैस्तु श्रुतिघोषसमन्वितम्।
सूक्तेन पौरुषेणैव विभोः कृत्वावगाहनम्

17.343

याने देवं समारोप्य सह स्नानार्द्रवाससा।
कुंकुमेन समालिप्य आपादान्मस्तकावधि

17.344

ब्रामयेत् प्रांकणं वीधीं प्रीतये वरुणस्य च।
जनानामपि सर्वेषां पवित्रीकरणाय च

17.345

तत्काले देवदेवेशं भक्त्या पश्यन्ति ये जनाः।
ते सर्वे धूतपाप्मानो भवन्ति निरुपद्रवाः

17.346

ततस्तु मण्डपे देवं विष्टरे विनिवेश्य च।
स्नानवस्त्रादि सकलमाचार्यः स्वयमाहरेत्

17.347

ततो निशोत्सवान्तं च सर्वं पूर्ववदाचरेत्।
अष्टमे दिवसे प्राप्ते आचरेन्मृगयां विभोः

17.348

प्रातरारभ्य पूर्वाह्वे देवमिष्ट्वा तु पूर्ववत्।
अश्वरत्नं समानीय सर्वालंकारशोबितम्

17.349

बहुभिस्तुरगैः सार्धं हस्तिनं वा तथाविधम्।
स्वभावं कृत्रिणं वापि तत्रारोप्य जगत्पतिम्

17.350

मृगयानुगुणैः सर्वैर्भूषणाद्यैर्विभूषितम्।
आरोप्य याने सौवर्णे श्रियं च धरणीं तथा

17.351

ताभ्यां सह परिब्राम्य ग्रामादौ पूर्ववद्विभुम्।
सैन्यैश्च विविधैः सार्धं भक्ताद्यैश्च तथैव हि

17.352

ततो ग्रामस्य बाह्ये तु क्रोशमात्रान्तरीकृते।
उद्याने वितते रम्ये विचित्रैः पादपैर्द्विज!

17.353

सरसीभिर्विचित्राभिः लताब-न्दैश्च पुष्पितैः।
शोभिते च समानीय देवं तन्मध्यसंस्थिते

17.354

मण्टपे तु वितानाद्यैः सर्वतः परिभूषिते।
सौवर्णे विष्टरे रम्ये समारोप्य जगत्पतिम्

17.355

श्रीभूमिसहितं पश्चाच्छीतलैर्व्यजनानिलैः।
चन्दनाद्यैः सुगन्धैश्च हिमतोयैस्च शीतलैः

17.356

स्वेदशान्तिं समापाद्य विशेषाद्राजराजवत्।
ततोऽर्घ्यादिबिरभ्यर्च्य दघ्यन्नं विनिवेदयेत्

17.357

मरीचिचूर्णसंमिश्रं जीरकादिसन्वितम्।
गुलखण्डयुतं शुद्धं पानकानि बहूनि च

17.358

कदलीफलपूर्वाणि मधुराणि फलान्यपि।
सर्वं ताम्बूलदानान्तं क्रमात् कृत्वा ततः परम्

17.359

स्नानपूर्वं समभ्यर्च्य महता विभवेन तु।
यथाक्रमेण देवेशं लक्ष्मीपुष्टिसमन्वितम्

17.360

निवेद्य च प्रमूतान्नमलंकृत्य विशेषतः।
तुरगादौ समारोप्य अस्तं याते दिवाकरे

17.361

दीपानेकशतैर्युक्तं ग्रामं नीत्वा प्रदक्षिणम्।
देवं गेहे प्रवेश्याथ प्राग्वत् कुर्यान्निशोत्सवम्

17.362

तद्रात्रौ तीर्थबिंबस्य कुर्यात् कौतुकबन्धनम्।
आचार्यो यजमानेन साधकैश्च समन्वितः

17.363

प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः।
दण्डवत्प्रणिपातेन इमं मन्त्रमुदीरयेत्

17.364

"तीर्थयात्रा त्वया देव! श्वः कर्तव्या सुरेश्वर!।
तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि"

17.365

इति विज्ञाप्य देवस्य तीर्थबिंबं समानयेत्।
तदलाभे मुनिश्रेष्ठ! नित्यस्नपनकौतुकम्

17.366

अलाभे त्वस्य बिंबस्य बलिबिंबं तु वा द्विज!।
मूलिबंबस्य पुरतः संस्थाप्यावाह्य पूज्य च

17.367

प्रासादाब्यन्तरे कुर्याद्‌वेदिकां व्रीहिभिः शुभाम्।
हस्तमात्रोन्नतायामविस्तारां पझसन्निभाम्

17.368

वासोभिर्वेष्टयित्वा तां चतुरश्रायतां ततः।
पालिकाः सांकुरा बाह्ये स्थापयेत् ककुभष्टके

17.369

तद्बहिर्घटिकास्तद्वच्छरावांस्तद्वहिस्तथा।
तद्‌र्ध्वे देवमारोप्य घृतारोपणमाचरेत्

17.370

देवस्य पुरतः स्थाप्य पात्रं लोहविनिर्मितम्।
घृतेनापूर्य तत् पात्रं प्राग्वत् संस्कृत्य देशिकः

17.371

उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः।
घृते निमज्य चाग्राणि देवपादेषु सेचयेत्

17.372

ततस्तु कण्ठपार्श्वे तु ततो देवस्य भूर्धनि।
पाणिप्रक्षालनं कुर्यादन्तरान्तरयोगतः

17.373

दूर्वाभेदस्तथा प्रोक्तो घृतारोपणकर्मणि।
हस्तव्यत्यासमार्गेण घृतारोपणमाचरेत्

17.374

पादे "सुमंगलं चे" ति कठे भद्रमिति द्विज!।
"सुशोभनं" तु शिरसि क्रमान्मन्त्रः प्रतिष्ठितः

17.375

यद्वा सर्वस्य मन्त्रस्य द्वादशाक्षरसंज्ञितः।
अक्षतस्यार्पणं कृत्वा कुर्यात् कौतुकबन्धनम्

17.376

ऊर्णामयेन सूत्रेण क्षौमसूत्रेण तेन च।
प्राग्विधानेन तत्पस्चाच्चामराद्यैश्च वीजयेत्

17.377

दर्शयेद्दर्पणं छत्रमन्यानि मंगलान्यपि।
निवेद्य पायसं पश्चाद्‌विभवानुगुणं ततः

17.378

शिरसा शाययित्वा तु देवेशं शयनोपरि।
गुग्गुल्वगरुधूपैश्च धूपयित्वा समन्ततः

17.379

अनिर्वाणैः प्रदीपैस्तु रात्रिशेषं समापयेत्।
आचार्यः प्रातरुथाय कृत्वा स्नानादिकं ततः

17.380

देवमुत्सवबिंबस्थं प्राग्वत्पूज्य विधानतः।
पूर्वाह्वे वाथ मध्याह्वे कृत्वा पूर्वं रथोत्सवम्

17.381

कारयेत्तीर्थपूर्वाह्ने अथ मध्याह्वपूर्ववत्।
देवं गेहे समानीय स्वस्थाने सन्निवेशयेत्

17.382

देवोपयुक्तमाल्यानि चन्दनादीन्यपि द्विज!।
प्रदद्याद्देशिकेन्द्राय सोपि तैः परिभूषितः

17.383

कारयेत्तीर्थयात्रां चदेवेशस्य विधानतः।
तीर्थबिंबगतं देवं शयनात् प्रतिबोध्य च

17.384

पूजयित्वार्घ्यगन्धाद्यैरानीयास्थानमण्टपे।
पूजयित्वार्घ्यपाद्याद्यैर्धृतारोपं तु पूर्ववत्

17.385

कृत्वा पुरोदितानां तु स्नपनानां चतुर्थके।
नवके स्नपनं स्थाष्य मद्यमद्यमसंज्ञितत्

17.386

पुरतः स्थण्डिलं कृत्वोलूखलं तत्र विन्यसेत्।
मुसलानि चतुर्दिक्षु विन्यस्योलूखलोपरि

17.387

मुसरोलूखले गृह्य दूर्वाकाण्डानि बन्धयेत्।
नववस्त्रेण संवेष्ट्य तत्र चूर्णं विनिक्षिपेत्

17.388

सौवर्णरजनीचूर्णसंमिश्रं गन्धसंयुतम्।
चतुर्भिर्वैष्णवैर्विप्रैर्वैष्णवीभिस्तु वा द्विज!

17.390

कारयेदवघातं तु गीयमानेपि मंगले।
स्थापितस्नपनाद्विप्र! प्राग्भागे वा तदुत्तरे ॥ 389 ।
तण्डुलैः पीठिकां कृत्वा तत्र कुंभं निवेश्य च।
ससूत्रं तत्र निक्षिष्य चूर्णं वस्त्रेण वेष्ट्य च

17.391

अथवा पञ्च नव वा कलशांश्चूर्णपूरितान्।
अर्चयित्वा तु मूलेन ततः संस्नापयेद्विभुम्

17.392

तैलेनाभ्यज्य देवेशं समुद्वर्त्य च पूर्ववत्।
ततः संस्नाप्य विधिना घृताद्यं मंगलान्तिमम्

17.393

सहस्रधारया स्नानं कृत्वा संशुद्धवारिणा।
अधरोत्तरवस्त्राभ्यां नवाभ्यां परिधाप्य च

17.394

सूक्ष्माभ्यां धूपिताभ्यां च ततो देवं समर्च्य च।
अर्घ्यालभनमाल्याद्यैर्हेमचूर्णादिपूरितम्

17.395

कुम्भमादाय तेनैव चूर्णैः समभिषेचयेत्।
अर्घ्याद्यैः पूजयित्वा तु बिंबं तु परिमृज्य च

17.396

भुक्रावशिष्टं तच्चूर्णं भक्तानां मूर्ध्नि दापयेत्।
गंगास्नानफलं चूर्णं सर्वपापप्रणाशनम्

17.397

क्रीडया वापि तच्चूर्णं शिरसा धारयेन्नरः।
तस्य देहगतं पापं तत्क्षणादेव नश्यति

17.398

ततो देवं समभ्यर्च्य परमान्नं निवेद्य च।
मुद्गान्नं चापि शुद्धान्नं तदन्यत्र विधानतः

17.399

सर्वं द्विजप्रदानान्तं कृत्वा देशिकसत्तमः।
यात्रावसानात् प्रागेव सर्वं चोक्तं समाचरेत्

17.400

ततस्तु रजनीपिण्डं प्रबूतं कुंकुमान्वितम्।
निवेद्य देवदेवाय दद्याद्वै देशिकोत्तमः

17.401

आचार्येभ्यः साधकेभ्यस्तथा चान्येभ्य एव च।
तत्तत्कर्म नियुक्तेब्यस्तेऽपि पिण्डेन तेन वै

17.402

आलब्य सर्वगात्राणि तथा संहृष्टमानसाः।
उपतिष्टन्तु देवेशं प्रणामैः सप्रदक्षिणैः

17.403

यात्रावाहनमानीय रथाद्येकतमं तु यत्।
तत्र देवं समारोप्य ततोऽन्यस्मिंस्तु यानके

17.404

आरोप्य चक्रं तार्क्ष्यं वा हनुमन्तं विभीषणम्।
छत्रचामरशङ्खादिसर्वसाधनसंयुतम्

17.405

प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेष्वपि।
तीर्थपार्श्वे समासाद्य बिंबं पीठे निवेश्य च

17.406

प्रभया पुष्पया चैव वितानाद्यैरलंकृते।
प्रणामं दण्डवत् कृत्वा पुष्पांजलिपुरस्सरम्

17.407

ततः संस्थाप्य देवेशं साधकस्यैव मूर्धनि।
भूषितस्य च वस्त्राद्यैस्तीर्थमासाद्य तत्र तु

17.408

नाभिदघ्ने जले स्थित्वा देशिकेन्द्रः समाहितः।
तत्रीर्थे सर्वतीर्थानि समावाह्य द्विजोत्तम!

17.409

कृत्वा पुण्याहघोषं च अर्घ्याद्यैः संप्रपूज्य च।
मुहूर्ते शोभने प्राप्ते रवौ मध्यन्दिनं गते

17.410

शंखतूर्यादिसंयुक्तं देवमादाय देशिकः।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव

17.411

विधृयान्मध्यभागे तु पाणिना दक्षिणेन तु।
जपन् वै मूलमन्त्रं तु निमज्जेत् सह तेन वै

17.412

तार्क्ष्यादिमूर्तिभिः सार्धमाचार्यः साधकैस्तथा।
स्वयंव्यक्तादिके स्थाने मध्याह्ने वाऽपराह्नके

17.413

रजन्यां पूर्वभागे वा कुर्यादवभृथं विभोः।
मुहूर्तातिक्रमप्राप्तदोषस्तत्र न विद्यते

17.414

जलद्रोण्यादिके पात्रे गन्धतोयैः सुपूरिते।
मुहूर्ते मज्जयेद्देवं अर्ग्याद्यैः संप्रपूज्य च

17.415

तत्काले ये नराः स्नानं कुर्वन्ति विमलाशयाः।
विमुक्तकल्मषास्ते वै प्राप्नुयुः परमां गतिम्

17.416

ततस्तीरे समारोप्य विष्टरे हेमनिर्मिते।
शाटकद्वितयं दत्वा स्नानवस्त्रे विसृज्य च

17.417

देशिकः स्वयमादाय ते वस्त्रे मूर्घ्नि धारयेत्।
अर्ध्याद्यैस्तु समभ्यर्च्य अलंकृत्य बिशेषतः

17.418

याने देवं समारोप्य प्रासादं प्रविशेत् ततः।
सुस्नाता धौतवसनास्तत्काले गणिकाजनाः

17.419

जलेनापूरितं पात्रं दौपपात्रं च दर्पणम्।
धारयन्त्योऽग्रतो विप्र! गच्छेयुर्मंगलार्थतः

17.420

अनुधारापदेनैव प्रादक्षिण्यक्रमेण तु।
द्वितीयावरणद्वारं समासाद्याथवा द्विज!

17.421

प्रथमावरणद्वारमन्तः कृत्वा तु मण्डलम्।
सुवृत्तं गोमयेनैव सुधाचूर्णैरलंकृतम्

17.422

आशासु दीपान् संस्थाप्य पालिका विदिशासु च।
संपूर्णमंभसा कुंभं स्रगाद्यैः परिभूषितम्

17.423

आधारस्योपरि स्थाप्य मध्ये पुष्पेण पूज्य च।
सकृत् प्रणवजप्तेन ततो वै तज्जलेन तु

17.424

अर्चयेद्देवदेवेशं पुष्पांजलिपुरस्सरम्।
प्रासादद्वारदेशे तु अर्घ्याद्यैः संप्रपूज्य च

17.425

देवं निवेश्य स्वस्थाने मूलबिंबे विसर्जयेत्।
पश्चादुत्सवबिंबं तु स्नानाद्यैस्तु विधानतः

17.426

पूर्ववत् पूजयेद्विप्र! परिभ्रमणवर्जितम्।
दशमेऽहनि संप्राप्ते देशिकेन्द्रः समाहितः

17.427

प्रातस्नानादिकं कृत्वा वसनाद्यैर्विभूषितः।
देशिकैः साधकैः सार्धं यजमानेन चैव हि

17.428

प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः।
देवेशस्याग्रतः स्थित्वा विज्ञापनमथाचरेत्

17.429

"भगवन्! पुण्डरीकाक्ष! शरणागतवत्सल!।
ध्वजार्थांकुरमारम्य उत्सवावभृथान्तिमम्

17.430

यन्मयानुष्टितं कर्म तव संप्रीतये विभो!।
तथाऽन्यैर्मदनुज्ञातैर्देशिकैश्चापि यत् कृतम्

17.431

साधकैश्च तथान्यैश्च विविधैः परिचारकैः।
तत्तत्संपूरणार्थं च न्यूनाधिक्योपशान्तये

17.432

त्वामद्य वासरे यष्टुं चतुःस्थानस्थितं विभो!।
प्रवृत्तामनुजानीहि मदनुग्रहकाम्यया"

17.433

इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च।
देवमुत्सवबिंबस्थं यानमारोप्य देशिकः

17.434

आस्थानमण्टपं नीत्वा तत्र वै दर्भविष्टरे।
देवमारोप्य तत्पश्चात् वेदाध्ययनतत्परान्

17.435

इतिहासपुराणज्ञान् तथा मंगलगायकान्।
नर्तकांश्च यथायोगं विनोदार्थं जगत्पतेः

17.436

तत्तत्स्थाने समावेश्य ततो देशिकसत्तमः।
तस्मिन् वा मण्टपे न्यस्य विस्तारस्यानुरूपतः

17.437

यागगेहोदितैः सर्वैर्वितानाद्यैरलंकृते।
तन्मध्यदेशमाश्रित्य कुर्याच्चक्राब्जमण्डलम्

17.438

मातुलंगसमाकारैर्द्वादशारैः परिष्कृतम्।
सपीठद्वारमार्गाद्यं पञ्चरंगपुरान्वितम्

17.439

अथवा भूषितं विप्र! पीठेन सपुरेण तु।
पञ्चपुष्पोज्वलेनैव केवलेन पुरेण वा

17.440

यथाकालोद्भवै रम्यैस्तत्तद्वर्णसमन्वितैः।
स्वयं भगवता प्रोक्तः पौष्करे त्वस्य विस्तरः

17.441

एवं सर्वं समापाद्य साधकैश्चक्रपंकजम्।
संप्राप्य साधकैः सार्धं देशिको देवसन्निधिम्

17.442

विज्ञाप्य देवमानीय पश्चिमे मण्डपस्य तु।
भद्रासने तु सौवर्णे मसूरकवरान्विते

17.443

शुभास्तरणसंयुक्ते प्राङमुखं विवनिवेश्य च।
यागपूर्वोक्तमार्गेण कलशे चक्रपंकजे

17.444

गीतं नृत्तं च वाद्यं च चतुर्दिग्वेदघोषितम्।
बिंबे च पूजनं कुर्याद्‌देशिकः सुसमाहितः

17.445

सविशेषं यथावद्वै द्विजदानावसानकम्।
तत्काले तु विशेषेण गुरोः संमानमाचरेत्

17.446

वसनैश्च दुकूलाद्यैर्देवस्य प्राङ्‌निवेदितैः।
विविधैः स्रग्वरैश्चापि सुगन्धैश्चन्दनादिकैः

17.447

आचार्योपि समादाय दुकूलाद्यमनुत्तमम्।
बद्ध्वा चोष्णीषवत् स्वस्मिन् शिरसि द्विजसत्तम!

17.448

माल्यादि च यथायोगं धारयन् प्रणिपत्य च।
मुहुर्मुहुर्देवदेवं ततो यागनिकेतनम्

17.449

संप्राप्य तत्र वैकुण्डे होमं कृत्वा यथापुरम्।
गत्वा देवसमीपं तु कृत्वा होमसमर्पणम्

17.450

संविभागं पितॄणां च यथावत् प्रतिपाद्य च।
कुमुदादींश्च चक्रं च खगेशं गणनायकम्

17.451

इन्द्रादिलोकपालानां दापयित्वा बलिं क्रमात्।
ततश्चैकायनीं शाखां त्रयीं चाथर्वसंयुताम्

17.452

इतिहासं पुराणं च वैष्णवं स्तोत्रमद्भुतम्।
गीतं नृत्तं च वाद्यं च शंखभेर्यादिकांस्तथा

17.453

वन्दिमंगलशब्दांश्च तथा मंगलगीतकम्।
श्रावयित्वा यथायोगं दर्शयित्वा विभोस्ततः

17.454

कुम्भस्थं मण्डलस्थं च देवं हृदि विसृज्य च।
विष्वक्सेनं समभ्यर्च्य प्राग्वन्मण्डलमध्यतः

17.455

ततो देवं समारोप्य यानादौ हेमनिर्मिते।
सर्वमंगलसंयुक्तं सर्वाण्यावरणानि च

17.456

परिब्रम्य च बाह्यादि त्वन्तरावरणान्तिकम्।
प्रथमावरणे वापि द्वितीयावरणेपि च

17.457

मण्डपे देवदेवेशं विष्टरे विनिवेशयेत्।
तत्काले यजमानस्तु अलंकृत्य तु देशिकम्

17.458

वस्त्रस्रक्‌चन्दनाद्यैश्च समारोप्य च यानके।
शंखकाहलवादित्रभेरीपटहसंयुतम्

17.459

छत्रदीपसमायुक्तं गायकादिसमन्वितम्।
देशिकं देववत् स्मृत्वा स्वगृहे संप्रवेशयेत्

17.460

अथानुयागमाचार्यः कुर्याद्वन्धुसमन्वितः।
अस्तंगते दिनकरे देवं संपूज्य वै क्रमात्

17.461

गुलखंडादिसंयुक्तं मुद्गान्नं तु निवेदयेत्।
ततस्तु भगवद्भक्ताः देशान्तरनिवासिनः

17.462

देवस्योत्सवसेवार्थं ये नराः पूर्वमागताः।
तेषां स्वदेशयानार्थं देवानुज्ञापुरस्सरम्

17.463

कृत्वा विसर्जनं पश्चात् देवं यागनिकेतने।
नीत्वा तत्र समावेश्य विष्टरे शुभसंस्तरे

17.464

कुम्भपूर्वं क्रमेणैव चतुः स्थानस्थितं विभुम्।
यथाविधि समभ्यर्च्य प्रभूतान्नसमन्वितम्

17.465

उत्सवान्तोदितं कृत्वा स्नपनं चापि कल्पयेत्।
यात्राबिंबे द्विजश्रेष्ठ! बिंबे वा स्नपनार्थतः

17.466

एवं क्रमेण संपूज्य प्रदाप्य विधिना बलिम्।
कुम्भमण्डलकुण्डस्थान् मन्त्रेशान् मन्त्रवित्तमः

17.467

विसर्जयेद्यथावच्चयथोक्तविधिना ततः।
विष्वक्सेनं यजेत् पश्चाद्देवमन्तः प्रवेशयेत्

17.468

अर्घ्यगन्धादिनाभ्यर्च्य मूलबिंबे विसर्जयेत्।
ग्रामे चावाहितान् विप्र! कुमुदादीन् गणान्वितान्

17.469

सन्तोष्य बलिदानेन सविशेषं विसर्जयेत्।
ध्वजस्थानं समासाद्य कुम्भं संस्थाप्य पूर्ववत्

17.470

पतत्रीशं समभ्यर्च्य ध्वजस्थं च विशेषतः।
महाहविर्निवेद्याथ ध्वजस्थं विहगेश्वरम्

17.471

विसर्जयित्वा स्वहृदि कुम्भस्थे वा खगेश्वरे।
ततोऽवरोहयेद्विप्र ध्वजं पूर्वक्रमेण तु

17.472

कुम्भस्थं विहगेशं तु स्वस्मिन् हृदि विसर्जयेत्।
यद्वा गरुडगेहं तु गत्वा कुम्भस्थवारिणा

17.473

संप्रोक्ष्य गरुडं तत्र कुम्भस्थं तु विसर्जयेत्।
ध्वजदण्डं ध्वजपटं तद्यष्टिं तत्प्रपां तथा

17.474

आचार्यः स्वयमादद्याद् यागोपकरणान्यपि।
अन्यथा चेन्महान् दोषः कर्तुर्देशाधिपस्य च

17.475

निष्फलं स्यात् कृतं कर्म विहगेशोपि कुप्यति।
यागकर्मणि पर्याप्ते तद्रात्रौ वाऽपरेहनि

17.476

यजमानो गुरुं हैमैर्भूषणैः कटकादिभिः।
वसनैर्गन्धपुष्पाद्यैः अलंकृत्याभिपूज्य च

17.477

उत्तमां दक्षिणां दद्यात् खर्णनिष्कशतान्विताम्।
ततोधिकां तु वा दद्यात् विभवस्यानुगुण्यतः

17.478

तदर्धं मद्यमं विद्धि तत्पादं ह्यधमं भवेत्।
यथावित्तानुरूपं तु यथाश्रद्धं तु वा ददेत्

17.479

तदर्धं ऋत्विजां दद्यात् तदर्धं परिचारके।
अन्यान् गायकपूर्वांस्तु यथावित्तानुसारतः

17.480

यागस्तु दक्षिणाहीनो निष्फलः स्यान्न संशयः।
तस्माद्वित्तानुगुण्येन देया चाल्पापि दक्षिणा

17.481

एवं तु गदितः सम्यक् यात्राख्योत्सवविस्तरः।
तत्र यो यो विशेषस्तु तं तमाकर्णयाधुना

17.482

देशिके साधके वापि एकस्मिन्नेव कल्पिते।
स एव सकलं कर्म कुर्यात्‌ पूर्वोदितं क्रमात्

17.483

बहुष्वेतेषु क्लृप्तेषु त्वेकः कुर्याद्यथाक्रमम्।
ध्वजांकुरं ध्वजारोपं उत्सवार्थांकुरार्पणम्

17.484

उत्सवारम्भदिवसात् पूर्वेद्युः कौतुकक्रियाम्।
उत्सवारम्भदिवसे अधिवासार्थमीरितम्

17.485

चतुः स्थानार्चनं विप्र! तथा तीर्थांकुरार्पणम्।
तद्रात्रावपि यात्रार्थं चतुः स्थानार्चनक्रियाम्

17.486

यात्राप्रतिसराबन्धं तथा चावभृधक्रियाम्।
पुष्पयागदिने वापि चतुः स्थानार्चनं तथा

17.487

कुम्भमण्डलकुण्डस्थमन्त्राणां च विसर्जनम्।
ध्वजावरोहणं चैव प्रयत्नान्नियतव्रतः

17.488

तदन्ये देशिकाः कुर्युः साधका वा यथाक्रमम्।
अन्यानि सर्वकर्माणि यथायोगं समाचरेत्

17.489

कुम्भस्थस्यार्चनं केचित् केचिद्बिं बस्य पूजनम्।
अग्नौ संतर्पणं केचित् केचित् स्नपनकौतुके

17.490

स्नपनाद्यर्चनं केचित् यथाकालं यथाविधि।
यद्येकेनैव शक्यं स्याच्चतुः स्थानार्चनं द्विज!

17.491

कर्तुं न कर्तृभेदः स्याच्चतुःस्थानार्चनाविधौ।
एकस्मिन् पूजने विप्र! वर्तमानेपि मध्यतः

17.492

केनचिद्व्याधिना कर्तुरशाक्तिर्यदि संभवेत्।
अंगादंगान्तरारम्भे आसनादासनस्य हि

17.493

शेषमन्येन कर्तव्यं जष्त्वा मूलं सहस्तकम्।
अन्यथासंभवेत्सा चेत् कर्तुरन्यस्तु पूजकः

17.494

भूयश्चादित आरभ्य पूजनं तु समाचरेत्।
दिनोदितेन मार्गेण कुर्याच्चेदन्यथा द्विज!

17.495

कर्तुः स्यान्मानसी पीडा पूजनं चापि निष्फलम्।
यदोत्सवे नियुक्तं तु नित्यस्नपनकौतुकम्

17.496

तदेकदैव कुर्वीत रात्रावहनि वोत्सवम्।
यदा महोत्सवविधौ बलिबिंबं प्रयुज्यते

17.497

कालयोरुभयोः कुर्यात् कर्तुरिच्छानुरूपतः।
यात्राबिंबे नियुक्ते तु कुर्यात् कालद्बये सदा

17.498

उत्सवं मुखयकल्पे तु अनुकल्पे महामते।
दिवा वापि रजन्यां वा कुर्याद्यात्रोत्सवं द्विज!

17.499

कुम्भे वा विष्टरे चक्रे यदा कुर्यान्महोत्सवम्।
तदानीं मूलबिंबे तु यात्रा बिंबोदितां क्रियाम्

17.500

सर्वामपि क्रमात् कृत्वा परिभ्रमणवर्जितम्।
कुम्भे वा विष्टरे वापि दर्भमंजरिजे शुभे

17.501

चक्रे वा देवमावाह्य अर्घ्याद्यैः परिपूज्य च।
यानादिके समारोप्य सर्वसाधनसंयुतम्

17.502

ग्रामादौ भ्रामयेत् प्राग्वत् बलिदानसमन्वितम्।
ग्रामादि बलिदानोक्तकाले दद्यात् बलिं सदा

17.503

कुमुदादि गणेशानां पालिकावसथेपि च।
उत्सवे देवदेवेशं सदा सर्वत्र पूजयेत्

17.504

वस्तुपुष्पादिकैर्भोगैः यथाभिमतदिङ्‌मुखः।
आसीनो वा स्थितो बापि साधकस्तु यथारुचि

17.505

एवं तु भ्रमणं कुर्यात् एकाहाद्युत्सवेष्वपि।
एकाहे पूर्वरात्रे वा यात्रा बिंबाधिवासनम्

17.506

तीर्थबिंबाधिवासं च तथा कर्मदिने ततः।
प्रातर्ग्रामं परिभ्राम्य यात्राबिंबं तु पूर्ववत्

17.507

तत्पश्चादाचरेत् प्राग्वत् तीर्थबिंबाधिवासनम्।
अपरस्मिन् दिने कुर्यात् पुष्पयागं न वा द्विज

17.508

त्रिवासरेपि पञ्चाहे सप्ताहे तूत्सवे द्विज!।
आरंभाहात्तु पूर्वेद्युः यात्रा बिंबाधिवासनम्

17.509

तीर्थाहात् पूर्वरात्रौ तु तीर्थबिंबादिवासनम्।
तीर्थाहादपरस्मिन् वै पुष्पयागं समाचरेत्

17.510

एकाहात् सप्तरात्रान्तमुसवानां चतुष्टये।
पुष्पापचयलीलां च मृगयामपि नाचरेत्

17.511

दशाहादिषु सर्वेषु नवाहोदितवर्त्मना।
सर्वं कुर्याद्यथायोगं कर्तुरिच्छानुरूपतः

17.512

स्वयं व्यक्ते विमानादौ स्थाने तु न समाचरेत्।
एकाहात् सप्तरात्रान्तमुत्सवानां चतुष्टयम्

17.513

तथा तत्रानुकल्पोक्तमुत्सवं न समाचरेत्।
स्वयं व्यक्ते जलक्रीडा भवेन्नान्यत्र कल्पयेत्

17.514

एकाहाद्यास्तु सकला उत्सवा वत्सरीन्तिमाः।
बहुबेरविधाने तु कर्तव्या द्विजसत्तम!

17.515

एकत्रिपञ्चसप्ताहनवाहद्वादशाहिकाः।
एकबेरविधाने तु कर्तव्या नान्यथा भवेत्

17.516

ग्रामे वा नगरे वापि प्रतिलोमानधिष्ठिते।
अशून्ये पत्तने वापि रथ्यासु सुसमाचरेत्

17.517

बलिदानादिकं सर्वं अन्यथा चेद् द्विजोत्तम!।
अन्तरावरणेष्वेव विभोः कुर्यान्महोत्सवम्

17.518

देवस्य यात्राकर्मार्थं प्रवेशश्च विनिर्गमः।
भवेत्तदग्रद्वारेण सर्वेष्वावरणेष्वपि

17.519

प्रवेशनिर्गमऔ स्यातां ग्रामाद्यभिमुखेन वा।
प्रधानैर्नेतरैर्द्वारैः कार्यौ वेशविनिर्गमौ

17.520

नोपद्वौरैर्न शौभैस्च नोपशोभैः कदाचन।
यदि कुर्यात् प्रमादेन तद्देशनृपतेर्भवेत्

17.521

प्रधानस्य विपर्यासः स्वस्थानप्रच्युतिस्तथा।
ग्रामादावपि विप्रेन्द्र! प्राकारादिपरिष्कृते

17.522

यात्रा कर्मणि देवस्य प्रवेशश्चापि निर्गमः।
उपद्वारैर्न कर्तव्यः कृते यात्रादि निष्फलम्

17.523

ग्रामस्यापि विनाशः स्यात् ततो देशाधिपस्य च।
चतुर्ष्वपि प्रधानेषु विशेषमवधारय

17.524

देवागारस्य पूर्वस्यां दिशि ग्रामादिकं यदि।
प्रत्यक्‌दिक्संस्थितद्वारा भवेत्तत्रोदितद्वयम्

17.525

ग्रामादिकं भवेत् प्रत्यक् यदा देवगृहस्य तु।
प्राग्द्वारेण तदा स्यातां प्रवेशश्च विनिर्गभः

17.526

यदा ग्रामादिकं क्लृप्तं प्रासादस्य तु दक्षिणे।
तदानीमुत्तरद्वारा प्राग्द्वारा वा पुरोदिता

17.527

यदा देवगृहस्योदक् ग्रामाद्यं परिकल्पितम्।
तदानीं दक्षिणद्वारा प्रत्यग्द्वारेण वा भवेत्

17.528

प्रवेशाद्यं द्वयं यद्वा दक्षिणोत्तरदिक्स्थिते।
ग्रामादावपि विप्रेन्द्र! प्राक्‌प्रत्यक्द्वारदेशतः

17.529

प्रवेशनिर्गमौ मुख्यकल्पे तु विहितौ द्विज!।
अनुकल्पे तदन्याभ्यां द्वाराभ्यां परिकीर्तितौ

17.530

देवागारांगभूते तु तस्माद्‌दूरेण संस्थिते।
ग्रामादौ देबदेवस्य यात्रायां वेशनिर्गमौ

17.531

कथितौ, सन्निकृष्टेथ विधानमवधारय।
प्रासादपूर्वदिक्‌संस्थे ग्रामे प्रागग्रवीधिषु

17.532

मध्यवीथ्यग्रदेशेन पश्चिमश्थेन वै विभोः।
प्रवेशनिर्गमौ स्यातां एतत्पश्चिमसंस्थिते

17.533

मध्यवीथ्यग्रदेशेन पूर्वदिकसंस्थितेन च।
दक्षिणोत्तरसंस्थे तु यथायोगं समाचरेत्

17.534

ग्रामाद्यं न कृतं यत्र कृता रथ्यावृतिस्तदा।
रथ्यावरणदेवानां बलिं दत्वा तु पूर्वतः

17.535

पश्चाद्‌ग्रामोक्तदेवानां तत्रैव च बलिं ददेत्।
सर्वेषां च क्रमादेवं देवयात्रां द्विराचरेत्

17.536

ग्राममध्योदितं कुर्यान्मुख्यद्वारार्थदेशतः।
रथ्यावृतिस्तु न कृता यदा ग्रामः कृतस्तदा

17.537

यथ्यावृत्युक्तदेवानां न तत्र प्रददेद्बलिम्।
तदर्थी देवयात्रापि न कर्तव्या महामते!

17.538

यदा तु वीथ्यावरणं ग्रामश्चापि न कल्पितः।
तदा ग्रामोक्तदेवानां बहिरावरणे बलिम्

17.539

तदुक्तदेवबल्यन्ते प्रदद्यात्तु दिने दिने।
ग्रामोक्त देवयात्रां च तथा तत्र समाचरेत्

17.540

ग्राममध्ये तु यत् कर्म विहितं तत् समाचरेत्।
बलिषीठे तदा सर्वं यथोक्तविधिना द्विज!

17.541

?
बाह्यावृत्यादौ न तदा कुर्यात्तत् प्रथमावृतौ।
तदभावे तु तत् सर्वं प्रासादद्वारपूर्वतः

17.542

यदा ग्रामादिके क्लृप्ता देवयात्रोत्सवक्रिया।
राष्ट्रक्षोभादिविघ्नेन यदि कर्तुं न शक्यते

17.543

एवमेव तदापि स्यात् देवयात्रोत्सवक्रमः।
बलिदानोदिते काले बलिदानं समाचरेत्

17.544

कुमुदादिगणेशानां प्रथमावरणेपि च।
पालिकावसथे चापि मण्डपे यागनिर्मिते

17.545

ग्रामादिकेपि विप्रेन्द्र नित्यं स्थानचतुष्टये।
यदि रथ्यावृतिः क्लृप्ता तत्रापि च बलिं ददेत्

17.546

ग्रामाद्ये सगणानां तु बलिं दद्याद्दिने दिने।
अन्यस्थानचतुष्के तु केवलानां बलिं ददेत्

17.547

ग्रामाद्यं पालिकावासं विनान्यत्र समाचरेत्।
देवप्रागादियोगेन बलिं स्थानत्रयेपि च

17.548

ग्रामादौ नोत्सवं कुर्याद्योजनात् परतः स्थिते।
नद्यादिव्यवधानेपि क्लृप्ते वा योजनावधेः

17.549

ग्रामादौ उत्सवं कुर्यात् स्वतन्त्रे वांग एव वा।
देवतान्तरयात्रार्थं निर्मिंते नगरादिके

17.550

न कुर्याद्देवदेवस्य विभोर्यात्रोत्सवक्रियाम्।
विभोर्यात्रोत्सवार्थं तु कल्पिते नगरादिके

17.551

देबतान्तरयात्रां तु न कदाचित् समाचरेत्।
ग्रामाद्यंगतया क्लृप्ते प्रासादे तु महमते

17.552

तदंगिनं तु ग्रामाद्यं विनान्यत्र बलिक्रियाम्।
न कल्पयेद्देवयात्रां तथैव न समाचरेत्

17.553

देवतान्तरकल्याणे वर्तमाने कदाचन।
देवतान्तरयात्रार्थं तोरणानि कृतान्यपि

17.554

देवदेवस्य यागार्थं न स्बीकुर्यात् कदाचन।
एकस्मिन्नुत्सवेनैव दद्याद् ग्रामद्वये बलिम्

17.555

न कुर्याद्देवयात्रां च कृता चेन्निप्फला भवेत्।
तथा ध्वजद्वयं न स्यात् भेदछिद्रादिदूषिते

17.556

पटस्थे विहगेन्द्रे तु कुर्यात् सन्धानमेव तु।
तच्चेदशक्यं तत्त्यकत्वा कृत्वान्यं प्राग्वदाचरेत्

17.557

अन्यथा तत्परित्यागे दोषः स्याद्राजराष्ट्रयोः।
एवं तु देवदेवस्य उत्सवं कल्पयेत्तु यः

17.558

इह लोके सुखं भुक्त्‌वा चिरं भोगान् यथेप्सितान्।
देहसन्यासकाले तु प्राप्नोति भगवत्पदम्

17.559

यात्रायां वर्तमानायां अनुगच्छन्ति ये विभुम्।
पदे पदे क्रतुफलं लभन्ते ते नरोत्तमाः

17.560

ये तोषयन्ति ते काले देवदेवं जगत्पतिम्।
विविधैरूपचारैस्तु छत्रचामरपूर्वकैः

17.561

ऐहिकामुप्मिकान् भोगान् प्राप्नोत्यभिभतान् सदा।
इति सम्यङ्‌मुनिश्रेष्ठ! कीर्तितो वत्सरोत्सवः

17.562

एवं नैमित्तिकं चान्यं कुर्यादेकाहमुत्सवम्।
ध्वजारोहादिपूर्वोक्तयात्रांगपरिवर्जितम्

17.563

विभवानुगुणं विप्र! विशेषस्नपनान्वितम्।
महता हविषा युक्तं यथाश्रद्धानुरूपतः

17.564

तस्मिन् प्रदाननक्षत्रे पत्रपुष्पफलान्विते।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत्

17.565

चैत्रे मासि पुनर्वस्वोः वसन्तोत्सवमाचरेत्।
तस्मिंस्तु शुक्लद्वादश्यां कुर्याद्दमनकोत्सवम्

17.566

पवित्रारोहवत् कुर्यात् चतुस्थानार्चनादिकम्।
भूषणान्युत्तमादीनि कुर्याद्दमनकैस्तथा

17.567

तत्तु संख्याविरहितं यथाशोभानुरूपतः।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत्

17.568

एको ह वै नारायण इति प्राव्कलशेन तु।
तस्य ध्यानान्तस्थस्येति द्वितीयकलशेन तु

17.569

अथ पुनरेव नारायण इति तृतीयकलशेन तु।
अथ पुनरेव नारायण इति चतुर्थतः

17.571

सहस्रशीर्षा पुरुष इति पञ्चमकुम्भतः।
पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः । 570 ॥
नारायण परं ब्रह्न इति वै सप्तमेन तु।
यच्च किंचिज्जगत्यस्मिन् इति ह्यष्टमकुम्भतः

17.572

अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत्।
अतो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै

17.573

सन्ततं सिराभिस्तु लमित्येकादशेन तु।
तस्य मद्ये महानग्निरिति द्वादशमेन वै

17.574

सन्तापयति स्वं देहमिति त्रयोदशमेन वै।
नीलतोयदमद्यस्था इति चतुर्दशमेन वै

17.575

तस्याश्शिखाया मध्ये इति पञ्चदशमेन वै।
सर्वस्य वशिनं देवं इति षोडशमेन तु

17.576

बहिरावरणस्थैस्तु कलशैरभियेचयेत्।
बहिरावरणे नास्ति इति प्राक्‌संस्थितेन तु

17.577

यन्नाबिपझादभवदिति वह्निगतेन तु।
धृतोर्ध्वपुम्ड्रं परमेति याम्यदिकसंस्थितेन तु

17.578

दक्षिणे तु भुजे विप्रः इति यातुगतेन वै।
विष्णुनाक्तमश्रन्तीति वारुणीदिक्स्थितेन तु

17.579

पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै।
य इमां महोपनिषदमिति सोमगतेन तु

17.580

ओमिते प्रथमं नाम इतीशानगतेन तु।
पुरुषोहं वै वासुदेव इति मध्यगतेन तु

17.581

यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात्।
बहिरावरणस्थैस्तु कलशैरमिषिच्य च

17.582

पूर्वोक्तैर्ब्रह्नसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया।
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात्

17.583

अवशिष्टैस्त्रिभिश्चान्ते मध्यकुंभेन सेचयेत्।
रजनीचूर्णसंपूर्णान् संस्थाप्य नवकुम्भकान्

17.584

अर्घ्याद्यैरर्चयित्वा तु चक्ररश्मिसमप्रभान्।
रजनीचूर्णनिचयान् ध्यात्वा तैरमिषेचयेत्

17.585

सर्वविघ्ननिरासार्थं सर्वसंपूरणाय च।
दक्षिणे तु भुजे विप्र! इति प्राक्‌संस्थितेन च

17.586

निचिकिद्वा सुषणमिति वह्निगतेन तु।
प्रते विष्णो अब्ज चक्रे इति याम्यगतेन तु

17.587

एभिर्वयमुरुक्रमस्येति यातुगतेन तु।
धृतोर्ध्वपुण्ड्रः कृतचक्रेति पश्चिमाशागतेन तु

17.588

पवित्रमित्यग्निरिति वायुगतेन तु।
चरणं पवित्रं विततमिति सोमगतेन तु

17.589

लोकस्य द्वारमर्चिमदिति रुद्रगतेन तु।
मन्त्रैरेतैस्तु चाष्टाभिः अन्यैः सौदर्शनैस्तथा

17.590

संस्नाप्य मध्यकुम्भेन शुद्धोदैरभिषिच्य च।
महोपनिषदन्तस्थैः ब्रह्नसूक्तैः पुरोदितैः

17.591

मन्त्रैश्चतुर्भिः पुंसूक्तैः मन्त्रैः षोडशभिस्तथा।
वासुदेवद्विषट्‌कार्णब्राह्नणद्वितयेन तु

17.592

ओंकारादिपवित्रान्तैः चतुभिर्व्यापकैस्तथा।
सहस्रधारया देवं स्नापयेद्विधिपूर्वकम्

17.593

यद्वा द्विषट्‌कमन्त्रेण सर्वं स्नपनमाचरेत्।
ततोऽन्यैः सकलैर्भोगैः प्राग्वदिष्ट्वा क्रमेण तु

17.594

सर्वैः पुरोदितैर्मन्त्रैः द्विषट्‌कार्णेन वा द्विज!।
होमं कृत्वा विशेषेण समिद्भिस्त्रिमधुप्लुतैः

17.595

ततो दमनकारोपमाचरेत्तु यथाविधि।
अत्रानुक्तं तु सकलं पवित्रारोहवद्भेत्

17.596

माघमासे पुनर्वस्वोश्चैत्रे वा द्वितयेपि वा।
वैशाखे श्रवणे ऋक्षे रोहिण्यां श्रवणे तथा

17.597

आर्द्रायां मार्गशीर्षाख्ये आषाढे हस्ततारके।
कार्तिके मासि रोहिण्यामन्येष्वेवंविधेष्वपि

17.598

अवतारदिनेष्वेवं कुर्यादेकाहमुत्सवम्।
ग्रामे वा नगराद्ये वा सर्वेष्वावरणेषु वा

17.599

शुभलीलासमायुक्तमाचरेत्तु परिभ्रमम्।
पक्षे पक्षे च द्वादश्यां मासि मासि तथैव च

17.600

अमावास्यां पौर्णमास्यां श्रवणे चोत्तरे दिने।
अन्येष्वपि प्रशस्तेषु विभवेच्छानुरूपतः

17.601

यजमानादिजन्मर्क्षे चैत्रादि विषुवद्वये।
अयनद्वितये चापि सूक्ष्मस्थूले विशेषतः

17.602

तथा चाग्रयणाख्यं तु वत्सरे वत्सरे द्वयम्।
आषाढे पूर्वफल्गुन्यां पुष्ये चैव विशेषतः

17.603

माघमासे तु पञ्चम्यां सप्तम्यामथवा द्विज!।
विशेषयजनं कुर्याद्विभवेच्छानुरूपतः

17.604

एकादश्यां मार्गशीर्षे पूर्वपक्षे विशेषतः।
कुर्याद्विशेषयजनं त्त संश्रावयेद्विभुम्

17.605

सदागमादिकान् सर्वान् वेदान् वै वेदघोषणम्।
इतिहासपुराणं च तथा दैवं च मानुषम्

17.606

वेदेपवृह्नणं त्वन्यत् संस्कृतं प्राकृतं तु वा।
भाषान्तरगतं वापि यथाश्रद्धानुरूपतः

17.607

एवं विशेषयजनं द्वादश्यां तु समाचरेत्।
पायसान्नं गुलान्नं वा प्रभूतं विनिवेदयेत्

17.608

समाप्ते भगवद्व्यागे पारणं तु समाचरेत्।
एतत्तिथिद्वययुतमुत्तमं व्रतमीरितम्

17.609

अतः परं स्याद्विस्तारो विभवेच्छानुरूपतः।
तदादिपौर्णमास्यान्तं पञ्चम्यन्तं तु वा द्विज

17.610

दशम्यमावास्यान्तं वा पञ्चमी दशमी तु वा।
एवं त्रिंशद्दिनान्तं तु विभवानुगुणं भवेत्

17.611

वैशाखे च विशाखर्क्षे विशेषयजनं भवेत्।
सहकारफलैः पव्कैः गुलक्षीरादिपाचितैः

17.612

कार्तिके मासि कार्तिक्यां विशेषार्चनमाचरेत्।
घृततैलमहादीपैः प्रभूतैर्दर्शयेत् प्रबुम्

17.613

शुभैरन्यैर्लाजपूर्वैः शुभैर्भक्ष्यादिभिः सह।
फलपुप्पादिकैः पूतैः तत्तत्काले समर्चयेत्

17.614

पौषे मासि च पुष्ये तु विशेषस्नपनान्वितम्।
कार्तिके मासि विप्रेन्द्र! शुक्लैकादशिका तु या

17.615

तस्यामुपोष्य रात्र्यां तु जागरेण जगत्पतिम्।
तत्कालोचितरागोत्थैः तोषयित्वा तु गीतकैः

17.616

ब्राह्ने मुहूर्ते संप्राप्ते विशेषेण यजेद्विभुम्।
संश्रावयेद्गीतकानि स्तोत्राणि विविधाः कथा

17.617

होमावसानं सर्वं तु सविशेषं समाचरेत्।
तत्काले ये च गायन्ति तच्च श्रृण्वन्ति ये जनाः

17.618

तेषां पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम्।
आचार्याः साधका वापि कुर्वीरन्नेवमुत्सवम्

17.619

आचार्यास्तेषु सोष्णीषा भवेयुस्सोत्तरीयकाः।
अकंचुकाः सदा विप्र! साधकाः स्युः सकञ्चुकाः

सकञ्चुका यद्याचार्यास्तत्पूजा निष्फला भवेत्।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे महोत्सवादिविधिर्नाम सप्तदशोऽध्यायः॥
****************

मूल पाठ: parameśvarasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc