भाषा

ENहिગુ
ग्रंथ पाठ

पाण्डव गीता · अध्याय 1

.. .
. पाण्डव गीता .. .
.
पाण्डव प्रह्लादनारदपराशरपुण्डरीक-
व्यासाम्बरीशशुकशौनकभीष्मदाल्भ्यान् । .
रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन्
पुण्यानिमान्परमभागवतान्स्मरामि .. १..
लोमहर्षण उवाच -
धर्मो विविर्धति युधिष्ठिरकीर्तनेन
पापं प्रणश्यति वृकोदरकीर्तनेन ।.
शत्रुर्विनश्यति धनञ्जयकीर्तनेन
माद्रीसुतौ कथयतां न भवन्ति रोगाः .. २..
ब्रह्मा उवाच -
ये मानवा विगतरागपरावरज्ञा
नारायणं सुरगुरुं सततं स्मरन्ति .
ध्यानेन तेन हतकिल्बिष चेतनास्ते
मातुः पयोधररसं न पुनः पिबन्ति .. ३..
युधिष्ठिर उवाच -
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् .
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् .. ४..
कुन्ती उवाच -
स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् .
तस्यां तस्यां हृषीकेश त्वयि भक्तिदृर्ढाऽस्तु मे .. ५..
द्रुपद उवाच -
कीटेषु पक्षिषु मृगेषु सरीसृपेषु
रक्षःपिशाचमनुजेष्वपि यत्र यत्र .
जातस्य मे भवतु केशव त्वत्प्रसादात्
त्वय्येव भक्तिरचलाऽव्यभिचारिणी मे .. ६..
अभिमन्यु उवाच -
गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द रथाङ्गपाणे .
गोविन्द गोविन्द मुकुन्द कृष्ण
गोविन्द गोविन्द नमो नमस्ते .. ७..
उद्धव उवाच -
वासुदेवं परित्यज्य योऽन्यं देवमुपासते .
तृषितो जाह्नवीतीरे कूपं वाञ्छति दुर्भगः .. ८..
विदुर उवाच -
वासुदेवस्य ये भक्ताः शान्तास्तद्गतमानसाः .
तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि .. ९..
भीष्म उवाच -
विपरीतेषु कालेषु परिक्षीणेषु बन्धुषु .
त्राहि मां कृपया कृष्ण शरणागतवत्सल .. १०..
द्रोण उवाच -
ये ये हताश्चक्रधरेण राजं-
स्त्रैलोक्यनाथन जनार्दनेन .
ते ते गता विष्णुपुरिं प्रयाताः
क्रोधोऽपि देवस्य वरेण तुल्यः .. ११..
गान्धारी उवाच -
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव .
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव .. १२..
प्रह्लाद उवाच -
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् .
तेषु तेष्वचला भक्तिरच्युतऽसु सदा त्वयि .. १३..
या प्रीतिरविवेकनां विषयेष्वनपायिनि .
त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु .. १४..
भरद्वाज उवाच -
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः .
येषामिन्दीश्वरश्यामो हृदयस्थो जनार्दनः .. १५..
अत्रि उवाच -
गोविन्देति सदा स्नानं गोविन्देति सदा जपः .
गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम् .. १६..
आविर्होत्र उवाच -
कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते
अद्यैव मे विशतु मानसराजहंसः .
प्राणप्रयाणसमये कफवातपिताइः
कण्ठावरोधनविधौ स्मरणं कुतस्ते .. १७..
विदुर उवाच -
हरर्नामैव नामैव नामामैव मम जीवनम् .
कलौ नास्येव नास्तेव नास्त्येव गतिरन्यथा .. १८..
वशिष्ठ उवाच -
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते .
भस्मीभवन्तु तस्याशु महापातककोटयः .. १९..
दुर्योधन उवाच -
जानामि धर्मं न च मे प्रवृत्ति-
र्जानाम्यधर्मं न च मे निवृत्तिः .
केनापि देवेन हृदिस्थितेन
यथा नियुक्तोऽस्मि तथा करोमि .. २०..
सुभद्र उवाच -
एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः .
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय .. २१..
गर्ग उवाच -
नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनि .
तथापि नरके घोरे पतन्तीत्येतदद्भुतम् .. २२..
पराशर उवाच -
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् .
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति .. २३..
व्यास उवाच -
सत्यं सत्यं पुनः सत्यं भुजमुत्थाप्य चोच्यते .
न वेदाच्च परं शास्त्रं न देवः केशवात्परः ..२४..
धन्वन्तरि उवाच -
अच्युतानन्त गोविन्द नामोच्चारणभेषजात् .
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् .. २५..
मार्कण्डेय उवाच -
सा हानिस्तन्महच्छिद्रं सा चान्धजडमूढता .
यन्मुहूर्तं क्षणं वापि वासुदेवं न चिन्तयेत् .. २६..
श्रीशुक उवाच -
आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः .
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा .. २७..
श्रीमहादेव उवाच -
शरीर च नवच्छिद्रं व्याधिग्रस्तं कलेवरम्
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः .. २८..
शौनक उवाच -
भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः .
योऽसौ विश्वम्भरो देवः स भक्तान्किमुपेक्षते .. २९ ..
आकाशात्पतितं तोयं यथा गच्छति सागरम् .
सर्वदेवनमस्कारः केशवं प्रति गच्छति .. ३०..

मूल पाठ: pāṇḍava gītā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc