भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चक्रम · अध्याय 5

5.1

। परमरहस्यसुखाभिसम्बोधिक्रमश्चतुर्थः समाप्तः ॥
कृतिरियम् आचार्यनागार्जुनपादानाम् ।
ग्रन्थप्रमाणमस्य श्लोकाश्चत्वारिंशत् ।
[5]
युगनद्धक्रमः पञ्चमः
नमः श्रीवज्रधराय
फलहेत्वात्मकं नाथं सर्वद्वन्द्वविवर्जितम् ।
प्रणम्य लिख्यते सम्यग् युगनद्धक्रमोत्तमः

5.2

संसारो निर्वृतिश्चेति कल्पनाद्वयवर्जनात् ।
एकीभावो भवेद् यत्र युगनद्धं तदुच्यते

5.3

सङ्क्लेशं व्यवदानं च ज्ञात्वा तु परमार्थतः ।
एकीभावं तु यो वेत्तिं स वेत्ति युगनद्धकम्

5.4

साकारभावसङ्कल्पं निराकारत्वकल्पनाम् ।
एकीकृत्य चेरद् योगी स वेत्ति युगनद्धकम्

5.5

ग्राह्यं च ग्राहकं चैव द्विधा बुद्धिर्न विद्यते ।
अभिन्नता भवेद् यत्र तदाह युगनद्धकम्

5.6

शाश्वतोच्छेदबुद्धी तु यः प्रहाय प्रवर्तते ।
युगनद्धक्रमाख्यं वै तत्त्वं वेत्ति स पण्डितः

5.7

प्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते ।
युगनद्ध इति ख्यातः क्रमो ऽयं बुद्धगोचरः

5.8

प्रज्ञोपायसमापत्त्या ज्ञात्वा सर्वं समासतः ।
यत्र स्थितो महायोगी तद् भवेद् युगनद्धकम्

5.9

यत्र सोपधिशेषं च तथानुपधिशेषकम् ।
इत्येवं कल्पना नास्ति तत् तद्धि युगनद्धकम्

5.10

यत्र पुद्गलनैरात्म्यं धर्मनैरात्म्यमित्यपि ।
कल्पनाया विविक्तत्वं युगनद्धस्य लक्षणम्

5.11

ज्ञात्वा क्रमेण तत्त्वज्ञः स्वाधिष्ठानप्रभास्वरम् ।
तयोरेव समाजं यद् युगनद्धक्रमो ह्ययम्

5.12

पिण्डग्राहनुभेदाभ्यां प्रवेशस्तथतालये ।
उत्थानं च ततो यत्र समन्ताद् युगनद्धकम्

5.13

संवृतिं परमार्थं च पृथग् ज्ञात्वा विभागतः ।
संमीलनं भवेद् यत्र युगनद्धं तदुच्यते

5.14

तथातलम्बनं नैव व्युत्थानं यत्र नैव हि ।
युगनद्धं भवेत् तच्च योगिनां पदमव्ययम्

5.15

सुप्तः प्रबुद्ध इत्येतदवस्थाद्वयवर्जितम् ।
युगनद्धं वदेच्छास्ता स्वापबोधविवर्जितम्

5.16

समाधानासमाधानं यस्य नास्त्येव सर्वथा ।
युगनद्धे स्थितो योगी भावाभावविवर्जितः

5.17

अस्मृतिस्मृतिनिर्मुक्तः सततोदयलक्षणः ।
विचरेदिच्छया योगी युगनद्धक्रमे स्थितः

5.18

रागारागविनिर्मुक्तः परमानन्दमूर्तिमान् ।
आसंसारं स्थितिं कुर्याद् युगनद्धविभावकः

5.19

कार्यं च कारणं चैव कृत्वाभिन्नंस्वभावतः ।
या स्थितिर्योगिनां बुद्धा युगनद्धं वदन्ति तत्

5.20

उत्पत्तिक्रम एको ऽयम् उत्पन्नक्रम इत्यपि ।
एकत्वं तु द्वयोर्यत्र युगनद्धस्तदुच्यते

5.21

देवता परिशुद्धेयम् अशुद्धेयं भवेदिति ।
इति या कल्पनाभिन्ना यत्र तद् युगनद्धकम्

5.22

रूपीति चाप्यरूपीति कल्पनाद्वयवर्जनात् ।
यःशान्तिं वेत्ति योगीन्द्रः स प्राप्तो युगनद्धकम्

5.23

एवं वै यः स्थितो योगी युगनद्धक्रमे स्थितः ।
उच्यते स हि सर्वज्ञः तत्त्वदर्शी च विश्वधृक्

5.24

मायाजालाभिसम्बुद्धः संसारार्णवपारगः ।
कृतकृत्यो महायोगी सत्यद्वयनये स्थितः

5.25

एतदेवाद्वयं ज्ञानम् अप्रतिष्ठितनिर्वृतिः ।
बुद्धत्वं वज्रसत्त्वत्वं सर्वैश्वर्यं तथैव च

5.26

वज्रोपमसमाधिस्तु निष्पन्नक्रम एव च ।
वज्रोपमसमाधिश्चाप्यद्वयं तच्च कथ्यते

5.27

अनुत्पादादयः शब्दा अद्वयज्ञानसूचकाः ।
अस्यैव वाचकाः सर्वे नान्यत् तत्राभिधीयते

5.28

महामुद्रात्मिकां सिद्धिं सदसत्पक्षवर्जिताम् ।
अनेनैव गता बुद्धा गङ्गायाः सिकतोपमाः

5.29

घटमानो महायोगी युगनद्धपदे स्थितः ।
भावयेद् युगनद्धं तु चर्यां चापि तदन्वयाम्

5.30

यथात्मनि तथा शत्रौ यथा भार्या तथात्मजा ।
यथा माता तथा वैश्या यथा डोम्बी तथा द्विजा

5.31

यथा वस्त्रं तथा चर्म यथा रत्नं तथा तुषम् ।
यथा मूत्रं तथा मद्यं यथा भक्तं तथा शकृत्

5.32

यथा सुगन्धि कर्पूरं तथा गन्धममेध्यजम् ।
यथा स्तुतिकरं वाक्यं तथा वाक्यं जुगुप्सितम्

5.33

यथा रुद्रस्तथा वज्री यथा रात्रीस्तथा दिवा ।
यथा स्वप्नं तथा दृष्टं यथा नष्टं तथा स्थितम्

5.34

यथा सौख्यं तथा दुःखं यथा दुष्टस्तथा सुतः ।
यथावीचिस्तथा स्वर्गस्तथा पुण्यं तु पापकम्

5.35

एवं ज्ञात्वा चरेद् ज्ञानी निर्विशङ्कस्तु सर्वकृत् ।
प्रच्छन्नव्रतमासाद्य सिध्यन्ते सर्वसम्पदः

5.36

प्रकाश्य पुण्यं यत् प्राप्तं पञ्चक्रममनुत्तरम् ।
अनेन क्रीडतां लोको युगनद्धसमाधिना ॥ इति

मूल पाठ: Pañcakrama · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc