पञ्चक्रम · अध्याय 4
॥ स्वाधिष्ठानक्रमस्तृतीयः समाप्तः ॥
कृतिरियमाचार्यनागार्जुनपादानाम् । ग्रन्थप्रमाणमस्य षट्पञ्चाशत् ।
[4]
अभिसम्बोधिक्रमः चतुर्थः
नमः श्रीवज्रसत्त्वाय
वज्रसत्त्वं नमस्कृत्य सर्वशून्योपदेशकम् ।
चतुर्थो ह्याभिसम्बोधिक्रमो ऽयं वक्ष्यते मया
असौ स्वयम्भूर्भगवान् एक एवाधिदैवतः ।
उपदेशप्रदानात् तु वज्राचार्यो ऽधिकस्ततः
तत्समाराधनं कृत्वा वर्षं मासमथापि वा ।
तस्मै तुष्टाय गुरवे पूजां कुर्यात् तु शक्तितः
यथास्वभावतो मुद्रां निवेद्यास्मै सुशिक्षिताम् ।
गणमण्डलमध्ये तु कुर्यात् पूजां यथाविधि
ततस्तुष्टो महायोगी पञ्चकामोपभोगतः ।
आलोकस्योदयं कुर्यात् समापत्तिविधानतः
कलशादौ सुसंस्थाप्य बोधिचित्तं प्रयत्नतः ।
अर्धरात्रे चाभिसिञ्चेत् सुशिष्यं कृपया गुरुः
अभिषेकं तु सम्प्राप्य प्रत्यूषमये पुनः ।
सम्पूज्याराधयेत् स्तोत्रैर्गुरुं शिष्यं कृताञ्जलिः
त्रैधातुकविनिर्मुक्त आकाशसमतां गतः ।
नोपरिष्यसि कामेषु निरालम्ब नमो ऽस्तु ते
अनिःश्रितो ऽसि स्कन्धेषु धातुष्वायतनेषु च ।
विपर्यासविनिर्मुक्त निरालम्ब नमो ऽस्तु ते
अविकल्पितसङ्कल्प अप्रतिष्ठितमानस ।
अचिन्त्यमनसिकार निरालम्ब नमो ऽस्तु ते
अनालयं यथाकाशं निष्प्रपञ्चं निरञ्चनम् ।
आकाशसमचित्तो ऽसि निरालम्ब नमो ऽस्तु ते
द्रष्टुकामो ऽभिसम्बोधिं सर्वशून्यस्वभाविकाम् ।
स्तुत्वा कृताञ्जलिः शिष्यो गुरं सञ्चोदयेत् पुनः
प्रयच्छ मे महानाथ अभिसम्बोधिदर्शनम् ।
कर्मजन्मविनिर्मुक्तम् आभासत्रयवर्जितम्
प्रयच्छ मे महाचार्य वज्रज्ञानमनुत्तरम् ।
सर्वबुद्धमहाज्ञानं सर्वताथागतालयम्
प्रयच्छ मे महावज्र कायवाक्चित्तशोधनम् ।
अनादिनिधनं शान्तं सर्वक्लेशविशोधनम्
एवमाराधितो योगी सद्भूतगुणकीर्तनैः ।
शिष्ये कारुण्यमुत्पाद्य क्रममेवमथारभेत्
आलोको रात्रिभागः स्फुटरविकिरणः स्याद् दिवालोकभासः ।
सन्ध्यालोकोपलब्धः प्रकृतिभिरसकृद् युज्यते स्वाभिरेतत् ।
नो रात्रिर्नापि सन्ध्या न च भवति दिवा यः प्रकृत्या विमुक्तः
स स्याद् बोधिक्षणो ऽयं वरगुरुकथितो योगिनामेव गम्यः
नैशं ध्वान्तं विनष्टं व्यपगतमखिलं सान्ध्यतेजस्तु यस्मिन्
भास्वान्नोदेति यावत् क्षण इह विमले दर्शयेद् भूतकोटिम् ।
शिष्यायाचार्यमुख्यो विनिहततिमिरो बाह्यसम्बोधिदृष्ट्या ।
प्राप्नोत्यध्यात्मसौख्यं व्यपगतकलुषं बुद्धबोधिं क्षणेन
अनादिभूतं त्वथवादिभूतं अमध्यभूतं त्वथ मध्यभूतम् ।
अनन्तभूतं त्वथवान्तभूतं तत् सर्वशून्यं प्रवदन्ति सन्तः
गमनागमनं च यत्र नास्ति क्षयवृद्धी न चाप्यभावभावौ ।
अतिविस्मयरूपम् अरूप्यविस्मयं स्थितिमन्नापि न चापि गत्वरम्
यदस्ति-नास्तिव्यवहारमुक्तं न पुण्यरूपं न च पापरूपम् ।
न पुण्यपापात्मकमग्रभूतं तत् सर्वशून्यं प्रवदन्ति बुद्धाः
एवंविधं तत्त्वमवाप्य योगी चराचरात्मा जगदेकबन्धुः ।
यः पर्यटेज्ज्ञानमयो नृसिंहः कृत्स्नं जगत् सो ऽव्ययकायलाभी
स जिह्यकायो ऽप्यविजिह्यकायः सो ऽनासनो ऽप्यासनबन्धधीरः ।
समीलिताक्षो ऽपि विबुद्धनेत्रः समाहितः सन्न समाहितौऽसौ
स वाग्युतो वागसमन्वितो ऽपि भोगान्वितः सो ऽपि विरुपवृत्तिः ।
स लोकनाथः परभृत्यभूतो यस्तत्त्ववित् क्षीणसमस्तदोषः
प्राप्तोपदेशकः शिष्यो द्विधा योगमथाभ्यसेत् ।
पिण्डग्राहक्रमेणैव तथा चैवानुभेदतः
शिरसः पादतो चापि यावद्धृदयमागतः ।
भूतकोटिं विशेद् योगी पिण्डग्राह इति स्मृतः
स्थावरं जङ्गमं चैव पूर्वं कृत्वा प्रभास्वरम् ।
पश्चात् कुर्यात् तथात्मानम् अनुभेदक्रमो ह्ययम्
श्वासवातो यथादर्शे लयं गच्छति सर्वतः ।
भूतकोटिं तथा योगी प्रविशोच्च मुहुर्मुहुः
गच्छंस्तिष्ठन् स्वपन् भुञ्जन्नुन्मिषन् निमिषन् हसन् ।
अनेन ध्यानयोगेन सदा तिष्ठति तत्त्ववित्
सत्त्वार्थो ऽपि कदाचित् स्यात् तत्तत्सारूप्यरश्मिना ।
वायुविज्ञानयुक्तेन स्वाधिष्ठानक्रमेण तु
यथा नदीजलात् स्वच्छान्मीनमुत्तिष्ठते द्रुतम् ।
सर्वशून्यात् तथा स्वच्छान्मायाजालमुदीर्यते
पञ्चबुद्धकुलायत्ता महामुद्रादिकल्पना ।
पञ्चरश्मिसमुच्छ्रेया गगने शक्रचापवत्
मुद्राबन्धं प्रकुर्याद् वा मन्त्रं चापि जपेद् यदि ।
सर्वमन्यत् प्रकुर्याच्च सर्वशून्यपदे स्थितः
सर्वभुक् सर्वपश्चैव सर्ववन्दी च सर्वगः ।
सर्वकृत् सर्वलिङ्गी च सर्वशून्येन सिध्यति
प्राप्तोपदेशः सुभगः सुशिष्यो बौधौ हि चित्तं परमार्थनाम ।
गुरोः सकाशात् पुनराददीत कृताञ्जलिर्धारितपुष्पहस्तः
सर्वभावविगतं स्कन्धधात्वायतनग्राह्यग्राहकवर्जितं धर्मनैरात्म्यसमतया स्वचित्तम् आद्यनुत्पन्नं शून्यतास्वभावमिति ।
ततस्तु गुरवे दद्याद् दक्षिणां त्वनुरूपतः ।
रत्नं गृहं वा हस्त्यश्वं ग्रामं वा शयनासनम्
दासं दासीं प्रियां भार्यां पुत्रीं चाप्यतिवर्णभाम् ।
आत्मानं चापि यद्दद्यात् किमन्यदवशिष्यते
प्राप्ताचार्यप्रसादो विमलदृढमतिः सर्वभावस्वभावः
स्वच्छं शुद्धं सुसूक्ष्मं परमशिवमयं बुद्धनिर्वाणधातुम् ।
निर्द्वन्द्वं निर्विकल्पं सततसुखमयं भावयेत् तत्त्वयोगी
पुण्यापुण्याद् विमुक्तः स्वयमिह भगवान् जायते वज्रसत्त्वः
मूल पाठ: Pañcakrama · Edition: Ram Ram Shankar Tripathi: Piṇḍīkramaḥ Pañcakramaś ca, Varanasi/Sarnath 2001 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0