भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 7.3

7.3.1

तिग्मेभिर् अग्ने अर्चिभिः
शुक्रेण देव शोचिषा ।
आमादो नि वह त्वम्
अन्यम् आसनि कृण्वताम् ॥

7.3.2

शोचिषाग्ने अर्चिषा च
निर् दहेतो अघायतः ।
सख्यम् आवं कृण्वहे त्वं च-
-आमाद उप शं भुवन् ॥

7.3.3

निर् आमादो नयामसि
निष् क्रव्यादो गृहेभ्यः ।
सस्यादो नाम ये देव
ते अग्ने मा दभन् त्वाम् ॥

7.3.4

आमादश् च क्रव्यादश् च
सस्यादश् चोभयान् सह ।
प्रजां ये चक्रिरे भागं
तान् इतो निर् णयामसि ॥

7.3.5

य आमेष्व् अरमन्त
न पक्वम् उपदाधृषुः ।
ते यन्तु सर्वे संभूय-
-अन्यत्रेतो ऽघायवः ॥

7.3.6

य एनस्वी दुष्कृतकृत्
किल्बिषकृतसाधी यः ।
पुनस् तान् यज्ञिया देवा
नयन्तु यत आगताः ॥

7.3.7

अव रेणुम् अव रजो
नेनिजे हस्त्यं मलम् ।
धाता नो भद्रया नेषत्
स नो गोपायतु प्रजाम् ॥

7.3.8

कृण्वे ऽहं रोदसी वर्म
स्याम सवितुः सवे ।
माता नो भद्रया भूमिर्
द्यौश् चास्मान् पात्व् अंहसः ॥

7.3.9

यद् असुराणाम् अहन्य्
अस्मान् पापा उपेथन ।
देवानां पयश् च दैव्यम्
आपः शुन्धन्तु माम् इमाः ॥

7.3.10

आ ते पितर् मरुतां सुम्नम् एमि
मा नः सूर्यस्य संदृशो युवथाः ।
अभि नो वीरो ऽर्वतीः क्षमेत
प्र जायामहै रुद्र प्रजया ॥

7.3.11

यो ऽवृद्धं हन्ति यो गर्भे अन्तर्
यो जातं जनितव्यं च पूरुषम् ।
तस्मा ऋध्यासं हविषाहम् अद्य
स नः प्रजां जरदष्टिं कृणोतु ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc