पैप्पलाद-संहिता · अध्याय 6.9
वृषायम् अंशुर् वृषभाय गृह्यते
वृषायम् उग्रो नृचक्षसे ।
दिव्यो नर्यो ऽचिक्रदन्
महन् नामर्षभस्य यत् ककुत् ॥
विषुवान् विष्णो भव
त्वं यो नृपतिर् मम ।
अथो इन्द्र इव देवेभ्यो
वि ब्रवीतु जनेभ्यः ॥
मनुष्येभ्यो वि ब्रवीतु
सजूर् इन्द्रेण मेदिना ।
अग्निश् च तुभ्यं साहन्त्यो
राष्ट्रं वैश्वानरो दधत् ॥
यस्यायं भाग ऋषभ
इन्द्राय परिणीयते ।
स हन्तु शत्रून् आयतो
अथो हन्तु परायतः ॥
स हन्ता शत्रोर् भवतु
हन्ता भवतु दोधताम् ।
विशाम् अह प्रणीर् अयद्
अग्रम् उद्भिन्दताम् असत् ॥
आयुष्मन्तं वर्चस्वन्तम्
अथो अधिपतिं विशाम् ।
अस्याः पृथिव्याश् चेत्तारम्
इमम् इन्द्रर्षभं कृणु ॥
यः सुशृङ्गः सुककुदः
कल्याणो बर्हिर् आसदत् ।
कार्षीवणप्रजानेन
ऋषभेण यजामहे ॥
ऋषभेण यजमाना
अक्रूरेणेव सर्पिषा ।
मृधश् च सर्वा इन्द्रेण
पृतनाश् च सहामहे ॥
यं तुभ्यं भागम् ऋषभं
देवाः केवल्यं ददुः ।
तेन वृत्राणि जङ्घनः
शत्रूंश् च जह्य् आहवे ॥
जहि शत्रून् वि मृधो नुदस्व
कृष्याः संभूतो असि वीर्यावान् ।
इन्द्राय भागं परि त्वा नयाम
उरुर् नो लोको अपृतन्यो अस्तु ॥
घृतवृद्ध घृताहुत
सहस्रशृङ्ग सुष्टुत ।
घृताहवन दीदिहि ॥
यो घृतेनाभिघारित
उग्रो जैत्राय तिष्ठसि ।
स नः सङ्कासु पारय
पृतनासाह्येषु च ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0