भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 6.19

6.19.1

सं भगो वर्चसा माग्ने
सं विष्णुः पुष्ट्या सिचत् ।
क्षत्रं सम् अस्मान् सिञ्चतु
प्रजया च धनेन च-
-आयुष्मन्तं कृणोतु मा ॥

6.19.2

सं विराड् वर्चसा माग्ने
सं देष्ट्री पुष्ट्या सिचत् ।
इडा सम् अस्मान् सिञ्चतु
प्रजया च (…) ॥

6.19.3

सं धाता वर्चसा माग्ने
सं सिक्तिः पुष्ट्या सिचत् ।
सं देवो अस्मान् अर्यमा
प्रजया च (…) ॥

6.19.4

सम् अंशो वर्चसा माग्ने
सं वायुः पुष्ट्या सिचत् ।
वातः सम् अस्मान् सिञ्चतु
प्रजया च (…) ॥

6.19.5

सं सभा वर्चसा माग्ने
सं सुरा पुष्ट्या सिचत् ।
सूर्या सम् (…) ॥

6.19.6

सं सविता वर्चसा माग्ने
सं सूर्यः पुष्ट्या सिचत् ।
चन्द्रः सम् (…) ॥

6.19.7

सं पशवो वर्चसा माग्ने
सं यज्ञः पुष्ट्या सिचत् ।
दक्षिणा सम् (…) ॥

6.19.8

सं मा सिञ्चतु द्रविणं
सं मा सिञ्चत्व् इन्द्रियम् ।
तेजः सम् (…) ॥

6.19.9

सं मा सिञ्चन्तु वर्चांसि
सं मा सिञ्चन्तु भूतयः ।
सत्यं सम् अस्मान् सिञ्चतु
प्रजया च धनेन च-
-आयुष्मन्तं कृणोतु मा ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc