पैप्पलाद-संहिता · अध्याय 6.18
सं मा सिञ्चन्तु मरुतः
सं पूषा सं बृहस्पतिः ।
सं मायम् अग्निः सिञ्चतु
प्रजया च धनेन च
दीर्घम् आयुष् कृणोतु मे ॥
(…) सिञ्चन्त्व् आदित्याः
सं मा सिञ्चन्त्व् अग्नयः ।
इन्द्रः सम् अस्मान् सिञ्चतु (…) ॥
(…) सिञ्चन्त्व् अरुषाः
सम् अर्का ऋषयश् च ये ।
पूषा सम् (…) ॥
(…) सिञ्चन्तु गन्धर्वाप्सरसः
सं मा सिञ्चन्तु देवताः ।
भगः सम् (…) ॥
(…) सिञ्चन्तु पृथिवीः
सं मा सिञ्चन्तु या दिवः ।
अन्तरिक्षं सम् (…) ॥
(…) सिञ्चन्तु प्रदिशः
सं मा सिञ्चन्तु या दिशः ।
आशा सम् (…) ॥
(…) सिञ्चन्तु नद्यः
सं मा सिञ्चन्तु सिन्धवः ।
समुद्रः सम् (…) ॥
(…) सिञ्चन्तु कृषयः
सं मा सिञ्चन्त्व् ओषधीः ।
सोमः सम् (…) ॥
सं मा सिञ्चन्तु या आपः
सं मा सिञ्चन्तु वृष्टयः ।
सरस्वती सम् अस्मान् सिञ्चतु
प्रजया च धनेन च
दीर्घम् आयुष् कृणोतु मे ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0