पैप्पलाद-संहिता · अध्याय 6.15
यश् च भूमा या च स्फातिर्
योर्जा यो रसश् च ते ।
हरामि शक्र ताँ अहं
त्वया प्रत्तां शचीपते ॥
क्षेत्रात्क्षेत्राद् आ हरामि
स्फातिं सर्वां शचीपते ।
त्वयाहं वृत्रहन् प्रत्तम्
आ हरामि गृहाँ उप ॥
यस् ते सीताभगः क्षेत्रे
या राद्धिर् यच् च शीयते ।
अथो या निष्ठा ते क्षेत्रे
तां त आदिषि ब्रह्मणा ॥
यत् खले यन् मयारे
यद् गोष्ठे यच् च शेवधौ ।
अथो यत् कुम्भ्यां शये
तस्य ते रसम् आ ददे ॥
ऊर्जा या ते निरुप्तस्य-
-ऊर्जा यावहतस्य ते ।
ऊर्जां ते पिष्यमाणस्य-
-ऊर्जां पिष्टात् त आ ददे ॥
(…) ते निरुप्तस्य-
-ऊर्जा यावहतस्य ते ।
ऊर्जां ते पच्यमानस्य-
-ऊर्जां पक्वात् ते (…) ॥
ऊर्जा या ते प्रणद्धस्य -
-ऊर्जा या मथितस्य ते ।
ऊर्जां ते दुह्यमानस्य-
-ऊर्जां दुग्धात् त आ ददे ॥
आ ते ददे गवाम् ऊर्जाम्
ऊर्जाम् अविभ्य आ ददे ।
अजाभ्य ऊर्जाम् आदाय-
-आ त एकशफाद् ददे ॥
ऊर्जा या ते पुरुषेषु-
-ऊर्जा वित्ते च वेद्ये ।
ऊर्जां ते सर्वेषाम् अहं
गृहाणां ब्रह्मणा ददे ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0