पैप्पलाद-संहिता · अध्याय 5.35
अग्नये सम् अनमन् तस्मै पृथिव्या सम् अनमन् ।
यथाग्नये पृथिव्या समनमन्न्
एवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून्
ब्रह्म ब्राह्मणवर्चसम् ।
संनतय स्थ सं मे नमत स्वाहा ॥
वायवे सम् अनमन् तस्मा अन्तरिक्षेण सम् अनमन् ।
यथा वायवे अन्तरिक्षेण समनमन्
(…) ॥
सूर्याय सम् अनमन् तस्मै दिवा सम् अनमन् ।
यथा सूर्याय दिवा समनमन्
(…) ॥
चन्द्राय सम् अनमन् तस्मै नक्षत्रैः सम् अनमन् ।
यथा चन्द्राय नक्षत्रैः समनमन्
(…) ॥
सोमाय सम् अनमन् तस्मा ओषधीभिः सम् अनमन् ।
यथा सोमायौषधीभिः समनमन्
(…) ॥
यज्ञाय सम् अनमन् तस्मै दक्षिणाभिः सम् अनमन् ।
यथा यज्ञाय दक्षिणाभिः समनमन्
(…) ॥
समुद्राय सम् अनमन् तस्मै नदीभिः सम् अनमन् ।
यथा समुद्राय नदीभिः समनमन्
(…) ॥
ब्रह्मणे सम् अनमन् तस्मै ब्रह्मचारिभिः सम् अनमन् ।
यथा ब्रह्मणे ब्रह्मचारिभिः समनमन्
(…) ॥
इन्द्राय सम् अनमन् तस्मै वीर्येण सम् अनमन् ।
यथेन्द्राय वीर्येण समनमन्
(…) ॥
देवेभ्यः सम् अनमन् तेभ्यो ऽमृतेन सम् अनमन् ।
यथा देवेभ्यो ऽमृतेन समनमन्
(…) ॥
प्रजापतये सम् अनमन् तस्मै प्रजाभिः सम् अनमन् ।
यथा प्रजापतये प्रजाभिः समनमन्न्
एवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून्
ब्रह्म ब्राह्मणवर्चसम् ।
संनतय स्थ सं मे नमत स्वाहा ॥
सप्त संनमो
ऽष्टमी धीतिसाधनी ।
सकामान् अध्वनः कृणु
संज्ञानम् अस्तु वो धने ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0