पैप्पलाद-संहिता · अध्याय 5.29
सूर्ये वर्च इति यच् छुश्रवाहं
येन प्रजा ज्योतिरग्राश् चरन्ति ।
सोमे वर्चो यद् गोषु वर्चो
मयि देवा राष्ट्रभृतस् तद् अक्रन् ॥
यज्ञे वर्चो मरुतो यद् अदृंहन्
वायुः पशून् असृजत् सं भगेन ।
गन्धर्वाणाम् अप्सरसां यद् अप्सु
मयि (…) ॥
यज्ञे वर्चो यजमाने च वर्च
उदाभिषिक्ते राजनि यच् च वर्चः ।
दक्षिणायां वर्चो अधि यन्
(…) ॥
रथे वर्चो रथवाहने च वर्च
इषुधौ वर्चः कवचे च वर्चः ।
अश्वेषु वर्चो अधि यन्
(…) ॥
सभायां वर्चः समित्यां च वर्चो
वध्वां वर्च उत वर्चो वरेषु ।
सुरायां वर्चो अधि यन्
(…) ॥
सिंहे वर्च उत वर्चो व्याघ्रे
वृके वर्चो मधुहारे च वर्चः ।
श्येने वर्चः पत्वनां यद् बभूव
(…) ॥
हिरण्यवर्चसम् उत हस्तिवर्चसं
संग्रामं यज् जज्ञुषां वर्च आहुः ।
कृष्यां क्षेत्र ऋषयो जन्यानजुर्
मयि देवा राष्ट्रभृतस् तद् अक्रन् ॥
मयि वर्चो मयि श्रवो
मयि द्युम्नं मयि त्विषिः ।
अधस्पदं पृतन्यवो
ऽहं भूयासम् उत्तमः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0