भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 5.17

5.17.1

देवैनसाद् उन्मदितं
क्षेत्रियाच् छपथाद् उत ।
मुञ्चन्तु तस्मात् त्वा देवा
उन्मत्तं रक्षसस् परि ॥

5.17.2

मुनिं भवन्तं परि यानि वावृतू
रक्षांस्य् अग्न उलुला करिक्रतु ।
अतस् त्वं नो अधि पाहि वाजिन्न्
इन्द्रेण मेदी बृहते रणाय ॥

5.17.3

यथाग्ने देवा ऋभवो मनीषिणो
मुनिम् उन्मत्तम् असृजन् निर् एनसः ।
एवा ते शक्रो अभयं कृणोतु
मुच्यस्वैनसो वि नयामि रक्षः ॥

5.17.4

यथा गावश् च भूम्यां
पुरुषाश् च न्योकसः ।
एवोन्मत्तस्य ते मुने
गृह्णातु पृथिवी मनः ॥

5.17.5

मुनिं दाधार पृथिवी
मुनिं द्यौर् अभि रक्षति ।
मुनिं हि विश्वा भूतानि
मुनिम् इन्द्रो अदीधरत्
परा रक्षः सुवामि ते ॥

5.17.6

इमं मे अग्ने पुरुषं मुमुग्धि
य आवित्तो ग्राह्या लालपीति ।
अतो *ऽधि ते कृणवद् भागधेयम्
अनुन्मदितो अगदो यथासत् ॥

5.17.7

अग्निष् टे नि शमयतु
यत् त एतन् मन उह्यते ।
जुहोमि विद्वांस् ते हविर्
यथानुन्मदितो भुवः ॥

5.17.8

पुनस् त्वा दुर् अप्सरसः
पुनर् वातः पुनर् दिशः ।
पुनर् यमः पुनर् यमस्य दूतास्
ते त्वा मुञ्चन्त्व् अंहसः ।
जिवातवे न मर्तवे
ऽथो अरिष्टतातये ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc