भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 5.1

5.1.1

नमः पिशङ्गबाह्वै
सिन्धौ जाताया उग्रायै ।
यो अस्यै नम इत् करद्
अपेद् अस्य गृहाद् अयत् ॥

5.1.2

अपेहि नो गृहेभ्यो
अपेहि वत्सतन्त्याः ।
आत्मानम् अत्र रोत्स्यस्य्
अव रोह महानसात् ॥

5.1.3

हा अम्ब सुहूतले
अथो है सामनन्तमे ।
पुत्रो यस् ते पृश्निबाहुस्
तम् उ त्वं सामनं कृधि ।
अथो दुहितरं नप्त्रीम्
अथो त्वं सामना भव ॥

5.1.4

भूतपतिर् निर् अजत्व्
इन्द्रश् चेतः सदान्वाः ।
गृहस्य बुध्न आसीनास्
ता वज्रेणाधि तिष्ठतु ॥

5.1.5

अपेतेतः सदान्वा
अहिंसन्तीर् इमं गृहम् ।
धेनुर् वात्र य स्थास्यत्य्
अनड्वान् वेरया सह ॥

5.1.6

या सहमाना चरसि
सासहान इव र्षभः ।
सदान्वाघ्नीं त्वा वयं
जैत्रायाच्छा वदामसि ॥

5.1.7

सहस्व नो अभिमातिं
सहस्व पृतनायतः ।
सहस्व सर्वा रक्षांसि
सहमानास्य् ओषधे ॥

5.1.8

त्वं व्याघ्रान् सहसे
त्वं सिंहाँ उभयादतः ।
मक्षाश् चित् कृण्वाना मधु
त्वं सहस ओषधे ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc