पैप्पलाद-संहिता · अध्याय 4.19
इयत्तिका शकुन्तिका
सका जघास ते विषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा
मधु त्वा मधुला करत् ॥
सूर्ये विषम् आ सृजामि
दृतिं सुरावतो गृहे ।
(…) ॥
त्रिषप्ता विस्फुलिङ्गका
विषस्य पुष्पकम् अक्षन् ।
(…) ॥
आल्वन्तरुटं विषं विदारी
करम्भो अरसं विषम् ।
(…) ॥
वार् उग्रम् अरसं विषम्
अग्निश् च विश्वचर्षणिः ।
(…) ॥
शकुन्तिका मे अब्रवीद्
विषपुष्पं धयन्तिका ।
(…) ॥
न रोपयति न मादयति
न विषं हन्ति पूरुषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा
मधु त्वा मधुला करत् ॥
नवानां नवतीनाम् इत्य् एका ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0