पैप्पलाद-संहिता · अध्याय 3.37
स्मर स्मरो ऽसि
देवैर् दत्तो ऽसि स्मर ।
अमुष्य मन आ स्मर
यथाहं कामये तथा ॥
शोचयास्य हृदयं काम गच्छ-
-अङ्गज्वरो दहतु शोचतु त्मना ।
सङ्कल्पा अस्य समरन्ताधीभिर्
इयम् एवास्य दिगमहन्यन्याः ॥
निरानन्दाः प्रमुच्छदो मनोमुहो
नयुवो नष्टकृत्वा अरण्यवः ।
आवेशिनीः प्रद्रुपो रोपयिष्णुर्
एत आस्ताध्यः प्र हिणोमि ब्रह्मणा ॥
हृत्कर्तनी ऋतुदा ग्रामान्नाशनीः
स्वप्नच्छिद उघ्ननीघ्ना मनोमुहः ।
आवेशिनीः प्रद्रुपो रोपयिष्णुर्
एत आस्ताध्यः प्र हिणोमि ब्रह्मणा ॥
इन्द्राग्नी मित्रावरुणा ते अद्य-
-उभे च द्यावापृथिवी मातरिश्वा ।
अश्विना देवः सविता भगश् च
मनस् त उ घ्नन्तु न रमासा अत्र ॥
त्रयस्त्रिंशत् त्वा उत घ्नन्तु देवा
आध्यश् चित्तम् उप ते भरन्ताम् ।
भरद्वाजस्य मतयस् त ईशतां
छिन्नेव नौर् बन्धनात् प्र प्लवस्व ॥
एताः पतन्त्य् आध्यो
वार्षिकीर् इव विद्युतः ।
तासां प्रतिग्रहो भव
सायं गोष्ठे गवाम् इव ॥
नि शीर्षतो नि पातित
आध्यो वेशयामि ते ।
तास् त्वा समुत्तुदन्तीर्
बोधयन्तीर् उपासताम् ॥
एतास् त आध्यः प्र हिणोमि ब्रह्मणा
तृप्रा अश्रीपुरोगवाः ।
तास् त्वा तृणम् इव शोषयान्
अथो त्वा रोदयान् बहु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0