भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 3.34

3.34.1

अयं ते योनिर् ऋत्वियो
यतो जातो अरोचथाः ।
तं जानन्न् अग्न आ रोह-
-अथा नो वर्धया रयिम् ॥

3.34.2

प्रदातारं हवामहे
अग्निम् उग्रम् ऊतये ।
शुचिर् यो वृत्रहन्तमः ॥

3.34.3

अग्ने अच्छा वदेह नः
प्रत्यङ् नः सुमना भव ।
प्र णो यच्छ विशां पते
धनदा असि नस् त्वम् ॥

3.34.4

प्र णो यच्छत्व् अर्यमा
प्र भगः प्र बृहस्पतिः ।
प्र पूषा प्रोत सूनृता
रयिं देवी दधातु नः ॥

3.34.5

अर्यमणं बृहस्पतिम्
इन्द्रं दानाय चोदय ।
वातं विष्णुं सरस्वतीं
सवितारं च वाजिनम् ॥

3.34.6

सोमं राजानम् अवसे
ऽग्निं गीर्भिर् हवामहे ।
आदित्यं विष्णुं सूर्यं
ब्रह्माणं च बृहस्पतिम् ॥

3.34.7

इन्द्रवायू बृहस्पतिः
सुहवेह हवामहे ।
यथा नः सर्वम् इज् जगत्
सङ्गत्यां सुमना असत् ॥

3.34.8

त्वं नो अग्ने अग्निभिर्
ब्रह्म यज्ञं च वर्धय ।
त्वं नो देव दातवे
रयिं दानाय चोदय ॥

3.34.9

वाजस्येदं प्रसवे संबभूव
मेमा च विश्वा भुवनान्य् अन्तः ।
उतादित्सन्तं दापयति प्रजानन्
रयिं च नः सर्ववीरं नि यच्छात् ॥

3.34.10

दुह्रां मे पञ्च प्रदिशो
दुह्राम् उर्वीर् यथाबलम् ।
प्रापेयं सर्वाम् आकूतिं
मनसा हृदयेन च ॥

3.34.11

गोसनिं वाचम् उदेयं
वर्चसा माभ्य् ऊर्णुहि ।
आ रुन्धां सर्वतो वायुस्
त्वष्टा पोषाय ध्रियताम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc