भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 3.19

3.19.1

संशितं म इदं ब्रह्म
संशितं वीर्यं मम ।
संशितं क्षत्रं मे जिष्णु
येषाम् अस्मि पुरोहितः ॥

3.19.2

सम् अहम् एषां राष्ट्रं श्यामि
सम् ओजो वीर्यं बलम् ।
वृश्चामि शत्रूणां बाहू
सं श्यामि स्वान् अहम् ॥

3.19.3

तेक्ष्णीयांसः पर्शोर्
अग्नेस् तीक्ष्णतरा उत ।
इन्द्रस्य वज्रात् तेक्ष्णियांसो
येषाम् अस्मि पुरोहितः ॥

3.19.4

अधस् पद्यन्ताम् अधरे भवन्तु
ये न इन्द्रं मघवानं पृतन्यान् ।
क्षणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥

3.19.5

एषाम् अहम् आयुधा सं श्याम्य्
एषां राष्ट्रं सुवीरं वर्धयामि ।
एषां क्षत्रम् अजरम् अस्तु जिष्णु-
-उग्रम् एषां चित्तं विश्वे वन्तु देवाः ॥

3.19.6

अभि प्रेत जयत प्रसूताः
सं वः श्यामि नर आयुधानि ।
तीक्ष्णेषवो बलधन्वनो हत-
-उग्रायुधा अबलान् उग्रबाहवः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc