भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.36

20.36.1

इन्द्राणी नारी सुभगा सुपत्न्य्
उद् अंशेन पतिविद्ये बिभेद ।
त्रिंशद् यस्या जघनं योजनान्य्
उपस्थ इन्द्रं स्थविरं पिपर्तु ॥

20.36.2

सेनासि पृथिवी धनंजय् -
-आदितिर् विश्वरूपा सूर्यत्वक् ।
इन्द्राणी प्राषाट् संजयन्ती
तस्यै त एना हविषा विधेम ॥

20.36.3

अजिरोत्तिष्ठन्त्य् उत्थिताग्रे
त्वरी प्राषाट् तूर्तम् उपचरन्तीम् ।
प्राषाट् कस् त्वरिषा त्वाग्रे
त्वरिकस् त्वयिषमेस त्वा भद्रे ॥

20.36.4

पर्यावर्ते दुष्वप्न्यात्
पापात् स्वप्नाद् अभूत्याः ।
ब्रह्माहम् अन्तरं कृण्वे
परा स्वप्नमुखाः शुचः ॥

20.36.5

यत् स्वप्ने अन्नम् अश्नामि
न प्रातर् अधिगम्यते ।
सर्वं तद् अस्तु नः शिवं
नहि तद् दृश्यते दिवा ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc