भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.35

20.35.1

सं वर्चसेत्य् एका ॥

20.35.2

संस्रावभागास् तविषा बृहन्तः
प्रस्तरेष्ठा बर्हिषदश् च देवाः ।
इमं यज्ञम् अभि विश्वे गृणन्तः
स्वाहा देवा अमृता मादयन्ताम् ॥

20.35.3

यान् आवह उशतो देव देवांस्
तान् प्रेरय पुनर् अग्ने स्वे सधस्थे ।
जक्षिवांसः पपिवांसो मधून्य्
अस्मै धत्त वसवो वसूनि ॥

20.35.4

अयं नो यज्ञो अप्य् एतु देवान्
उत्तरां वेदिम् अप्य् एतु वेदिः ।
वि मुञ्चाम्य् ऋत्विजो दक्षिणाभिर्
देवा यक्षीष्ट पुनर् उत्तरावत् ॥

20.35.5

यज्ञ यज्ञं गच्छ
यज्ञपतिं गच्छ ।
स्वां योनिं गच्छ स्वाहा ॥

20.35.6

एष ते यज्ञो यजमान सहसूक्तनमोवाकः ।
सुवीरः स्वाहा ॥

20.35.7

मनसस्पत इमं देव यज्ञम् ।
स्वाहा वाचि स्वाहा वाते धाः स्वाहा ॥

20.35.8

स्वाहा हुतेभ्यो
वषड् ढुतेभ्यः ।
देवा गातुविदो गातुं वित्त्वा गातुम् इत स्वाहा ॥

20.35.9

सं बर्हिर् अक्तं हविषा घृतेन
सम् इन्द्रेण वसुभिः सं मरुद्भिः ।
सं देवेभिर् विश्वदेवेभिर् अक्तम्
इन्द्रं गच्छतु यत् स्वाहा ॥

20.35.10

आशासाना सौमनसं
प्रजां चक्षुर् अथो बलम् ।
इन्द्राण्या अनुव्रतं
सं नह्ये अमृताय कम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc