पैप्पलाद-संहिता · अध्याय 20.3
इदं ते हव्यं घृतवत् सरस्वत्-
-ईदं पितॄणां हविरास्यं यत् ।
इमानि त उदिता शंतमानि
तेभिर् वयं मघवानः स्याम ॥
प्रपथे पथाम् अजनिष्ट पूषा
प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे
आ च परा च चरति प्रजानन् ॥
पूषेमा आशा अनु वेद सर्वाः
सो अस्माँ अभयतमेन नेषत् ।
स्वस्तिदा आघृणिः सर्ववीरो
+ऽप्रयुच्छन् पुर एतु प्रजानन् ॥
पूषा गा अन्व् एतु नः
पूषा रक्षत्व् अर्वतः ।
पूषा वाजं सनोतु नः ॥
पूषन् तव व्रते वयं
न रिष्येम कदा चन ।
स्तोतारस् त इह स्मसि ॥
शुक्रं ते अन्यद् यजतं ते अन्यद्
विषुरूपे अहनी द्यौर् इवासि ।
विश्वा हि माया अवसि स्वधावो
भद्रा ते पूषन्न् इह रातिर् अस्तु ॥
धाता दधातु दाशुषे
प्राञ्चं जीवातुम् अक्षितम् ।
वयं देवस्य धीमहि
सुमतिं सत्यधर्मणः ॥
धाता विश्वानि दाशुषे दधातु
प्रजाकामाय दाशुषे दुरोणे ।
तस्य प्रजा अमृताः सं व्ययन्तु
विश्वे देवासो अदितिः सजोषाः ॥
धाता रातिः सवितेदं जुषन्तां
प्रजापतिर् निधिपतिर् नो अग्निः ।
त्वष्टा पूषा प्रजया संरराणो
यजमानाय द्रविणं दधातु ॥
धाता प्रजानाम् उत राय ईशे
धातेदं विश्वं भुवनं जजान ।
सं दाशुषे वहतु भूरि पुष्टा
तस्मै देवाय हविषा विधेम ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0