भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.60

2.60.1

यज्ञं यन्तं तपसा बृहन्तम्
अन्व् आ रोहामि मनसा सयोनिः ।
उपहूता अग्ने जरसः परस्तात्
तृतीये नाके सधमादं मदेम ॥

2.60.2

तं प्रजानन् प्रति गृह्णातु विद्वान्
प्रजापतिः प्रथमजा ऋतस्य ।
अस्माभिर् दत्तं जरसः परस्ताद्
अच्छिन्नं तन्तुम् अनु सं चरेम ॥

2.60.3

श्येनः सुपर्णो दिव्यो नृचक्षाः
सहस्रपाच् छतयोनिर् वयोधाः ।
स नो नि यंसद् वसु यत् पराभृतम्
अस्माकम् अस्तु पितृषु स्वधावत् ॥

2.60.4

एतं सधस्थाः परि वो ददामि
यम् आवहाच् छेवधिं जातवेदाः ।
अन्वागन्ता यजमानः स्वस्ति
तं स्म जानीत परमे व्योमन् ॥

2.60.5

जानीत स्मैनं परमे व्योमन्
देवाः सधस्था विद लोकम् एतम् ।
इष्टापूर्तम् अनु सं क्राम विद्वान्
यत्र ते दत्तं बहुधा विबन्धुषु ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc