पैप्पलाद-संहिता · अध्याय 19.9
इदावत्सराय परिवत्सराय
संवत्सराय कृणुता बृहन् नमः ।
तेषां वयं सुमतौ यज्ञियानाम्
अपि भद्रे सौमनसे स्याम ॥
ये वः पन्था बहवो देवयाना
अनु द्यावापृथिवी संचरन्ती ।
तेषाम् अज्यानिं यतमो न आवहात्
तस्मै नो देवाः परि धत्त सर्वे ॥
शरद् धेमन्तः शिशिरो वसन्तो
ग्रीष्मो वर्षाः सुविते नो दधात ।
आ नो गोषु भजतौषधीषु
निवात इद् वः शरणे स्याम ॥
वैश्वानरो न ऊतय
आ प्र यातु परावतः ।
अग्निर् उक्थैर् नो अंहसः ॥
वैश्वानरो न आ गमद्
इमं यज्ञं सजूर् उप - ।
-इमां सुष्टुतिं मम ॥
वैश्वानरो नो अङ्गिरोभि
स्तोमं यज्ञं च चाक्ल्̥पत् ।
ऐषु द्युम्नं स्वर् यमत् ॥
अजैषं त्वा संलिखितम्
अजैषम् उत संरुधम् ।
अविं वृको यथा मथद्
एवा मथ्नामि ते कृतम् ॥
यथा वृक्षम् अशनिर्
विश्वहा हन्त्य् अप्रति ।
एवाहम् अमुं कितवम्
अक्षैर् वध्यासम् अप्रति ॥
तुराणाम् अतुराणां
विशां देवयतीनाम् ।
सम् ऐतु विश्वतो भगो
अन्तर्हस्तं कृतं मम ॥
यावद् द्यौर् यावत् पृथिवी
यावद् आभाति सूर्यः ।
तावत् सृजामि ते विषं
यावद् अर्षन्ति सिन्धवः ॥
उच्छ्वसन्त उद् ईरते
गाव आवसथाद् इव ।
अहीनां पश्यता विषम्
अपवक्ता न विद्यते ॥
आ जघान पृषद्धनुः
सङ्गथे धमनीनाम् ।
मूर्धानं विषम् आस्कद्य-
-अङ्गानि व्य् असिस्रसत् ॥
मा नो देवा अहिर् वधीत्
सन्तोकान् सहपूरुषान् ।
संयतं न वि ष्परद्
व्यात्तं न सं यमत् ॥
सं ते दधामि दद्भिर्
दतः सं ते हन्वा हनू ।
सं ते जिह्वया जिह्वां
सं त आस्नाह आस्यम् ॥
नमो ऽहये असिताय
नमस् तिरश्चिराजये ।
स्वजाय बभ्रवे नमो
नमो देवजनेभ्यः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0