पैप्पलाद-संहिता · अध्याय 19.6
इन्द्रस्य वचसा वयं
मित्रस्य वरुणस्य च ।
देवानां सर्वेषां वाचा
यक्ष्मं ते वारयामहे ॥
यथा वृत्र इमा आपस्
तस्तम्भ विश्वधा यतीः ।
एवा ते अग्निना यक्ष्मं
वैश्वानरेण वारये ॥
ध्रुवं ध्रुवेण हविषा-
-अभि सोमं मृशामसि ।
अत्रा त इन्द्रः केवलीर्
विशो बलिहृतस् करत् ॥
आ त्वाहार्षम् अन्तर् अभूर्
ध्रुवस् तिष्ठाविचाचलत् ।
विशस् त्वा सर्वा आ यन्तु
मा त्वद् राष्ट्रम् अधि भ्रशत् ॥
इहैवैधि माप च्योष्ठाः
पर्वत इवाविचाचलत् ।
इन्द्रेह ध्रुवस् तिष्ठ-
-इह राष्ट्रं नि धारय ॥
इन्द्र एतम् अदीधरद्
ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रुवद्
अयं च ब्रह्मणस्पतिः ॥
ध्रुवं ते देवः सविता
ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश् चाग्निश् च
राष्ट्रं धारयतां ध्रुवम् ॥
ध्रुवा द्यौर् ध्रुवा पृथिवी
समुद्राः पर्वता ध्रुवाः ।
ध्रुवा ह धर्मणा ध्रुवा
ध्रुवो राजा विशाम् अयम् ॥
वृषेन्द्रस्य वृषा दिवो
वृषा पृथिव्या अयम् ।
वृषा विश्वस्य भूतस्य
त्वम् एकवृषो भव ॥
समुद्र ईशे स्रवताम्
अग्निः पृथिव्या वशी ।
सूर्यो नक्षत्राणाम् ईशे
त्वम् (…) ॥
सम्राड् अस्य् असुराणां
ककुन् मनुष्याणाम् ।
देवानाम् अर्धभाग् असि
त्वम् एकवृषो भव ॥
परि वर्त्मान्य् एषाम्
इन्द्रः पूषा च सस्रतुः ।
मुह्यन्त्व् अद्यामूः सेना
अमित्राणां परस्तराम् ॥
मुग्धा अमित्राश् चरन्त-
-अशीर्षाण इवाहयः ।
अथैषाम् अग्निरुद्धानाम्
इन्द्रो हन्तु वरं-वरम् ॥
ऐषु नह्य वृषाजिनं
हरिणस्य भियं कृधि ।
पराङ् अमित्र एषत्व्
अर्वाची गौर् उपेषतु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0