भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 19.26

19.26.1

अग्निश् च देव सवितर्
इषम् ऊर्जं दधानौ ।
पातं मा दुश्चरिताद्
आ मा सुचरिते भजतं
युवयोर् अवसा सुम्नम् अशीय ॥

19.26.2

इदं तद् उप युव इदं तद् उप ह्वये
यच् छुश्रुमा त्वत् परि ।
वाचस्पतिर् नि यच्छतु
मय्य् एवास्तु मम श्रुतम् ॥

19.26.3

मापत्याय स्तेयं करं
मा श्रुतेन वि राधिषि ।
अमोघम् अस्माकं श्रान्तम्
अग्ने द्रविणवत् कृधि ॥

19.26.4

मध्यमेष्ठा वर्चस्वत्या-
-आयुषे वर्चसे कृतम् ।
वनुष्व विश्वदेवेषु
वनुष्व त्वं बृहस्पतौ ॥

19.26.5

घृतेन प्रजां वनुते
घृतेन रयिम् अश्नुते ।
घृतेनायुष्यं वर्चस्यं
देवेभ्यो वनुते परि ॥

19.26.6

पर्जन्य पिप्पलास् तुभ्यं
नद्यो गर्भं स्वस्तये ।
मर्यादा ब्रह्मदेवीर्
आयुष्यं वर्च आसिचन् ॥

19.26.7

यथा हस्ती हस्तिन्याः
पदेन पदम् अन्व् अगात् ।
एवा त्वम् अघ्न्ये वत्सस्य
पदेन पदम् अन्व् इहि ॥

19.26.8

यथा रथस्य चक्रे
वि पथः पांसुम् अस्यथः ।
एवा मनो व्य् अस्यामि
हृदयं वननाय कम् ॥

19.26.9

इन्द्रस्य प्रथमं वचो
देवानाम् अपरं वचः ।
तृतीयम् अश्विनोर् वचस्
तेन गां वानयामसि ॥

19.26.10

उद् इतः श्यावौ विथुरौ
दिवं गृध्राव् इवेयथुः ।
शोचनाव् अतिशोचनाव्
अस्योच्छोचनौ हृदः ॥

19.26.11

शोचयाभि शोचया
दीपयोप दीपय ।
अहेर् अग्ने विषं त्वं
तृणम् इव कल्वलं दह ॥

19.26.12

सीदतं निषत्ताराव्
अवेतं मोद् गतम् ।
कृष्णा वां गौः सारस्वती ॥

19.26.13

यथा रात्री कृष्णतमा
गौः कृष्णा कृष्णवर्तनिः ।
शाचीःप्यवो यथा रूपम्
एवेदं मामकं शिरः ॥

19.26.14

यथाङ्गरो ऽभिषिक्तो
दर्विदाको यथासितः ।
अनुष्यङ्गस्य कल्मषम्
एवेदं मामकं शिरः ॥

19.26.15

यथा दावाद् दह्यमानात्
कृष्णो ज्वालो ऽपध्वंसते ।
नैषाद् अस्य यथा मुखम्
एवेदं मामकं शिरः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc