पैप्पलाद-संहिता · अध्याय 19.19
अव मा पाप्मन् सृज
वशी सन् मृडयासि नः ।
आ मा भद्रेषु धामसु
त्वं धेह्य् अविह्रुतम् ॥
यो मा पाप्मन् न जहासि
तम् उ त्वा जहिमो वयम् ।
अन्यत्रास्मन् न्य् उच्य
सहस्राक्षामर्त्य ॥
पथोर् वयं व्यावर्तने
निष्पाप्मानं सुवामसि ।
यो नो द्वेष्टि तं गच्छ
यं द्विष्मस् तं जहि ॥
शव इवासि संनद्धो
न भोगम् अविदं त्वयि ।
शिरो भिनद्मि ते पाप्मन्
यथा न पुनर् आयसि ॥
इन्द्रो अस्मान् दिवा पातु
मृत्योः पाशात् स्वस्तये ।
द्यौर् नो मध्यतः पातु
भूमी राज्ञी स्वस्तये ॥
सूर्यो अस्मान् दिवा पातु
मृत्योः पाशात् स्वस्तये ।
वातो नो मध्यतः पात्व्
अहोरात्री स्वस्तये ॥
सोमो अस्मान् दिवा पातु
मृत्योः पाशात् स्वस्तये ।
आपो नो मध्यतः पान्तु
मा नो निरृतिर् ईशत ॥
सं वां चक्षुः सं हृदयं
मनसावीवनं मनः ।
अस्याः सरूपवत्साया
घृते होमेन सर्पिषा ॥
यत् कक्षीवान् संवननं
पुत्रो अङ्गिरसाम् अवेत् ।
तेन वाम् अद्य देवाः
सं प्रिया सम् अवीवनन् ॥
संवननं वां मनसो
अथो संवननं हृदः ।
अथो भगस्य यच् छ्रान्तं
तेन सं वानयामि वाम् ॥
अहं ते मनसा मनश्
चक्षुर् गृह्णामि चक्षुषा ।
एवा परि ष्वजस्व मा
यथासन् मयि ते मनः ॥
आ रथस्येव चक्रे
अभि मा वर्तताम् असौ ।
रेष्मच्छिन्नं यथा तृणं
वेष्टासौ मनसा मयि ॥
परि त्वा यातुर् असरं
परि मातुः परि स्वसुः ।
परि त्वान्याभ्य स्त्रीभ्यो
ऽनयौषध्यासरम् ॥
य इन्द्रस्य सभाधानो
यस्मिन् समितिम् आसते ।
हिरण्यं यस्य पर्णानि
तस्मा अश्वत्थ ते नमः ॥
यः शाखाभिर् अन्तरिक्षम्
आ पूरयति निष्ठया ।
छन्दांसि यस्य पर्णानि
तस्मा अश्वत्थ ते नमः ॥
यं मृगो न समाप्नोति
पक्षाभ्यां शकुनिष् पतन् ।
दिवं यः सर्वां स्तभ्नाति
तस्मा अश्वत्थ ते नमः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0