भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 18.9

18.9.1

यदा गार्हपत्यम् असपर्यैत्
पूर्वम् अग्निं वधूर् इयम् ।
अधा सरस्वत्यै नारि
पितृभ्यश् च नमस् कुरु ॥

18.9.2

चर्म वर्मैतद् आ हर-
-अस्यै नार्या उपस्तिरे ।
सिनीवालि प्र जायतां
भगस्य सुमताव् असत् ॥

18.9.3

उप स्तृणीहि बल्बजम्
अधि चर्मणि रोहिते ।
तत्रोपविश्य सुप्रजा
इमम् अग्निं सपर्यतु ॥

18.9.4

यं बल्बजं न्यस्यथ
चर्म चोपस्तृणीथन ।
तद् आ रोहतु सुप्रजा
या कन्या विन्दते पतिम् ॥

18.9.5

आ रोह चर्मोप सीदाग्निम्
एष देवो हन्ति रक्षांसि सर्वा ।
सुमङ्गल्य् उप सीदेमम् अग्निं
संपत्नी प्रति भूषेह देवान् ॥

18.9.6

प्र जायन्तां मातुर् अस्या उपस्थान्
नानारूपाः पशवो जायमानाः ।
इह प्रजां जनय पत्ये अस्मै
सुज्यैष्ठ्यो भवतु ते पुत्र एषः ॥

18.9.7

सुमङ्गली प्रतरणी गृहाणां
सुशेव पत्ये श्वशुराय शम्भूः ।
स्योना श्वश्रुवै प्र गृहान् विशेमान्
प्रजावती जरदष्टिर् यथासः ॥

18.9.8

सुमङ्गलीर् इयं वधूर्
इमां समेत पश्यत ।
सौभाग्यम् अस्यै दत्त्वा
दौर्भाग्येन परेतन ॥

18.9.9

या दुर्हार्दो युवतयो
याश् चेह जरतीर् अपि ।
वर्चो ह्य् अस्यै सं दत्ता-
-अथास्तं वि परेतन ॥

18.9.10

रुक्मप्रस्तरणं वह्यं
विश्वा रूपाणि बिभ्रतम् ।
आरोहत् सूर्या सावित्री
बृहते सौभगाय कम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc