पैप्पलाद-संहिता · अध्याय 18.70
यो ममार प्रथमो मर्त्यानां
यः प्रेयाय प्रथमो लोकम् एतम् ।
वैवस्वतं संगमनं जनानां
यमं राजानं हविषा दुवस्य ॥
परा यात पितर आ च यात-
-अयं वो यज्ञो मध्वा समक्तः ।
दत्तो अस्मभ्यं द्रविणेह भद्रा
रयिं च नः सर्ववीरं दधात ॥
कण्वः कक्षीवान् पुरुमीढो अगस्त्यः
श्यावाश्वः सोभर्य् अर्चनानाः ।
विश्वामित्रो ऽयं जमदग्निर् वसिष्ठो
ऽवन्तु नः कश्यपो वामदेवः ॥
विश्वामित्र जमदग्ने वसिष्ठ
भरद्वाज गोतम वामदेव ।
शर्दिर् नो अत्रिर् अग्रभीन् नमोभिः
सुशंसासः पितरो मृडाता नः ॥
कस्ये मृजाना अति यन्ति रिप्रम्
आयुर् दधानाः पितरं नवीयः ।
आप्यायमानाः प्रजया धनेन
शुद्धा भवन्तः शुचयः पावकाः ॥
यद् वो रुद्रं पितरः सोम्यं च
तेनो सचध्वं स्वयशसो हि भूत ।
ते अर्वाणः कवय आ शृणोत
सुविदत्रा विदथे हूयमानाः ॥
ये अत्रयो अङ्गिरसो नवग्वा
इष्टावन्तो रातिषाचो दधानाः ।
दक्षिणावन्तः सुकृतो य उ स्थ -
-आसद्यास्मिन् बर्हिषि मादयध्वम् ॥
अधा यथा नः पितरः परासः
प्रत्नासो अग्न ऋतम् आशुषाणाः ।
शुचीद् अयन् दीधितिम् उक्थशसः
क्षामा भिन्दन्तो अरुणीर् उप ब्रुवन् ॥
सुकर्माणः सुरुचो देवयन्तो
अयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं ववृधन्त इन्द्रम्
उर्वीं गव्यां बर्हिषदं नो अक्रन् ॥
आ यूथेव क्षुमति पश्वो अख्यद्
देवानां यज् जनिमान्त्य् उग्रः ।
मार्तानां चिद् उर्वशीर् अकृप्रन्
वृधे चिद् अर्य उपरस्यायोः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0