भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 18.71

18.71.1

अकर्म ते स्वपसो अभूम
र्तम् अजस्रन्न् उषसो विभातीः ।
विश्वं तद् भद्रं यद् वहन्ति देवा
बृहद् वदेम विदथे सुवीराः ॥

18.71.2

इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु
बाहुच्युता पृथिवी द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥

18.71.3

धाता मा निरृत्या दक्षिणाया दिशः (…) ॥

18.71.4

अदितिर् मादित्यैः प्रतीच्या दिशः (…) ॥

18.71.5

आदित्यो मा विश्वैर् देवैर् उदीच्या दिशः पातु
बाहुच्युता पृथिवी द्याम् इवोपरि ।
(…) ॥

18.71.6

धर्ता घ त्वा धरुणो धारयात्य्
ऊर्ध्वं भानुं सविता द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥

18.71.7

प्राच्यां त्वा दिशि पुरा संवृतः स्वदायाम् आ दधामि
बाहुच्युता पृथिवी द्याम् इवोपरि ।
(…) ॥

18.71.8

दक्षिणायां त्वा दिशि (…) ॥

18.71.9

प्रतीच्यां त्वा दिशि (…) ॥

18.71.10

उदीच्यां त्वा दिशि (…) ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc