पैप्पलाद-संहिता · अध्याय 18.57
ओ चित् सखायं सख्या ववृत्यां
तिरः पुरू चिद् अर्णवं जगन्वान् ।
पितुर् नपातम् आ दधीत वेधा
अधि क्षमि प्रतरं दीध्यानः ॥
न ते सखा सख्यं वष्ट्य् एतत्
सलक्ष्मा यद् विषुरूपा भवाति ।
सहस् पुत्रासो असुरस्य वीरा
दिवो धर्तार उर्विया परि ख्यन् ॥
उशन्ति घा ते अमृतास एतद्
एकस्य चित् त्यजसं मर्त्यस्य ।
नि ते मनो मनसि धाय्य् अस्मे
जन्युः पतिस् तन्वम् आ विविश्याः ॥
न यत् पुरा चकृमा कद् ध नूनम्
ऋतं वदन्तो अनृतं रपेम ।
गन्धर्वो अप्स्व् अप्या च योषा
सा नो नाभिः परमं जातमन् नौ ॥
गर्भे नू नौ जनिता दम्पती कर्
देवस् त्वष्टा सविता विश्वरूपः ।
नकिर् अस्य प्र मिनन्ति व्रतानि
वेद नाव् अस्य पृथिवी उत द्यौः ॥
को अद्य युङ्क्ते धुरि गा ऋतस्य
शिमीवतो भामिनो दुर्हणायून् ।
आसन्निषून् हृतस्वसो मयोभून्
य एषां भृत्याम् ऋणधत् स जीवात् ॥
को अस्य वेद प्रथमस्याह्नः
क ईं ददर्श क इह प्र वोचत् ।
बृहन् मित्रस्य वरुणस्य धाम
कद् उ ब्रव आहनो वीच्या नॄन् ॥
यमस्य मा यम्यं काम आगन्
समाने योनौ सहशेय्याय ।
जायेव पत्ये तन्वं रिरिच्यां
वि चिद् वृहेव रथ्येव चक्रा ॥
न तिष्ठति न नि मिषन्त्य् एते
देवानां स्पश इह ये चरन्ति ।
अन्येन मद् आहनो याहि भूयं
तेन वि वृह रथ्येव चक्रा ॥
रात्रीभिर् अस्मा अहभिर् दशस्येत्
सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् ।
दिवा पृथिव्या मिथुना सबन्धू
यमीर् यमस्य विवृहेद् अजामि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0