भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 18.27

18.27.1

व्रात्यो वावेदम् अग्र आसीद्
वीयमान एव स प्रजापतिं सम् ऐरयत् ॥

18.27.2

स प्रजापतिर् आत्मनि सुपर्णम् अपश्यत् ॥

18.27.3

तद् एकम् अभवत् तल् ललामम् अभवत्
तन् महद् अभवत् तज् ज्येष्ठम् अभवत्
तत् तपो ऽभवत् तत् सत्यम् अभवत्
तद् ब्रह्माभवत् तेन प्राजायत ॥

18.27.4

सो ऽवर्धत स महान् अभवत्
स महादेवो ऽभवत् स ईशानो ऽभवत्
स देवानाम् ईशान् अगच्छत्
स देवानाम् एकव्रत्यो ऽभवत् ॥

18.27.5

स धेनुर् आधत्त तद् इन्द्रधनुर् अभवत् ॥

18.27.6

नीलम् अस्योदरं लोहिन्य् अस्य पृष्टिः ॥

18.27.7

नीलेनाप्रियं भ्रातृव्यं प्रोर्णोति
लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc