भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 17.34

17.34.1

स देवान् आगच्छत्
तं देवा अब्रुवन्न्
आशंसामहे गुर्व् एतद् व्रतम् आरण्येषु पशुषु ग्राम्येष्व् अत्य् एति ॥

17.34.2

सो ऽनड्वाहम् उपाधावत्
तम् अनड्वान् अब्रवीत्
किं मे प्रतीवाहो भविष्यतीति
वरं वृणीष्वेति स वरम् अवृणीत ॥

17.34.3

ब्रध्नलोको ऽसानि ब्रध्नस्य विष्टपि श्रया इति ॥

17.34.4

षोडशो वा इत ऊर्ध्वो लोको यद् ब्रध्नो यद् ब्रध्नस्य विष्टपः ॥

17.34.5

ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते
यः (…) ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc