पैप्पलाद-संहिता · अध्याय 17.27
इन्द्रो वज्रम् असिञ्चद् वृत्राय हन्तवे ।
त्वष्टा वज्रम् असिञ्चद् वृत्राय हन्तवे ॥
यो वज्रः स विश्वानरो
यत् तेग्मवीर्यं स विश्वाषाड्
यद् धारम्भणं स वैश्वानरः ॥
एतद् वा इदं सर्वं यद् एतानि त्रीणि ।
विश्वानरो वैश्वानरो विश्वाषाट् ॥
सर्वान् एव पुण्यांल् लोकान् अव रुन्धे सर्वाश् च देवता
य एवं विद्वान् अनडुहो व्रतं बिभर्ति ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0