भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 17.28

17.28.1

तम् आदत्त तम् उद् ऐङ्गयत्
तम् उपामिमीत प्र हराणीति ॥

17.28.2

सो ऽस्य हस्ताद् अमुच्यत
दैवो वज्रः क्षुरः पविः सहस्रपृष्टिर् दिविस्पृशः ॥

17.28.3

स संशिञ्जानो ऽतिष्ठद् धरिहरा भवन्न् एतद् ऋच्छन् ॥

17.28.4

स समुद्रं प्राविशत्
स समुद्रम् अदहत् ॥

17.28.5

तस्मात् समुद्रो दुर्गिर् अपपिद्
वैश्वानरेण हि दग्धः ॥

17.28.6

स शक्र उद् अक्रामत् सो ऽध्यायद्
असौ वज्रो असुरैः सम्पद्यदेवास् तं रक्षति
व्रतं चराणीति स व्रतम् अचरत् ॥

17.28.7

सो ऽणुः कृशो ऽभवत्
तस्माद् अणुः कृशो व्रतचारी भवत्य्
अणुर् हि कृशो भूत्वेन्द्रो असुरान् अपावृङ्क्त ॥

17.28.8

स परमेष्ठिनम् उपाधावत् ॥

17.28.9

स प्रजापतिम् उपाधावत् ॥

17.28.10

स विष्णुम् उपाधावत् ॥

17.28.11

स गृहपतिम् उपाधावत् ॥

17.28.12

स विराजम् उपाधावत् ॥

17.28.13

स स्वराजम् उपाधावत् ॥

17.28.14

स सम्राजम् उपाधावत् ॥

17.28.15

सो ऽहोरात्रे उपधावत् ॥

17.28.16

सो ऽर्धमासान् उपाधावत् ॥

17.28.17

स मासान् उपाधावत् ॥

17.28.18

स ऋतून् उपाधावत् ॥

17.28.19

स आर्तवान् उपाधावत् ॥

17.28.20

स ऋषीन् उपाधावत् ॥

17.28.21

स आर्षेयान् उपाधावत् ॥

17.28.22

सो ऽङ्गिरस उपपाधावत् ॥

17.28.23

स आङ्गिरसान् उपाधावत् ॥

17.28.24

सो अथर्वण उपाधावत् ॥

17.28.25

स आथर्वणान् उपाधावत् ॥

17.28.26

विश्वान् देवान् मरुद्गणास् तम् अन्व् अवाद्रवन्
सोमः प्रथमो ऽथेन्द्राग्नी ॥

17.28.27

तम् उपामन्त्रयन्तापुण्यया वाचा क्रूरया च
हनिष्यामस् त्वा वित्त्वा चेत्स्यामोनचतमिष्यसीति
सो ऽशाम्यत् ॥

17.28.28

तस्माद् यो ब्रह्म वेदोतापस्कृतं शमयति दोहयत एवैनान् ॥

17.28.29

तम् ऋक्सामाभ्याम् आदत्त यजुषा यज्ञेन गायत्रेण वामदेव्येन च ॥

17.28.30

एतद् वा इदं सर्वं यद् ऋक्सामे एताव् इन्द्रस्य बाहू ॥

17.28.31

तम् आदत्त तं परुष्य् आधत्त ॥

17.28.32

प्रजा वै समृद्धिर् अक्षितिः पशवः परूंषि ॥

17.28.33

प्रजाम् एव समृद्धिम् अक्षितिम् अव रुन्धे
यः (…) ॥ [सेए 17.27.4ब्

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc