पैप्पलाद-संहिता · अध्याय 17.26
द्यावापृथिवी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्मा आमुष्यायणायामुष्याः पुत्राय ॥
वातापवमानौ वहतम् (…) ॥
इन्द्राग्नी वहतम् (…) ॥
मित्रावरुणा वहतम् (…) ॥
भवाशर्वौ वहतम् (…) ॥
देवाश्विना वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
(…) ॥
देवा मरुतो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥
देवाः पितरो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥
देव सूर्य वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥
देव चन्द्रमो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥
देवा नक्षत्राणि वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥
देवीर् आपो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
(…) ॥
देव विष्णो वह दुष्वप्न्यम् (…) ॥
देव त्वष्टर् वह (…) ॥
देव धातर् वह (…) ॥
देव सवितर् वह (…) ॥
देव पूषन् वह (…) ॥
देव बृहस्पते वह (…) ॥
देव प्रजापते वह (…) ॥
देव परमेष्ठिन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
(…) ॥
अहोरात्रे वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्मा आमुष्यायणायामुष्याः पुत्राय ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0