भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 17.22

17.22.5

मरुद्भ्यो ऽश्विभ्यां ब्रह्मणे ब्रह्मणस्पतये
ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ॥

17.22.6

ये स्वश् चक्रुर् ये स्वर् जज्ञुः ।
तेभ्यः स्वःकृद्भ्यः स्वःकारेभ्यो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ।
ते स्वःकृतः स्वःकारा अमुम् आमुष्यायणम् अमुष्याः पुत्रं परा भावयन्तु ॥

17.22.7

ये तपश् चक्रुर् ये तपो जज्ञुः ।
तेभ्यस् तपस्कृद्भ्यस् तपस्कारेभ्यो ऽमुम् (…) ।
ते तपस्कृतस् तपस्कारा अमुम् (…) ॥

17.22.8

ये ब्रह्म चक्रुर् ये ब्रह्म जज्ञुः ।
तेभ्यो ब्रह्मकृद्भ्यो ब्रह्मकारेभ्यो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ।
ते ब्रह्मकृतो ब्रह्मकारा अमुम् आमुष्यायणम् अमुष्याः पुत्रं परा भावयन्तु ॥

17.22.9

अघारिणीम् अमूम् अघविद्धां विकेशीम् अपप्रतिधिमासोक्तीं देवमनुष्याः पश्यन्तु ।
अमुम् आमुष्यायणम् अमुष्याः पुत्रं रुरुधुषीम् ॥

17.22.10

अलिक्लवा गृध्राः कङ्काः सुपर्णाः श्वपदाः पतत्रिणः ।
वयांसि शकुनयो ऽमुष्यामुष्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc