भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.97

16.97.1

आ नयैतम् आ रभस्व सुकृतां
लोकम् अपि गच्छतु प्रजानन् ।
तीर्त्वा तमांसि बहुधा विपश्यन्न्
अजो नाकम् आ क्रमतां तृतीयम् ॥

16.97.2

प्र पदो नेनिग्धि दुश्चरितं यच् चचार
शुद्धैः शफैर् आ क्रमतां प्रजानन् ।
ज्योतिष्मन्तं सुकृतां लोकम् ईप्सन्
तृतीये नाके अधि वि क्रमस्व ॥

16.97.3

अनु छ्य श्यामेन त्वचम् एतां विशस्तर्
यथापर्व् असिना माति मंस्थाः ।
माभि द्रुहः परुशः कल्पयैनं
सुकृतां मध्ये अधि वि श्रयेमम् ॥

16.97.4

भूम्यां त्वा भूमिम् अधि धेह्य् एताम्
आ सिञ्चोदकम् अव धेह्य् एनम् ।
पर्य् आधत्ताग्निना शमितारः
शृतो गच्छतु सुकृतां यत्र लोकः ॥

16.97.5

उत् क्रामातः परि चेद् अतप्तस्
तप्ताच् चरोर् अधि नाकं तृतीयम् ।
अग्नेर् अग्निर् अधि सं बभूविथ
ज्योतिष्मान् गच्छ सुकृतां यत्र लोकः ॥

16.97.6

पञ्चौदनः पञ्चधा वि क्रमस्व-
-आक्रंस्यमानः पञ्च ज्योतीँषि ।
ईजानानां सुकृतां प्रेहि मध्यं
ज्योतिष्मन्तम् अभि लोकं जयास्मै ॥

16.97.7

अजम् एवाग्निम् अजम् इज् ज्योतिर् आहुर्
अजं ब्रह्मणे जीयता देयम् आहुः ।
अजस् तमांस्य् अप हन्ति दूरम्
अस्मिंल् लोके श्रद्दधानेन दत्तः ॥

16.97.8

एतद् वो ज्योतिः पितरस् तृतीयं
पञ्चौदनं ब्रह्मणे ऽजं ददाति ।
अजस् तमांस्य् अप हन्ति दूरं
पञ्चौदनो ब्रह्मणे दीयमानः ॥

16.97.9

पञ्चौदनो ब्रह्मणे दीयमानो
ऽजो नाकम् आ क्रमतां तृतीयम् ।
विचक्रमाणः सुकृतस्य लोके
स ज्योतिषा तमो अप हन्ति दूरम् ॥

16.97.10

अजा क्रमस्व सुकृतां यत्र लोकः
शरभो नु चत्तो अति दुर्गाणि नेषतः ।
पञ्चौदनो ब्रह्मणे दीयमानो
विश्वरूपा कामदुघास्य् एका ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc