भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.70

16.70.1

द्यौर् जवेना पृथिवी वरिम्णान्तरिक्षं महित्वापो भूम्ना ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां
प्रसूतो ब्राह्मणेभ्यो निर् वपामि ॥

16.70.2

ऋषिभ्यस् त्वा र्षेयेभ्यस् त्वा (निर् वपामि) ॥

16.70.3

जुष्टतमं वह्नितमं पप्रितमं सस्नितमम्
ऊर्जो भागम् अक्षितम् अक्षितये निर् वपामि ॥

16.70.4

वसवस् त्वा गायत्रेण छन्दसा निर् वपन्तु ॥

16.70.5

रुद्रास् त्वा त्रैष्टुभेन छन्दसा निर् वपन्तु ॥

16.70.6

आदित्यास् त्वा जागतेन छन्दसा निर् वपन्तु ॥

16.70.7

इदम् अभिराव्णाम्
इदम् अभिगत्वराणाम्
इदम् अभिमन्यूनाम् ॥

16.70.8

यथा कूपः शतखाः सहस्रखा नोपदस्यति ।
एवेदं मोप दसत् तीर्थम् अश्विनोर् इव ॥

16.70.9

यो नो द्वेषन् मनसा यश् च वाचा
दैव्ये लोक उत मानुषे यः ।
ग्राव्णा हन्तु महता तस्य सर्वम्
इन्द्रो देवो मघवाञ् छचीपतिः ॥

16.70.10

वीरुत्सु वस्त्रं परिजायैतद्
ऊर्जा सोम पुनर् आ विशेह नः ।
दृंहस्व बाह्वो अम्ब धृष्व मा रिषो
अग्निश् चैतत् सनिष्यथ ॥

16.70.11

देवीर् आप ऊर्जो भागाय वो ऽक्षिता
अक्षितय आ सिञ्चामि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc