भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.66

16.66.1

अस्य वामस्य पलितस्य होतुस्
तस्य भ्राता मध्यमो अस्त्य् अश्नः ।
तृतीयो भ्राता घृतपृष्ठो अस्य-
-अत्रापश्यं विश्पतिं सप्तपुत्रम् ॥

16.66.2

सप्त युञ्जन्ति रथम् एकचक्रम्
एको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रम् अजरम् अनर्वं
यस्मिन्न् इमा विश्वा भुवनानि तस्थुः ॥

16.66.3

इमा रथम् अधि ये सप्त तस्थुः
सप्तचक्रं सप्त वहन्त्य् अश्वाः ।
सप्त स्वासरो अभि सं नवन्त
यत्र गवां निहिता सप्त नामा ॥

16.66.4

को ददर्श प्रथमं जायमानम्
अस्थन्वन्तं यद् अनस्था बिभर्ति ।
भूम्या असुर् असृग् आत्मा क्व स्वित्
को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥

16.66.5

पाकः पृच्छामि मनसाविजानन्
देवानाम् एना निहिता पदानि ।
वत्से बष्कये ऽधि सप्त तन्तून्
वि तत्निरे कवय ओतवा उ ॥

16.66.6

अचिकित्वांश् चिकितुषश् चिद् अत्र
कवीन् पृच्छामि विद्मने न विद्वान् ।
वि यस् तस्तम्भ षड् इमा रजांस्य्
अजस्य रूपे किम् अपि स्विद् एकम् ॥

16.66.7

इह ब्रवीतु य ईम् अङ्ग वेद-
-अस्य वामस्य निहितं पदं वेः ।
शीर्ष्णः क्षीरं दुह्रते गावो अस्य
वव्रिं वसाना उदकं पदापुः ॥

16.66.8

माता पितरम् ऋत आ बभाज
धीत्य् अग्रे मनसा सं हि जग्मे ।
सा बीभत्सुर् गर्भरसा निविद्धा
नमस्वन्त इद् उपवाकम् ईयुः ॥

16.66.9

युक्ता मातासीद् धुरि दक्षिणाया
अतिष्ठद् गर्भो वृजनीष्व् अन्तः ।
अमीमेद् वत्सो अनु गाम् अपश्यद्
विश्वरूप्यं त्रिषु योजनेषु ॥

16.66.10

तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक
ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे
विश्वविदं वाचम् अविश्वमिन्वाम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc