भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.56

16.56.1

ततश् चैनम् अन्येन शीर्ष्णा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
शिरस् ते वि पतिष्यतीत्य् एनम् आह ॥

16.56.2

ततश् चैनम् अन्येन मुखेन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
शिरस् ते वि ह्वरिष्यतीत्य् एनम् आह ॥

16.56.3

ततश् चैनम् अन्याभ्याम् अक्षीभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
अन्धो भविष्यसीत्य् एनम् आह ॥

16.56.4

ततश् चैनम् अन्याभ्यां श्रोत्राभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
बधिरो भविष्यसीत्य् एनम् आह ॥

16.56.5

ततश् चैनम् अन्येनास्येन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
वाक् ते ऽप क्रमिष्यतीत्य् एनम् आह ॥

16.56.6

ततश् चैनम् अन्यया जिह्वया प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
जिह्वा ते पूर्वा मरिष्यतीत्य् एनम् आह ॥

16.56.7

ततश् चैनम् अन्यैर् दन्तैः प्राशीर्
यैर् एतम् अग्रे प्राश्नन् ।
दन्तास् ते शत्स्यन्तीत्य् एनम् आह ॥

16.56.8

ततश् चैनम् अन्यैः प्राणैः प्राशीर्
यैर् एतम् अग्रे प्राश्नन् ।
प्राणस् त्वा हास्यतीत्य् एनम् आह ॥

16.56.9

ततश् चैनम् अन्येनोरसा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
कृष्या न रात्स्यसीत्य् एनम् आह ॥

16.56.10

ततश् चैनम् अन्येन व्यचसा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
राजयक्ष्मस् त्वा हनिष्यतीत्य् एनम् आह ॥

16.56.11

ततश् चैनम् अन्येन पृष्ठेन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
विद्युत् त्वा हनिष्यतीत्य् एनम् आह ॥

16.56.12

ततश् चैनम् अन्येनोदरेण प्राशीर्
येनैतम् अग्रे प्राश्नन्
वरुणस् त्वा हनिष्यतीत्य् एनम् आह ॥

16.56.13

ततश् चैनम् अन्येन वस्तिना प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
अप्सु मरिष्यसीत्य् एनम् आह ॥

16.56.14

ततश् चैनम् अन्याभ्याम् ऊरुभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
ऊरू ते ऽव पत्स्येते इत्य् एनम् आह ॥

16.56.15

ततश् चैनम् अन्याभ्याम् अष्ठीवद्भ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
स्रामो भविष्यसीत्य् एनम् आह ॥

16.56.16

ततश् चैनम् अन्याभ्यां पद्भ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
सर्पस् त्वा हनिष्यतीत्य् एनम् आह ॥

16.56.17

ततश् चैनम् अन्यस्यां प्रतिष्ठयां प्राशीर्
यस्याम् एतम् अग्रे प्राश्नन् ।
अप्रतिष्ठानो भविष्यसीत्य् एनम् आह ॥

16.56.18

ततश् चैनम् अन्याभ्यां हस्ताभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
ब्राह्मणं हनिष्यसीत्य् एनम् आह ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc