भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.55

16.55.1

ब्रह्मवादिनो वदन्ति
प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां
त्वम् ओदनं प्राशीस् त्वाम् ओदना इति ।
कस्यैनं शीर्ष्णा प्राशीः ॥

16.55.2

(…) ।
कस्यैनं मुखेन प्राशीः ॥

16.55.3

(…) ।
कस्यैनम् अक्षीभ्यां प्राशीः ॥

16.55.4

(…) ।
कस्यैनं श्रोत्राभ्यां प्राशीः ॥

16.55.5

(…) ।
कस्यैनम् आस्येन प्राशीः ॥

16.55.6

(…) ।
कस्यैनं जिह्वया प्राशीः ॥

16.55.7

(…) ।
कस्यैनं दन्तैः प्राशीः ॥

16.55.8

(…) ।
कस्यैनं प्राणैः प्राशीः ॥

16.55.9

(…) ।
कस्यैनम् उरसा प्राशीः ॥

16.55.10

(…) ।
कस्यैनं व्यचसा प्राशीः ॥

16.55.11

(…) ।
कस्यैनं पृष्ठेन प्राशीः ॥

16.55.12

(…) ।
कस्यैनम् उदरेण प्राशीः ॥

16.55.13

(…) ।
कस्यैनं वस्तिना प्राशीः ॥

16.55.14

(…) ।
कस्यैनम् ऊरुभ्यां प्राशीः ॥

16.55.15

(…) ।
कस्यैनम् अष्ठीवद्भ्यां प्राशीः ॥

16.55.16

(…) ।
कस्यैनं पद्भ्यां प्राशीः ॥

16.55.17

(…) ।
कस्याम् एनं प्रतिष्ठायां प्राशीः ॥

16.55.18

ब्रह्मवादिनो वदन्ति
प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां
त्वम् ओदनं प्राशीस् त्वाम् ओदना इति ।
कस्यैनं हस्ताभ्यां प्राशीः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc