भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.57

16.57.1

तम् अहं न प्रत्यञ्चं न पराञ्चं
नाहम् ओदनं न माम् ओदनः ।
ओदन एवौदनं प्राशीद् बृहस्पतिना शीर्ष्णा ॥

16.57.2

(…)
(…) प्राशीद् ब्रह्मणा मुखेन ॥

16.57.3

(…)
(…) प्राशीत् सूर्याचन्द्रमसाभ्याम् अक्षीभ्याम् ॥

16.57.4

(…)
(…) प्राशीद् बृहद्रथन्तराभ्यां श्रोत्राभ्याम् ॥

16.57.5

(…)
(…) प्राशीद् अग्नेर् आस्येन ॥

16.57.6

(…)
(…) प्राशीद् विद्युता जिह्वया ॥

16.57.7

(…)
(…) प्राशीन् मरुद्भिर् दन्तैः ॥

16.57.8

(…)
(…) प्राशीत् सप्तऋषिभिः प्राणैः ॥

16.57.9

(…)
(…) प्राशीत् पृथिव्योरसा ॥

16.57.10

(…)
(…) प्राशीद् अन्तरिक्षेण व्यचसा ॥

16.57.11

(…)
(…) प्राशीद् दिवा पृष्ठेन ॥

16.57.12

(…)
(…) प्राशीद् वरुणस्योदरेण ॥

16.57.13

(…)
(…) प्राशीत् समुद्रेण वस्तिना ॥

16.57.14

(…)
(…) प्राशीन् मित्रावरुणयोर् ऊरुभ्याम् ॥

16.57.15

(…)
(…) प्राशीद् ऋतस्याष्ठीवद्भ्याम् ॥

16.57.16

(…)
(…) प्राशीत् सवितुः पद्भ्याम् ॥

16.57.17

(…)
(…) प्राशीद् अस्यां प्रतिष्ठायां प्राशीत् ॥

16.57.18

तम् अहं न प्रत्यञ्चं न पराञ्चं
नाहम् ओदनं न माम् ओदनः ।
ओदन एवौदनं प्राशीत् सत्यस्य हस्ताभ्याम् ॥

16.57.19

त एनं प्राशिषुस् त एनम् आरूरुहन् त एनम् अजीगमन् ।
एतस्माद् वै लोका लोकांस् त्रयस्त्रिंशतं प्रजापतिर् निर्मिमीत ॥

16.57.20

तस्य गुप्तये यज्ञान् असृजन्त देवाः ।
ये त्रयस्त्रिंशत् प्रजापतिसृष्टाः पुण्यलोकाः ।
ते ऽस्य सर्वे ऽभिजिता अवरुद्धा भवन्ति य एवं वेद ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc