पैप्पलाद-संहिता · अध्याय 16.34
पृथिवी दण्डो अन्तरिक्षं गर्भो
द्यौः कशा विद्युत् प्रकशः ।
मधोः कशासि घृताची हिरण्ययो बिन्दुः ॥
उर्व्य् असि प्रभ्व्य् अस्य्
अम्भो ऽसि नभो ऽसि महो ऽसि ।
अम्भो मा कृणु नभो मां कृणु महो मा कृणु ॥
समुद्रो ऽस्य् अक्षितो अपरिमितः
सहस्रसनिः सहस्रं मा गच्छतु ।
यो वै मधुकशायाः सप्त मधूनि वेद सप्त मधुमतीन् ॥
मधुमन्तं लोकं जयति
मध्व् अस्याहार्यं भवति ।
यद् वीध्रे स्तनयति
प्रजापतिर् एव तत् प्रजाभ्यः प्रादुर् भवति ॥
तस्मात् प्राचीनोपवीतस् तिष्ठेत्
प्रजापते ऽनु मा बुध्यस्वेति ।
अन्व् एनं प्रजापतिर् अनु प्रजा बुध्यन्ते य एवं वेद ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0