पैप्पलाद-संहिता · अध्याय 16.33
यथा सोमः प्रातःसवने
अश्विनोर् भवति प्रियः ।
एवा मे अश्विना वर्च
आत्मनि ध्रियताम् ॥
यथा सोमो द्वितीयसवन
इन्द्राग्न्योर् भवति प्रियः ।
एवा म इन्द्राग्नी वर्चः (…) ॥
यथा सोमस् तृतीयसवन
ऋभूणां भवति प्रियः ।
एवा म ऋभवो वर्च
आत्मनि ध्रियताम् ॥
मधु जनिषीय
मधु मंसिषीय ।
पयस्वान् अग्न आगमं
तं मा सं सृज वर्चसा ॥
सं माग्ने वर्चसा सृज
सं प्रजया सम् आयुषा ।
विद्युर् मे अस्य देवा
इन्द्रो विद्यात् सह ऋषिभिः ॥
यद् गिरिष्व् इति पाञ्चर्चिकी ॥
यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवा मे अश्विना बलम्
ओजश् च ध्रियताम् ॥
यथा मक्षा इदं मधु
न्यञ्जन्ति क्षणाव् अधि ।
एवा मे अश्विना वर्चस्
तेजश् च ध्रियताम् ॥
अश्विना सारघेण मा
मधुनाङ्क्तं शुभस्पती ।
यथा वर्चस्वतीं वाचम्
आ वदानि जनाँ अनु ॥
वृषा शुष्मं क्षिपसि भूम्यां दिवो
मधोः कशया पृथिवीम् अनक्षि ।
तां जातां पशव उप जीवन्ति सर्वे
तेनो सेषम् ऊर्जं पिपर्ति ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0