भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.155

16.155.1

पार्थिवा दिव्याः पशव
आरण्या ग्राम्या च ये ।
अपक्षाः पक्षिणश् च ये
ते जाता ब्रह्मचारिणः ॥

16.155.2

पृथक् सर्वे प्रजापत्याः
प्राणाँ आत्मसु बिभ्रति ।
सर्वांस् तान् ब्रह्म रक्षति
ब्रह्मचारिण्य् आभृतम् ॥

16.155.3

ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति
तस्मिन् देवा अधि विश्वे समेताः ।
स स्नातो बभ्रुः पिङ्गलः
पृथिव्यां बहु रोचते ॥

16.155.4

देवानाम् एतत् परिषूतम्
अनभ्यारूढं चरति रोचमानम् ।
तस्मिन् सर्वे पशवस् तत्र यज्ञास्
तस्मिन्न् अन्नं सह देवताभिः ॥

16.155.5

प्राणापानौ जनयन्न् आद् व्यानं
चक्षुः श्रोत्रं जनयन् ब्रह्म मेधाम् ।
वाचं श्रेष्ठां यशो अस्मासु धेह्य् ॥

16.155.6

अन्नं रेतो लोहितम् उदरं तानि कल्पन् ।
ब्रह्मचारी सलिलस्य पृष्ठे
तपो ऽतिष्ठत् तप्यमानः समुद्रे ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc